________________
उद्देशक : १, मूलं-६, [भा. १६४९]
४१९ कर्तव्यमिति कस्याप्यभिग्रहो भवति, यथा भगवतः श्रीमन्महावीरस्वामिनः । तथा स्वग्रामे वा परग्रामे वा एतावन्ति गृहाणिमया प्रवेष्टव्यानीत्येषः 'क्षेत्रे' क्षेत्रविषयोऽभिग्रहः॥कालाभिग्रहमह[भा.१६५०] काले अभिग्गहो पुन, आई मज्झे तहेव अवसाने ।
अप्पत्ते सइ काले, आई बिइओ अचरिमम्मि॥ वृ-'काले' कालविषयोऽभिग्रहः पुनरयम्-आदौ मध्ये तथैवावसाने भिक्षावेलायाः। एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले यत् पर्यटति सः ‘आदौ' मध्ये तथैवावसाने भिक्षावेलायाः। एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले चरति सद्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः । यत्पुनः 'चरिमे' अतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः ।। कालत्रयेऽपि गुण-दोषानाह[भा.१६५१] दिंतग-पडिच्छगाणं, हविज्ज सुहुमं पि मा हुअचियत्तं ।
इअअप्पत्ते अइए, पवत्तणं मा ततो मज्झे॥ वृ- 'ददत्-प्रतीच्छकयोः' इति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्मा भूत् सूक्ष्ममपि 'अचियत्तम्' अप्रीतिकं इति' अस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं न श्रेय इति गम्यते । “पवत्तणं मा ततो मझे''त्ति अप्राप्तेऽतीते वा पर्यटतः प्रवर्तनं पुरःकर्म-पश्चत्कदिर्मा भूत् 'ततः' एतेन हेतुना ‘मध्ये' प्राप्ते भिक्षाकाले पर्यटति॥ अथ भावाभिग्रहमाह[भा.१६५२] उक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति।
गायंतो व रुदंतो, जं देइ निसन्नमादी वा॥ वृ-उत्क्षिप्तं-पाकपिठरात् पूर्वमेव दायकेनोद्ध तंतद् ये चरन्ति-गवेषयन्ति ते उत्क्षिप्तचरकाः, आदिशब्दाद् निक्षिपतचरकाः सयादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते । त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः सङ्ढ्यादत्तिका दृष्टलाभिकाः पृष्टलाभिका इत्यादयो गृह्यन्ते। त एते गुण-गुणिनोः कथञ्चिदभेदाद् भावयुताः खल्वभिग्रहा भवन्ति, भावाभिग्रहा इति भावः ।यद्वागायन्यदिदास्यति तदा मयाग्रहीतव्यम्, एवंरुदन् वा निषनादिर्वा, आदिग्रहमादुत्थितः सम्प्रस्थितश्च यद् ददाति तद्विषयो योऽभिग्रहः स सर्वोऽपि भावाभिग्रह उच्यते ॥ तथा[भा.१६५३] ओसक्कण अहिसक्कण, परम्मुहाऽलंकिएयरो वा वि ।
भावन्नयरेण जुओ, अह भावाभिग्गहो नाम॥ वृ-'अवष्वष्कन्' अपसरणं कुर्वन् ‘अभिष्वष्कन्' सम्मुखमागच्छन् ‘पराङ्मुखः' प्रतीतः, अलङ्कृतः कटक-केयूरादिभिः, 'इतरोवा' अनलकृतः पुरुषोयदिदास्यतितदामयाग्राह्यमिति। एतेषांभावानामन्यतेण भावेन युतः ‘अथ' अयं भावाभिग्रहो नामेति । एतेच द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वाद् मोह-मदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति ।।
अथ प्रव्राजना-मुण्डापनाद्वारे भावयति[भा.१६५४] सच्चित्तदवियकप्पं, छव्विहमवि आयरंति थेराउ।
कारणओ असहू वा, उवएसं दिति अन्नत्थ ॥ वृ-प्रव्राजना-मुण्डापनाभ्यामुपलक्षणत्वात् षडविधोऽपिसच्चित्तद्रव्यकल्पो गृहीतः । तद्यथाप्रव्राजना १ मुण्डापना २ शिक्षापना ३ उपस्थापना ४ सम्मुञ्जना ५ संवासना ६ चेति । तमेवंविधं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org