________________
बृहत्कल्प - छेदसूत्रम् - १-१/६ षडविधमपि सच्चित्तद्रव्यकल्पमाचरन्ति ' स्थविरा:' गच्छावासिनः । “कारणओ"त्ति तथाविधैरनाभाव्यतादिभि कारणैः 'असहिष्णवो वा' स्वयं वस्त्र - पात्रादिभिर्ज्ञानादिभिश्च शिष्याणां सङ्ग्रहोपग्रहौ कर्त्तुमसमर्था उपदेशम् 'अन्यत्र' गच्छान्तरे 'ददति' प्रयच्छन्ति, अमुकत्र गच्छे संविग्नगीतार्था आचार्या सन्ति तेषां समीपे भवता दीक्षा प्रतिपत्तव्येति ॥ अथ “मनसाऽऽपन्ने नास्ति प्रायश्चित्तम्" इति पदं व्याख्यानयति[ भा. १६५५ ] मायबहुल पडिवक्खे दुक्करं ठवेउं जे। केत्तियमित्तं वोज्झिति, पच्छित्तं दुग्गयरिणी वा ॥
वृ- अयं 'जीवः' प्राणी 'प्रमादबहुलः' अनादिभवाभ्यस्तप्रमादभावनाभावितः, ततः 'प्रतिपक्षे' अप्रमादे स्थापयितुं दुष्करं भवति, दुःखेन अप्रमादभावनायां स्थाप्यत इत्यर्थः । “जे” इति निपातः पादपूरणे। अतो 'दुर्गतऋणिक इव' दरिद्राधमर्ण इव अतिप्रभूतं ऋणं अतिचपलचित्तसम्भवापराधवशादयं प्रमादबहुलो जीवः पदे पदे समापद्यमानं कियन्मात्रं प्रायश्चित्तं 'वक्ष्यति' वोढुं शक्ष्यति इति मनसाऽऽपन्नेऽप्यपराधेनास्ति तपःप्रायश्चित्तं स्थविरकल्पिकानाम्, आलोचनाप्रतिक्रमणप्रायश्चित्ते तु तत्रापि भवत इति मन्तव्यम् ॥
अथ “कारणे पडिकम्मम्मिय" त्ति पदं व्याख्यायते - कारणम्-अशिवाऽवमौदर्यादिकं तत्रोत्पन्ने द्वितीयपदमप्यासेवन्ते । तथा निष्कारणे निष्प्रतिकर्मशरीराः । कारणे तु ग्लानमाचार्यं वादिनं धर्मकथिकं च प्रतीत्य पादघावन - मुखमार्जन - शरीरसम्बाधनादिकरणात् सप्रतिकर्माण इति । “भत्तं पंथो य भयणाए" त्ति भक्तंपन्याश्च भजनया । किमुक्तं भवति ? - उत्सर्गस्तावत् तृतीयपौरुष्यां भिक्षाटनं विहारं च कुर्वन्ति, अपवादतस्तु तदानीं भिक्षाया अलाभे काले वा पूर्यमाणे शेषास्वपि पौरुषीष्विति । गतं स्थितिद्वारम् । अथोपसंहरन्नाह
४२०
[भा. १६५६ ] गच्छम्मि उ एस विही, नायव्वो होइ आनुपुवीए । जं एत्थं नात्तं तमहं वोच्छं समासेणं ॥
'गच्छे' गच्छवासिनां 'एषः' अनन्तरोक्तो विधिर्ज्ञातव्यः 'आनुपूर्व्या' परिपाट्या । यत् पुनरत्र 'नानात्वं' विशेषस्तदहं वक्ष्ये समासेन । एतदेव सविशेषमाह
वृ
[भा. १६५७]
सामायारी पुनरवि, तेसि इमा होइ गच्छवासीणं ।
पडिसेहो व जिणाणं, जं जुज्जइ वा तगं वोच्छं ।
वृ- सामाचारी पुनरपि तेषां गच्छ्वासिनां मासकल्पेन विहरताम् 'एषा' वक्ष्यमाणा भवति । ‘जिनानां’ जिनकल्पिकानामस्या एव सामाचार्या प्रतिषेधो वा वक्तव्यः । 'यद्वा' प्रत्युपेक्षणादिकं तेषामपि युज्यते तकमपि वक्ष्ये ॥ प्रतिज्ञातमेव निर्वाहयन् द्वारगाथाद्वयमाह
[भा. १६५८ ] पडिलेहण निक्खमणे, पाहुडिया भिक्ख कप्पकरणे य । गच्छ सतिए अ कप्पे, अंबिल भरिए य ऊसित्ते ।
वृ- प्रथमतः प्रत्युपेक्षणा वक्तव्या । ततो 'निष्क्रमणं' कति वारा उपाश्रयाद् निर्गन्तव्यमिति, प्राभृतिका सूक्ष्म - बादरभेदाद् द्विविधा, 'भिक्षा' गोचरचर्या, 'कल्पकरणं च ' भाजनस्य धावनविधिलक्षममित्येतानि वक्तव्यानि । “गच्छ सइए"त्ति शतिकाः शतसङ्ख्यपुरुषपरिमाणा ये गच्छास्तेषु प्रभूतेन पानकेन प्रयोजनं भवेत्, तच्च "कप्पे अंबिल "त्ति 'कल्प्यं' कल्पनीयम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org