SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् - १-१/६ विपाकः शुभाशुभो भवतीति । उक्तं सप्रपञ्चं ध्यान- लेश्याद्वारद्वयम् । अथ गणद्वारमाह[भा. १६४७ ] पडिवज्रमाण भइया, एगो व सहस्ससो व उक्कोसा । कोडिसहस्सपुहत्तं, जहन्न-उक्कोसपडिवन्ना ॥ वृ- स्थविरकल्पस्य प्रतिपद्यमानकाः 'भाज्याः' विवक्षितकाले भवेयुर्वा न वा । यदि भवेयुस्तत एको द्वौ वा त्रयो वा उत्कर्षतो यावत् सहपृथक्त्वम् । पूर्वप्रतिपना जघन्यतोऽपि कोटिसहपृथक्त्वम्, उत्कर्षतोऽपि कोटिसहपृथक्त्वम् । नवरं जघन्यपदादुत्कृष्टपदे विशेषाधिकत्वम् ॥ गतं गणनाद्वारम् । अथाभिग्रहद्वारं व्याख्यायते-ते च चतुर्द्धा, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्रद्रव्यतस्तावदाह [भा. १६४८] ४१८ लेवडमलेवडं वा, अमुगं दव्वं च अज्ज घिच्छामि । अमुगेन व दव्वेणं, अह दव्वाभिग्गहो नाम ॥ वृ- 'लेपकृतं ' जगारिप्रभृतिकम् 'अलेपकृतं वा' तद्विपरीतं वल्ल चणकादि 'अमुकं वा' निर्दिष्टनामकं मण्डकादिद्रव्यमहं ग्रहीष्यामि, 'अमुकेन वा' दर्वी - कुन्तादिना दीयमानमहं ग्रहीष्ये, 'अथ' अयं 'द्रव्याभिग्रहो नाम' भिक्षाग्रहणादिविषयः प्रतिज्ञाविशेष इति ॥ क्षेत्राभिग्रहमाह[भा. १६४९ ] अट्ठ उ गोयरभूमी, एलुगविक्खंभमित्तगहणं च । सग्गाम परग्गामे, एवइए घरा य खित्तम्मि ।। वृ- अष्ट गोचरभूमयो भवन्ति । ताश्चैताः ऋज्वी १ गत्वाप्रत्यागतिका २ गोमूत्रिका ३ पतङ्गवीथिका ४ पेडा ५ अर्द्धपेडा ६ अभ्यन्तरशम्बूका ७ बहिशम्बूका ८ च । तत्र यस्यामेकां दिशमभिगृह्योपाश्रयाद् निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षां परिभ्रमन् तावद्याति यावत् पङङ्क्तौ चरमगृहम्, ततो भिक्षामगृह्णन्नेवापयप्तिऽपि प्राञ्जलयैव गत्या प्रतिनिवर्त्तते सा ऋची १ । यत्र पुनरेकस्यां गृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्या गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका, 'गत्वा प्रत्यागतिर्यस्यां सा गत्वाप्रत्यागतिका' इति व्युत्पत्तेः २ । यस्यां तु वामगृहाद् दक्षिणगृहे दक्षिणगृहाच्च वामगृहे भिक्षां पर्यटति सा गोः बलीवर्दस्य मूत्रणं गोमूत्रिका, उपचारात् तदाकारा गोचरभूमिरपि गोमूत्रिका ३। यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका, पतङ्गः शलभस्तस्येव या वीथिका पर्यटनमार्ग सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नुत्लुत्योत्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतङ्गोड्डयनाकारा सा पतङ्गवीथिकेति भावः ४ । यस्यां तु साधुः क्षेत्रं पेटावत् चतुरं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा ५ । अर्द्धपेटाऽप्येवमेव, नवरमर्द्धपेटासदृशसंस्थानयोर्टिंगद्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति ६ । तथा शम्बूकः- शङ्खः तद्वद्या वीथि सा शम्बूका । सा द्वेधा - अभ्यन्तरशम्बूका बहिशम्बूका च । यस्यां क्षेत्रमध्यभागात् शङ्खवद् वृत्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७ । यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिशम्बूका ८ । आह च स्वोपज्ञपञ्चवस्तुकटीकायां श्रीहरिभद्रसूरि अब्भितरसंबुक्का वाहिसंबुक्का य संखनाहिखेत्तोवमा । एगीए अंतो आढवइ बाहिरतो संनियट्टइ, इयरीए विवज्जओ त्ति । तथा “एलुगविक्खंभमित्तगहणं च "त्ति एलुक - उदुम्बरस्तस्य विष्कम्भः- आक्रमणं तन्मात्रेण मया ग्रहणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy