________________
उद्देशक : १, मूलं -६, [भा. १६१८]
४११
अगीतार्थास्तस्य शिष्यास्तेषां नास्ति कोऽपि सामाचार्या उपदेष्टा आलोचनाया वा प्रतीच्छकः ततो विष्वग्वसतौ द्वावप्याचार्यौ समुद्दिशतः । “सहू विअरे" त्ति 'वा' अथवा यदि रत्नाधिकः सहिष्णुस्ततः 'इतरस्य' अवरत्नाधिकस्योपाश्रयं गत्वा समुद्दिशति । एवं तावद् द्वयोर्गच्छयोर्विधिरुक्तः । अथ त्रयो गच्छा भवेयुस्ततः को विधि: ? इत्याह
[ भा. १६१९]
तहं एक्क्म समं, भत्तट्ठे अप्पमो अवढं तु । पच्छा इयरेण समं, आगमन विरेगु सो चेव ॥
वृ- यद्येक आचार्यो वास्तव्यो भवति द्वौ चागन्तुकौ तत इत्थं त्रयाणामाचार्याणां सम्भवे द्वयोरागन्तुकयोर्मध्याद् यो रत्नाधिकस्तस्य सम्बन्धी यो वैयावृत्त्यकरस्तेनैकेन समं वास्तव्याचार्यवैयावृत्त्यकरः पर्यटन प्राधूर्णकाचार्यस्य हेतोः 'भक्तार्थं ' परिपूर्णाहारमात्रारूपम् ‘आत्मनश्च’ आत्मीयाचार्यार्थम् 'अपार्द्धम्' अर्द्धध्रुवमात्रं श्राद्धकुलेभ्यो गृह्णाति । पश्चाद् 'इतरेण' आगन्तुकावमरत्नाधिकाचार्यसम्बन्धिना वैयावृत्त्यकृता समं पर्यटन् तथैव तद्योग्यं भक्तार्थमात्मनश्चार्द्धध्रुवमात्रं गृह्णाति । “आगमन विरेगो सो चेव" त्ति यदि त्रि- चतुः प्रभृतीनामाचार्याणामागमनं भवति ततः स एव 'विरेकः' विभजनम् । किमुक्तं भवत ? - तदीयैरपि वैयावृत्त्यकरैः समं यथाक्रमं पर्यटता वास्तव्यसाधुनाऽऽत्मीयाचार्यार्थं तथा न्यादिभिर्भागैर्भक्तार्थं विभज्य भक्तं ग्रहीतव्यं यथा सर्वान्तिमवैयावृत्त्यकरेण समं पर्यटन्नात्मगुरूणां भक्तार्थं परिपूरयतीति ॥ अथ "गिलाणमाई असति" त्ति पदं विवृणोति
[भा. १६२०] अतरंतस्स उ जोगासईए इयरेहि भाविए विसिउं । अन्नमहानसुवक्खड, जं वा सन्नी सयं भुंजे ॥
वृ- “अतरंतो” ग्लानः तस्य उपलक्षणत्वादाचारयस्यापि यद् योग्यं-प्रायोग्यं तस्य असतिअलाभे इतरे नाम - असंविग्नास्तैर्भावितेषु श्राद्धकुलेषु प्रविश्य यस्मिन् महानसे ते असंविग्ना अध्यवपूरकादिदोषदुष्टां भिक्षां गृह्णते तद् वर्जयित्वा यदन्यस्मिन् महानसे केवलं गृहार्थमेवोपस्कृतं ततो ग्लानाद्यर्थं गृह्यते, यद् वा भक्तं पृथगुपस्कृतं "सन्नी" स गृहस्वामी श्रावकः स्वयं भुङ्क्ते ततो वा गृह्यते, अन्यदीयाद्वा कुतोऽपि गृहाद् यत् प्रहेणकादिकमायातं तद् गृह्यते ॥
अथ " दवाइ एमेव" त्ति पदं व्याख्यानयति
[भा. १६२१] असतीए व दवस्स व, परिसित्तिय-कंजि- गुलदवाईणि । अत्तट्ठियाइँ गिण्हइ, सव्वालंभे विमिस्साई ॥
वृ- यदि ग्लानस्य गच्छस्य वा योग्यं द्रव्यं पानकं संविग्नभावितेषु कुलेषु न लभ्यते तदा द्रव्यस्य 'असति' अभावेऽसंविग्नभावितेष्वपि कुलेषु " परिसित्तिय" त्ति येनोषणोदकेन दधिभाजनानि निर्लेप्यन्ते तत् परिषिक्तपानकम्, काञ्जिकम् - आरनालम्, गुलद्रवं नाम-यस्यां कवल्लिकायां गुड उत्काल्यते तस्यां यत् सप्तमतप्तं वा पानीयं तद् गुडोपलिप्तं द्रवं गुडद्रवम्, आदिग्रहणात् चिञ्चापानकादिपरिग्रहः । एतानि पानकानि यदि तैः श्राद्धकैः 'आत्मार्थितानि' प्रथममेवात्मार्थं कृतानि तदा ग्लानाद्यर्थं गृह्णाति । “सव्वालंभे "त्ति यदि सर्वथैव ग्लानस्य वा गच्छस्य वा योग्यमेषणीयं पानकं न लभ्यते तदा "विभीसाइं "त्ति 'विमिश्राणि' असंविग्नानां श्रावकाणां चार्थायाचित्तीकृतानि तान्यपि द्वितीयपदे गृह्यन्ते ॥ अथ “असई इ दवादि" इत्यत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org