________________
४१०
बृहत्कल्प - छेदसूत्रम् - १-१/६
‘असति’ अविद्यमाने द्रवादिकमपि 'एवमेव' असिग्नभावितकुलेषु ग्रहीतव्यमिति द्वारगाथासमासार्थः ।। अथैनामेव विवरीषुराह[ भा. १६१६ ]
संविग्गमणुन्नाए, अइंति अहवा कुले विरिंचंति । अन्नाउंछं व सहू, एमेव य संजईवग्गे ॥
वृ- इह यैस्तत् क्षेत्रं प्रत्युपेक्षितं तेषु पूर्वस्थितेषु येऽन्ये साधवः समायान्ति ते साम्भोगिका असाम्भोगिका वा स्युः । तत्रासाम्भोगिकेषु संविग्नेषुविधिरुच्यते-संविग्नैर्वास्तव्यसाधुभिः 'अनुज्ञाते' 'यूयं स्थापनाकुलेषु प्रिशत, वयमज्ञातोञ्छं गवेषयिष्यामः' इत्येमनुज्ञायां प्रदत्तायां ये आगन्तुकाः संविग्नास्ते स्थापनाकुलेषु “अइंति” त्ति प्रविशन्ति । वास्तव्यास्तु स्थापनाकुलवर्जेषु गुरु-बालवृद्धादीनामात्मनश्च हेतोर्भक्त-पानमुत्पादयन्ति । अथ वास्तव्या असहिष्णवस्ततो यावन्तो गच्छास्तावद्भिर्भागैः स्थापनाकुलानि विरिञ्चन्ति आर्या ! एतावत्सु कुलेषु भवद्भि प्रवेष्टव्यम्, एतावत्सु पुनरस्माभिरिति । अथवा यद्यागन्तुकाः “सहू” इति ‘सहिष्णवः' समर्थशरीरास्ततोऽज्ञातोञ्छंपुनरस्माभिरिति । अथवा यद्यागन्तुकाः “सहू” इति 'सहिष्णवः' समर्थशरीरास्ततोऽज्ञातोञ्छं गेषयन्तः पर्यटन्ति । एवमेव च संयतीवर्गेऽपि द्रष्टव्यम्, ता अपि द्व्यादिगच्छसद्भावे एवंविधमेव विधिं कुर्वन्तीत्यर्थः ॥ [भा. १६१७ ]
एवं तु अन्नसंभोइआण संभोइआम ते चैव । जाणत्ता निब्बंधं, वत्थव्वेणं स उ पमाणं ॥
वृ एवं 'तुः पुनरर्थे एष पुनर्विधिरन्यसाम्भोगिकानामुक्तः, ये तु साम्भोगिकाः परस्परमेकसामाचारीकास्तेषामागन्तुकानामर्थाय त एव वास्तव्याः स्थापनाकुलेभ्यो भक्त - पानमानीय प्रयच्छन्ति । अथ श्राद्धाः प्राधूर्णकभद्रका अतीव निर्बन्धं कुर्य, यथा- प्राधूर्णकसङ्घाटकोऽप्यस्मद्गृहे स्थापनीयः, ततो निर्बन्धं ज्ञात्वा वास्तव्यसङ्घटिकेन आगन्तुकसङ्घाटिकं गृहीत्वा तत्र गन्तव्यम् यदि च तत्र प्रचुरं प्रायोग्यं प्राप्यते तत आगन्तुकसङ्घाटिकेन गवेषणा न कर्त्तव्या किमित्येतावत् प्रचुरं दीयते ? किन्तु 'स तु' स एव वास्तव्यसङ्घाटिकस्तत्र प्रमाणम्, यावन्मात्रं ग्रहीतव्यं यद्वा कल्पनीयं तदेतत् सर्वमपि स एव जानातीति भावः । एष एकस्यां वसतौ स्थितानां विधिरुक्तः ।
अथ पृथग्वसतिव्यवस्थितानामाह
[भा. १६१८ ] असइ वसहीए वीसुं, रायनिए वसहि भोयणाऽऽगम्म । असहू अपरिनया वा, ताहेवीसुंऽ सहू वियरे ॥
वृ- विस्तीर्णाया वसतेः ‘असति' अभावे 'विष्वक्' पृथग् अन्यस्यां सतौ स्थितानामागन्तुक वास्तव्यो वा यः 'रत्नाधिकः' आचार्यास्तस्य वसतावागम्यावमरत्नाधिकेन भोजनं कर्त्तव्यम् । अथैकस्मिन् गच्छे द्वयोर्वा गच्छयोः 'असहिष्णवः' ग्लाना भवेयुः अपरिणता वा शैक्षाः परस्परं मिलिताः सन्तोऽसङ्घडं कुर्युः तदा "वीसुं' 'ति अपरिणतान् 'विष्वक् पृथग्भोजयन्ति । “सहूवियरे" त्ति अकारप्रश्लेषाद् असहिष्णूनां प्रथमालकां 'वितरन्ति' प्रयच्छन्ति । ततोऽपरिणतान् वसतौ स्थापयित्वा कृतप्रथमालिकान् असहिष्णून् गृहीत्वा सर्वेऽपि रत्नाधिकवसती गत्वा मण्डल्यां भुञ्जते । अथवोत्तरार्द्धमन्यथा व्याख्यायते -“असहू” इति यद्यवमरत्नाधिक आचार्य स्वयमसहिष्णुर्न शक्नोति रत्नाधिकाचार्यसन्निधौ गन्तुं न वा तावतीं वेलां प्रतिपालयितुं शक्तः 'अपरिणता वा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org