SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०२ बृहत्कल्प - छेदसूत्रम् - १-१/६ तन्निष्पन्नं प्रायश्चित्तम् ॥ गतं चमढणाद्वारम् । अथ द्रव्यक्षयोद्गमाशुद्धिद्वारद्वयमाह[भा. १५८७] अन्नो चमढण दोसो, दव्वखओ उग्गमो वि य न सुज्झे । खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं ॥ " वृ- ‘अन्यः’ अपरश्चमढनायां दोषः कः ? इत्याह- द्रव्यस्य - अवगाहिम-घृतादेः कारणमन्तरेणापि दिने दिने गृह्यमाणस्य क्षयो भवति । ततश्च यद्यभिनवमवगाहिमादि द्रव्यं साधूनामर्थाय करोति क्रीणाति वा तत उद्गमोऽपि च न शुद्यति, सदोषत्वात् तद् उत्पादितमपि न कल्पत इति भावः । ततः 'क्षीणे' व्यच्छिन्ने दुर्लभद्रव् प्रयोजने उत्पन्नेऽपि नास्ति ग्लानस्य प्रायोग्यम् । ततः परितापमहादुःखादिका ग्लानारोपणा द्रष्टव्या, भद्रक-प्रान्तकृताश्च दोषा भवन्ति ।। तानेवाहदव्वक्खएण पंतो, इत्थं घाइज्ज कीस ते दिन्नं । [भा. १५८८] भद्दी हट्ठपट्टो, करेज अनं पि साहूणं ॥ वृ-इह कस्यापि प्रान्तस्य भार्या श्राद्धिका ततस्तयाऽन्यान्यसाधूनां याचमानानां प्रायोग्यद्रव्यं सर्वमपि प्रदत्तम् । ततस्तस्याः पतिर्भोजनार्थमुपविष्टः सन् ब्रूते - कूरं मे परिवेषय । सा प्राहसाधूनां प्रदत्तः । स प्रतिब्रूयात्-पूपलिकास्तर्हि परिवेषय । सा प्राह-ता अपि प्रदत्ताः । एवं सूपदुग्ध-दधिप्रभृतीन्यपि साधूनां वितीर्णानीति । इत्थं द्रव्यक्षयेण स प्रान्तः कुपितः सन् ‘अरेरेकुलपांसने! किं ते मुण्डास्तवोपपतयो भवन्ति येनैवं मदीयं गृहसर्वस्वं दत्त्वा तान् पोषयसि ?' इत्यभिधाय स्वां स्त्रियं 'घातयेत्' कुट्टयेत्, 'कस्मात् ' किमर्थं त्वया तेभ्यः सर्वमपि दत्तम् ? इति कृत्वा । अत्र पाठान्तरम्-“दव्वक्खएण लुद्धो’'त्ति 'लुब्धः' लोभाभिभूतः, सेषं प्राग्वत् । यस्तु भद्रको गृहपति स श्राद्धिकया सर्वस्मिन्नपि दत्ते तथैव च कथिते ह्वष्टप्रहृष्टो भवति । हृष्टो नाम-नमसि परितोषवान्, प्रहष्टस्तु-प्रहसितवदनः समुद्भूतरोमहर्षो हर्षाश्रूणि विमुञ्चमान इति । ततश्च कुर्याद् 'अन्यदपि’ अवगाहिमादिकं साधूनामर्थाय, करयेदित्यर्थः । एतद्दोषपरिहरणार्थमेकं गीतार्थसङ्घाटकं मुक्त्वा शेषाः स्थापनाकुलानि न निर्विशेयुः । प्राघूर्णके चायाते सति प्राघुण्यं विधेयम्, तच्च स्वभावानुमतैरेव भक्त - पानैः ॥ तथा चात्र दृष्टान्तमाह [ भा. १५८९] जड्डे महिसे चारी, आसे गोणे य जे य जावसिया । एएसिं पडिवक्खे, चत्तारि उ संजया होंति ॥ वृ- 'जड्डुः' हस्ती, महिषाश्चौ प्रतीतौ, 'गोणः' बलीवर्द, एतेषां ये 'यावसिकाः' यवसःतव्यायोग्यमुद्ग-माषादिरूप आहारस्तेन तद्वहनेन चरन्तीति यासिकास्ते अनुकूलां चारीमानयन्ति । एतेषां जड्डादीनां 'प्रतिपक्षे' प्रतिरूपः पक्षः प्रतिपक्षः सध्शपक्ष इत्यर्थः, तत्र चत्वारः प्राधूर्णकसंयता भवन्ति । तद्यथा-जड्डुसमानो महिषसमानोऽश्वसमानो गोसमानश्चेति ॥ अथामीषामेव व्याख्यानमाह भा. (१५९० ] जड्डो जं वा तं वा, सुकुमालं महिसओ महुरमासो । गोणो सुगंधिदव्वं, इच्छइ एमेव साहू वि ।। वृ- 'जड्डु : ' हस्ती, सः 'यद्वा तद्वा' कर्कश कटुकादिकमप्याहारयति । यस्तु महिषः 'सुकुमारं ' वंशकरीलादिकमभिलषति । अश्वः 'मधुरं ' मुद्ग माषादिकमभिकाङ्क्षति । 'गौः ' बलीवर्द सः 'सुगन्धिद्रव्यम्' अर्जुनक-ग्रन्थिपर्णादिकमिच्छति । एवमेव साधवश्चत्वारः चतुर्विधं भक्तमिच्छन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy