________________
उद्देशकः १, मूलं-६, [भा. १५४३]
३९३ कृत्वा ।अथ दूरतरं ततः पादोनप्रहरे पात्रप्रत्युपेक्षणां कृत्वा । अथ दूरतमं तत उद्गतमात्रे सूर्ये । अथातिदवीयान् मार्गो गन्तव्यः गच्छश्च तृषादिभिराक्रान्त उत्सूरेन शक्नोति गन्तुंततोऽनुद्गते सूर्ये प्रचलन्ति । “पडिच्छ"त्ति निशि निर्गता उपाश्रयाद् बहि परस्परं प्रतीक्षन्ते । अन्यथा ये पश्चान्निर्गच्छन्ति ते न जानन्ति केनापि मार्गेण गताः साधवः ?' ततो महता शब्देनाग्रेतनान् साधून व्याहरेयुः, ततश्च ‘अधिकरणम्' अप्काययन्त्रवाहन-वणिग्नामान्तरगमनादि भवति । "तेने नट्टे"त्ति ते पाश्चात्यसाधवोऽग्रेतनानां ‘नष्टाः' स्फिटिताः सन्तः स्तेनकैरुपद्रूयेरन् अतः प्रतीक्षमीयम् । “खग्गूड''त्ति कश्चित् खग्गूडः-निद्रालुः उपलक्षणत्वात् कश्चिद्वा धर्मश लुरिदं ब्रूते-'नकल्पते साधूनांरात्रौ विहर्तुम्' इति तस्य “संगारो"त्तिसङ्केतः क्रियते त्वयाऽमुकत्रागन्तव्यमिति ॥अथास्या एव गाथायाः कानिचित् पदानि विवृणोति[भा.१५४४] पडिलेहंत च्चिय वेंटियाउ काउंकुणंति सज्झायं ।
चरिमा उग्गाहेउं, सोच्चा मज्झण्हि वच्चंति ।। वृ-ते साधवः प्रभाते प्रत्युपेक्षमाणा एव वस्त्राणि विण्टिकाः कुर्वन्ति । ततो विण्टिकाः कृत्वा स्वाध्यायं कुर्वन्ति तावद्यावत् 'चरमा' पादोनपौरुषी।ततःपात्रकाणिप्रत्युपेक्षणापूर्वं उद्ग्राह्य' ग्रन्थिदानादिना सज्जीकृत्य ततोऽर्थं श्रुत्वा 'मध्याह्ने' प्रहरद्वयसमये व्रजन्ति ॥ कथम् ? इत्याह[भा.१५४५] तिहि-करणम्मि पसत्थे, नक्खत्ते अहिवईण अनुकूले ।
घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता ।। वृ-तिथिश्च-नन्दा-भद्रादिका करणंच-बव-बालवादिकं तिथि-करणं तस्मिन् उपलक्षणत्वाद् वार-योग-मुहूर्तादिषुप्रशस्तेषु नक्षत्रेच अधिपतीनाम् आन्रायाणामनुकूले वहमानेसति, किम्? इत्याह-'अक्षान्' गुरूणामुत्कृष्टोपधिरूपान् गृहीत्वा 'वृषभाः' गीतार्थसाधवः शकुनान्परीक्षमाणाः "निंति" निर्गच्छन्ति ।। आह किमर्थं प्रथममाचार्या न निर्गच्छन्ति ? उच्यते[भा.१५४६] वासस्स य आगमनं, अवसउणे पट्ठिया नियत्ता य।
ओभावणा उ एवं, आयरिया मग्गओ तम्हा ॥ वृ-वर्षणं वर्ष-वृष्टिस्तस्यागमनं दृष्ट्वा अपशकुने वा द्दष्टे वृषभाः प्रस्थिताः सन्तो निवृत्ता अपि न लोकापवादमासादयन्ति, सामान्यसाधुत्वात् । यदि पुनराचार्या वृष्टिमपशकुनान् वा विज्ञायनिवर्तन्ते ततएवमपभ्राजना भवति, यथा-यदेवज्योतिषिकाणां विज्ञानंतदप्यमी आचार्याः न बुध्यन्ते अपरं किमवभोत्स्यन्ते ? । तस्मादाचार्या ‘मार्गतः' पृष्ठतो निर्गच्छन्ति न पुनरग्रतः । अथपुरतो गच्छन्ति ततो मासलघु । एतेन “के वच्चंते पुरओ उ भिक्खुणो उदाहु आयरिय" त्ति पदंभावितम्।आह 'अपशकुने दृष्टे सति निवर्तन्ते' इत्युक्तंतत्र के शकुनाः? केवाअपशकुनाः? इति अत्रोच्यते[भा.१५४७] मइल कुचेले अब्भंगियल्लए साण खुज वडभे या ।
एएतु अप्पसत्था, हवंति खित्ताउ नितस्स ।। वृ. 'मलिनः' शरीरेण वस्त्रैर्वा मलीमसः ‘कुचेलः' जीर्णवस्त्रपरिधानः ‘अभ्यङ्गितः' स्नेहाभ्यक्तशरीरः श्वा वामपावर्वाद् दक्षिणपार्श्वगामी 'कुब्जः' वक्रशरीरः ‘वडभः' वामनः । - 'एते' मलिनादयोऽप्रशस्ता भवन्ति क्षेत्रान्निर्गच्छतः॥तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org