________________
३९२
न विधेया ॥ कः पुनः पृच्छायां विधि ? इत्याह[ भा. १५३८]
बृहत्कल्प-छेदसूत्रम् - १-१/६
जत्तो पाए खेत्तं, गया उ पडिलेहगा ततो पाए । सागारियस्स भावं, तनुइंति गुरु इमेहिं तु ॥
वृ- 'यतः प्रगे' यतो दिनादारभ्य क्षेत्रप्रत्युपेक्षका गताः 'ततः प्रग' ततः प्रभृति सागारिकस्य 'भावं' प्रतिबन्धं 'तनूकुर्वन्ति' हानिं प्रापयन्ति 'गुरवः' आचार्या एभिर्वचनैः । तान्येवाह[भा. १५३९] उच्छू वोलिंति वई, तुंबीओ जायपुत्तभंडाओ ।
वसहा जायत्थामा, गामा पव्वायचिक्खल्ला |
[ भा. १५४०] अप्पोदगा य मग्गा, वसुहा वि य पक्कमट्टिया जाया । अनोक्ता पंथा, विहरणकालो सुविहियाणं ॥
वृ- इह पूर्वं शरदादिर्विहारो भवतीत्युक्तम्, अत- शरत्कालमेवाङ्गीकृत्याभिधीयते इक्षवः ‘वोलयन्ति' व्यतिक्रामन्ति 'वृतिं ' स्वपरिक्षेपरूपाम्, तुम्ब्यश्च 'जातपुत्रभाण्डाः' समुत्पन्नतुम्बकाः, तथा वृषभा जातस्थामानः, ग्रामाः प्रम्लानचिक्खल्लाः, अल्पोदकाश्च मार्गा, वसुधाऽपि च पक्वमृत्तिका जाता, अन्यैः- पथिकादिभिरुक्रान्ताः - क्षुन्नाः पन्थानः सम्प्रति वर्त्तन्ते, अतो विहरणकालः सुविहितानाम् । एतद् गाथाद्वयं शय्यातरस्य शृण्वतोगुरवश्चङ्क्रमणं कुर्वन्तः पठन्ति । ततः शय्यातरो ब्रूयात्-भगवन् ! किमिदानीं यूयं गमनोत्सुकाः ? । गुरवः प्राहुः- बाढम्, गन्तुकामा वयम्, प्रेषिताश्वास्माभि क्षेत्रान्तरं प्रत्युपेक्षितुं साधवः । इत्थमन्तराऽन्तरा प्रज्ञाप्यमानानां शय्यातरमानुषाणां व्यवच्छिद्यते स्नेहानुबन्धः ॥ ततः
[भा. १५४१] आवासगकयनियमा, कल्लं गच्छामु तो उ आयरिया । सपरजनं सागरियं, वाहेउं दिंति अनुसट्ठि ।।
वृ- आवश्यकं - प्रतिक्रमणं तदेवावश्यमनुष्ठेत्वाद् नियमः स कृतो यैस्ते कृतावश्यकनियमाः । गाथायां प्राकृतत्वादावश्यकशब्दस्य पूर्वनिपातः । “कल्लं गच्छामु"त्ति "वर्त्तमानासन्ने वर्तमाना" इतिवचनात् ‘कल्ये' प्रभाते गमिष्याम इति मत्वा तत आचार्या 'सपरिजनं' सकुटुम्बं सागारिकं व्याहृत्य ददति 'अनुशिष्टिं' धर्मकथां कुर्वन्तीत्यर्थः ॥ ततः
[भा. १५४२ ] पव्वज्ज सावओ वा, दंसणसड्डो जहन्नओ वसहिं । जोगमिवट्टमाणे, अगं वेलं गमिस्सामो ॥
वृ- स शय्यातरो धर्मकथां श्रुत्वा कदाचित् प्रव्रज्यांप्रतिपद्यते । अथ प्रव्रज्यां प्रतिपत्तुमशक्तस्ततः 'श्रावको भवति' देशविरतिं प्रतिपद्यते । अथ तामप्यङ्गीकर्तुमक्षमस्ततः 'दर्शनश्राद्धः ' अविरतसम्यग्द्दष्टिर्भवति । अथ दर्शनमप्युररीकर्त्तु नोत्सहते ततो जघन्यतोऽवश्यन्तया वसतिं साधूनां यथा ददाति तथा प्रज्ञाप्यते । भूयोऽपि धर्मकथां समाप्याचार्या ब्रुवते - योऽसौ योगोगमनायास्मान् प्रेरयति तस्मिन् वर्त्तमाने सति “अमुगं वेलं'' ति सप्तम्यर्थे द्वितीया अमुकस्यां वेलायां गमिष्यामः । इत्थं विकालवेलायां कथयित्वा प्रत्युषसि व्रजन्ति ॥ कथम् ? इत्याह[भा. १५४३] तदुभय सुत्तं पडिलेहणा य उग्गयमणुग्गए वा वि । पडिच्छाहिगरण तेने, नट्टे खग्गूड संगारो ॥
वृ- 'तदुभयं' सूत्रपौरुषीमर्थपौरुषीं च कृत्वा व्रजन्ति । अथ दूरं क्षेत्रं गन्तव्यं ततः सूत्रपौरुषीं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org