________________
३९१
उद्देशकः १, मूलं-६, [भा. १५३४] प्रथमत एव नापृच्छन्ति ते कथं ज्ञायन्ते ?; ततस्तेषामभिधारयतां साधूनाम् 'अहो ! लोकव्यवहारबहिर्मुखाअमीआचार्या, ततः कोनामामीषामुपकण्ठेउपसम्पत्स्यते?' इति विचिन्त्य स्वगच्छे गणान्तरेवागमनं भवेदितिवाक्याध्याहारः ।सचाचार्यस्तेषांश्रुतवाचनाप्रदानादिजन्याया निर्जराया अनाभागी भवति । प्रव्रज्याभिमुखानां वा "तेनेहि"त्ति स्तेनविषया शङ्का भवेत् । किमुक्तं भवति ?-केचिदगारिणः संसारप्रपञ्चविरक्तचेतसस्तदन्तिके प्रव्रज्यां प्तिपित्सवः सामायाताः सागारिकं पृच्छन्ति-क्व गता आचार्या स प्राह-वयं न जानीमः तत्स्वरूपमिति, ततस्तेषामगारिणां शङ्का समुपजायते, यथा-नूनं किमप्यस्यसागारिकस्य चोरयित्वा गतास्ते, अन्यथा किमर्थमेष परिस्फुटमाचार्याणां गमनवृत्तान्तं न निवेदयति ? इति । ततश्च ते प्रव्रज्यामप्रतिपद्यमाना यत् षन्नं जीवनिकायानां विराधनां कुर्वन्ति यच्च बोटिक-निवादिषु व्रजन्ति अपरान् वा प्रव्रजतो विपरिणामयन्ति तनिष्पन्नमाचार्याणां प्रायश्चित्तम् । यत एवमतः सागारिकमापृच्छय गन्तव्यम् ।। सा च पृच्छा द्विविधा-विधिपृच्छा अविधिपृच्छा च । तत्रिविधिपृच्छामभिधित्सुः प्रायश्चित्तं तावदाह[भा.१५३५] अविहीपुच्छणे लहु,तेसिं मासो उदोस आणाई।
मिच्छत्त पुव्वभणियं, विराधन इमेहि ठाणेहिं॥ वृ- अविधिप्रच्छने 'तेषाम्' आचार्याणां लघुको मासः, दोषाश्चाज्ञादयः, तता मिथ्यात्वं 'पूर्वभणितं प्रागुक्तमेव मन्तव्यम् । विराधना एभिः स्थानैर्भवति ।। तान्येवाह[भा.१५३६] सहसा दटुं उग्गाहिएण सिज्जायरी उ रोविज्जा ।
सागारियस्स संका, कलहे य सएज्झिखिसणया। वृ-अविधिपृच्छा नाम वस्त्र-पात्राद्युपकरणं विहारार्थमुद्ग्राह्य पृच्छन्ति 'वयमिदानीं विहारं कुर्महे' ततः 'सहसा' अकस्माद् उद्राहितेन उपकरणेन प्रस्थितान् द्दष्टवा शय्यातरी रुदियात् । तद् दृष्ट्वा सागारिकस्य शङ्का भवेत्-मयि प्रवसति कदाचिदप्यस्या अक्षिणी अश्रुपातं न कुरुतः, अमीषु तु प्रस्थितेष्वित्थमश्रूणि मुञ्चतः, ततो भवितव्यं कारणेनेति । मिथ्यात्वं गच्छेत्, तध्व्याऽन्यद्रव्यव्यवच्छेदादयश्च दोषाः। तथा “सइज्झिय"त्तिप्रातिवेश्मिकी रुदन्तीं शय्यातरी दृष्ट्वा पश्चात् कलहेसमुत्पन्नेखिंसनांकुर्यात्-किमन्यद्भवदीयंदुश्चरीतमुद्गीर्यतेयेनतदानीमाचार्येषु विहारं कर्तुमुद्यतेषु भवत्यारुदितम्, किं वा स आचार्यस्ते पिता भवति येन रोदिषि ? इति ।। अतानागतमेव पृच्छन्ति 'वयममुकदिवसे गमिष्यामः' तत्राप्यमी दोषाः[भा.१५३७] हरियच्छेअण छप्पईअथिच्चणं किच्चणं च पत्ताणं ।
गमनंच अमुगदिवसे, संखडिकरणं विरूवं वा ।। वृ-तानि शय्यातरमानुषाणि 'अद्य साधवो गमिष्यन्ति' इति कृत्वा क्षेत्रादौ न गच्छन्ति । ततो यानि तत्र महान्ति तानि धर्मं शृणुयुः । चेटरूपाणि स्नुषाश्च पुरोहडादिषु हरितच्छेदनं यद्वा परस्परं षटपदिकानां "थेचणं" उपमर्दनं "किच्चणं" ति कर्त्तनं वा विदध्यु,पोतानि-वस्त्राणि तेषांप्रक्षालनं कुर्वीरन् । यद्वा अमुकदिवसे गमनं करिष्यामः' इत्युक्ते संयतार्थं संङ्ड्याः करणं भवेत्। तत्र यदि गृह्णन्ति तदाऽऽधाकर्मादयो दोषाः, अगृह्णतां तुप्रद्वेषगमनादयः । “विरूवं"ति 'विरूपम्' अनेकप्रकारंकुडयधवलनादिकमपरमप्यधिकरणंकुर्यु।यतएतेदोषाअतोऽविधिपृच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org