________________
३९४
बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१५४८] रत्तपड चरग तावस, रोगिय विगला य आउरा वेज्जा ।
कासायवत्थ उद्धूलिया यजत्तं न साहंति॥ वृ-'रक्तपटाः' सौगताः, 'चरकाः' क(का)णादा धाटीवाहका वा, 'तापसाः' सरजस्काः , 'रोगिणः' कुष्ठादिरोगाक्रान्ताः, विकलाः' पाणि-पादाद्यवयवव्यङ्गिताः, 'आतुराः' विविधदुःखोपद्गुताः, वैद्याः' प्रसिद्धाः, 'काषायवस्त्राः' कष्यावस्त्रपरिधानाः, उद्धूलिताः' भस्मोद्धूलितगात्रा धूलीधूसरा वा । एते क्षेत्रान्निर्गच्छभिईष्टाः सन्तो यात्रा-गमनं तत्प्रवर्तकं कार्यमप्युपचाराद् यात्रा तां न साधयन्ति ।। उक्ता अपशकुनाः । अथ शकुनानाह[भा.१५४९] नंदीतूरं पुनस्स दंसनं संख-पडहसद्दोय।
भिंगार-छत्त-चामर-वाहण-जाणा पसत्थाई॥ वृ-'नन्दीतूर्य' द्वादशविधतूर्यसमुदायो युगपद् वाद्यमानः, 'पूर्णस्य' पूर्णकलशस्य दर्शनम्, शङ्ख-पटहयोःशब्दश्च श्रूयमाणः, भृङ्गार-च्छत्र-चामराणि प्रतीतानि, “वाहन-यानानि' वाहनानिहस्ति-तुरङ्गमादीनि यानानि-शिबिकादीनि, एतानि प्रशस्तानि शुभावहानि ।। [भा.१५५०] समणं संजयं दंतं, सुमनं मोयगा दधिं ।
मीणं घंटे पडागंच, सिद्धमत्थं वियागरे । वृ- 'श्रमणं' लिङ्गमात्रधारिणम्, 'संयतं'षट्कायरक्षणे सम्यग्यतम्, 'दान्तम्' इन्द्रियनोइन्द्रियदमनेन, 'सुमनसः' पुष्पाणि, मोदका दधिच प्रतीतम्, 'मीनं' मत्स्यम्, घण्टां पताकांच दृष्ट्वा श्रुत्वा वा 'सिद्धं' निष्पन्नम् 'अर्थ' प्रयोजनं व्यागृणीयादिति ।।
अथ प्रशस्तेषु शकुनेषु सातेषु गुरवः किं कुर्वन्ति? इत्याह[भा.१५५१] सिजायरेऽनुसासइ, आयरिओ सेसगा चिलिमिलिं तु।
काउंगिण्हंतुवहिं, सारवियपडिस्सया पुट्विं ॥ वृ-शय्यातराननुशास्तेआचार्य, यथा-व्रजामो वयम्, भवद्भिर्धर्मकर्मण्यप्रमत्तैभवितव्यमिति। शेषास्तुसाधवः चिलिमिलीं कृत्वा' बद्धवा तदन्तरिताः सन्त उपधिं 'गृह्णन्ति' संयन्त्रयन्तीत्यर्थः, कथम्भूताः? सारवितः-सम्मार्जितः प्रतिश्रयो यैस्ते सारवितप्रतिश्रयाः 'पूर्व प्रथमम् ॥
अथ कः कियदुपकरणं गृह्णाति ? इत्युच्यते[भा.१५५२] बालाईया उवहिं, जंवोदु वरंति तत्तियं गिण्हे ।
जहन्नेण अहाजायं, सेसंतरुणा विरिंचंति ।। वृ-बाल-वृद्ध-राजप्रव्रजितादयो यावन्मात्रमुपधिं वोढुं शक्नुवन्ति तावन्मात्रमेव गृह्णन्ति । यदि च सर्वथैव न शक्नुवन्ति तदा 'जघन्येन’ सर्वस्तोकतया यथाजातमुपधिं गृह्णन्ति । 'शेषं' बालादिसत्कमुपकरणंतरुणाः साधवः 'विरिञ्चन्ति' विभज्य गृह्णन्ति॥तत्रच यदि आभिग्रहिकाः' 'बाल-वृद्धादीनामुपधिरस्माभिर्वोढव्यः' इत्येवं प्रतिपन्नाभिग्रहाः सन्ति ततस्ते परस्परं विभज्य गृह्णन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधि? इत्याह[भा.१५५३] आयरिओवहि बालाइयाण गिण्हंति संघयणजुत्ता।
दो सोत्ति उन्नि संथारए य गहणेक्कपासेणं ।। वृ-आचार्योपधिं बालादीनां चोपधिं गृह्णन्ति 'संहननयुक्ताः' अनाभिग्रहिका अपि सन्तो ये
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org