SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८८ [ भा. १५२२ ] गंतूण गुरुसगासं, आलोएत्ता कहिंति खेत्तगुणे । न य सेसकहण मा होज्जऽसंखडं रत्ति साहंति ॥ बृहत्कल्प-छेदसूत्रम् - १-१/६ वृ- गत्वा गुरूणां सकाशमालोच्य गमनागमनातिचारं कथयन्ति क्षेत्रगुणान् । ते चाचार्यान् विमुच्य 'न च' नैव शेषाणां साधूनां कथयन्ति । कुतः ? इत्याह- मा भूद् असङ्घडं स्वस्वक्षेत्र - पक्षपातसमुत्थम् । यद्यन्येषां कथयन्ति तदा मासलघु । तस्माद् रात्रौ "साहंति "त्ति कथयन्ति ।। कथम् ? इति चेद् उच्यते- आचार्या आवश्यकं समाप्य मिलितेषु सर्वेष्वपि साधुषु पृच्छन्तिआर्या ! आलोचयत कीद्दशानि क्षेत्राणि ? । तत उत्थाय गुरूनभिवन्द्य बद्धाञ्जलयो यथाज्येष्ठमालोचयन्ति [भा. १५२३] पढमाए नत्थि पढमा, तत्थ य घय खीर- कूर - दधिमाई । बिइयाए बीय तइयाए दो वि तेसिं च धुवं लंभो ॥ वृ- 'प्रथमायां' पूर्वस्यां दिशि यद् अस्माभि क्षेत्रं प्रत्युपेक्षितं त्र 'प्रथमा' सूत्रपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलासम्भवात् परं तत्र क्षेत्रे घृत-क्षीर-कूर-दध्यादीन प्रकामं प्राप्यन्ते । द्वितीयाः क्षेत्रप्रत्युपेक्षका ब्रुवते द्वितीयस्यां दिशि 'द्वितीया' अर्थपौरुषी नास्ति, तस्यामेव भिक्षाटनवेलाभावात्, घृत- दुग्ध-दध्यादीनि तु तथैव लभ्यन्ते । तृतीया ब्रुवते - तृतीयस्यां दिशि 'द्वे अपि' सूत्रार्थपौरुष्यौ विद्येते, मध्याह्ने भिक्षालाभसद्भावात् तेषां च घृत दुग्धादीनां 'ध्रुवः' निश्चितो लाभ इति ॥ तथा [ भा. १५२४] ओभासिय धुव लंभो, पाउग्गाणं चउत्थिए नियमा । इहरा वि जहिच्छाए, तिकाल जोगं च सव्वेसिं ॥ वृ-चतुर्था पुनरित्थमाहुः - अस्मत्प्रत्युपेक्षितायां चतुर्थ्यां दिशि प्रायोग्याणामवभाविषानां 'ध्रुवः' अवश्यम्भावी लाभः । 'इतरथाऽपि ' अवभाषणमन्तरेणापि यच्छया' प्रकामं 'त्रिकालं' पूर्वाह्न - मध्याह्ना-ऽपराह्णलक्षणे कालत्रये 'सर्वेषामपि' बाल-वृद्धादीनां 'योग्यं' सामान्यं भक्त-पानं प्राप्यते ।। इत्थं सर्वैरपि स्वस्वक्षेत्रस्वरूपे निवेदिते सत्याचार्याश्चिन्यन्ति-कस्यां दिशि गन्तुं युज्यते ? । ततः स्वयमेवाद्यानां तिसृणां दिशां सूत्रार्थहान्यादिदोषजालं परिभाव्य चतुर्थी दिशमनन्तरोक्तदोषरहितत्वेन गन्तव्यतया विनिश्चित्य किं कुर्वन्ति ? इत्याह [ भा. १५२५ ] इच्छागहणं गुरुणो, कत्थवयामो त्ति तत्थ ओअरिया । खुहिया भणति पढमं तं चिय अनुओगतत्तिल्ला ।। वृ- 'गुरो:' आचार्यस्य 'इच्छाग्रहणं' शिष्याणामभिप्रायपरीक्षणं भवति-आर्या ! कथयत 'कुत्र' कस्यां दिशि व्रजामः ? इति । ततो ये 'औदरिकाः' खोदरभरणैकचित्तास्ते 'क्षुभिताः' सम्भ्रान्ताः सन्तो भान्ति-प्रथमां दिशं व्रजामो यत्र प्रथमपौरुष्यामेव प्रकामं भोजनमवाप्यते । तामेव दिशं "अनुओगतत्तिल्ल" त्ति अनुयोगग्रहणैकनिष्ठाः शिष्या गन्तुमिच्छन्ति, येन द्वितीयपरुष्यां निव्यार्घातमर्थग्रहणं भवति ।। [ भा. १५२६] बिइयं सुत्तग्गाही, उभयग्गाही य तइयगं खेत्तं । आयरिओ उ चउत्थं, सो उ पमाणं हवइ तत्थ ॥ व- ये तु सूत्रग्राहिणस्ते भणन्ति द्वितीयां दिशं गच्छामः यत्र न सूत्रपौरुषीव्याघात इति । ये. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy