________________
उद्देशक : १, मूलं -६, [भा. १५२६]
तूभयग्राहिणस्ते 'तृतीयं' तृतीयदिग्वर्त्ति क्षेत्रमिच्छन्ति, तत्र हि द्वयोरप्याद्यपौरुष्यर्निव्यार्घातं सूत्रार्थग्रहणे भवतः । आचार्यास्तु चतुर्थं क्षेत्र गन्तुमिच्छन्ति, यतस्तत्र त्रिष्वपि कालेषु बालवृद्धाद्यर्थं सामान्यक्तं प्राघूरणकाद्यर्थं पुनरवभाषितं दुग्धादिकं प्रायोग्यं प्राप्यते, न च कोऽपि सूत्रार्थयोव्यार्घात इति । 'स एव च' आचार्य 'तत्र' तेषां मध्ये प्रमाणं भवति ।। आह किं पुनः कारणं येनाचार्याश्चतुर्थक्षेत्रमिच्छन्ति ? इति अत आह
[भा. १५२७] मोहुब्भवो उ बलिए, दुब्बलदेहो न साहए अत्यं । तो मझबला साहू, दुट्ठस्से होइ दिट्ठतो ॥
वृ- प्रथम-द्वितीय-तृतीयेषु क्षेत्रेषु प्रचुरस्निग्ध-मधुराहारप्राप्तेः शरीरेण बलवान् भवति, बलवतश्वावश्यम्भावी मोहोद्भवः । एवं तर्हि यत्र भिक्षा न लभ्यते तत्रगत्वा बुभुक्षाक्षामकुक्षयस्तिष्ठन्तु नैवम्, दुर्बलदेहः साधुर्न साधयति 'अर्थ' ज्ञान-दर्शन- चारित्ररूपम् । यत एवं ततः ‘मध्यबलाः’ नातिबवन्तो न वाऽतिदुर्बलाः साधव इप्यन्ते । दुष्टाश्वश्च भवत्यत्र दृष्टान्तः'दुष्टाश्वः' गर्दभः, स यथा प्रचुरभक्षणादुद्दर्पितः सन् उत्प्लुत्य कुमभकारारोपितानि भाण्डानि भिनत्ति, भूयस्तेनैव कुम्भकारेण निरुद्धाहारः सन् भाण्डानि वोढुं न शक्नोति; स एव च गर्दभी विमध्यमाहारक्रियया प्रतिचर्यमाणः सम्यग् भाण्डानि वहति । एवं साधवोऽपि यदि स्निग्धः मधुराभ्यवहारतः शरीरोपचयभाजो भवन्ति, तत उत्पन्नदुर्निवारमोहोद्रेकतया संयमयोगान् बलादुपमृद्नु (नी) युः, आहाराभावे त्वतिक्षामवपुषः सन्तः संयमयोगान् वोढुं न शक्नुयुः; मध्यमबलोपेतास्तु व्यपगतौत्सुक्या अनुद्विग्नपरिणामाः सुखेनैव संयमयोगान् वहन्तीति मत्वा क्षेत्रत्रयं परिहृत्याचार्याश्चतुर्थं क्षेत्रं व्रजन्ति । किञ्च
[भा. १५२८]
पनपन्नगस्स हानी, आरेणं जेन तेन वा धरइ । जइ तरुणा नीरोगा, वच्चंति चउत्थगं ताहे ॥
३८९
वृ- पञ्चपञ्चाशद्वार्षिकस्य विशिष्टाहारमन्तरेण 'हानि' बलपरिहाणिर्भवति । "आरेणं” ति पञ्चपञ्चाशतो वर्षेभ्य आराद् वर्त्तमानो येन वा तेन वा आहारेण 'ध्रियते' निर्वहति । ततो यदि तेसाधवस्तरुणास्तथा नीरोगास्ततश्चतुर्थमेव क्षेत्रं व्रजन्ति न शेषाणि ॥
[भा. १५२९] जइ पुन जुन्ना थेरा, रोगविमुक्का व असहुणो तरुणा ।। ते अनुकूलं खेत्तं, पेसिंति न याबि खग्गूडे ॥
वृ-यदि पुनः ‘जीर्णाः’ पञ्चपञ्चाशद्वार्षिकादय इति भावः, के ते ? 'स्थविरा:' वृद्धाः, तथा तरुणा अपि ये रोगेण ज्वरादिना मुक्तमात्रा अत एव च 'असहिष्णवः' न यदपि तदप्याहारजातं परिणमयितुं समर्था 'तान्' एवंविधान् स्थविर तरुणान् 'अनुकूलं' प्रायोग्यलाभसम्भवेन हितं ‘क्षेत्रं' प्रथमक्षेत्रादिकं गीतार्थमेकं सहायं समर्प्य प्रेषयन्ति सूरयः, 'न चापि' नैव स्वग्गूडान् । इहालसाः स्निग्धः मधुराद्याहारलम्पटाः खग्गूडा उच्यन्ते ।। आह कियता पुनः कालेन ते वृद्धादयः पुष्टिं गृह्णन्ति ? उच्यते-पञ्चभिर्दिवसैः । तथा च वैद्यकशास्त्रार्थसूचिकामेतदर्थविषयामेव गाथामाह[ भा. १५३०] एग पनगऽद्धमासं, सट्ठी सुण-मनुय-गोण- हत्थीणं । राइदिएहि उ बलं, पनगं तो एक्क दो तिन्नि ।
वृ- क्षीणशरीरस्य शुनः पोष्यमाणस्यैकेन रात्रिन्दिवेन बलमुपजायते । एवं मनुष्यस्य
Jain Education International
For Private & Personal Use. Only
www.jainelibrary.org