________________
उद्देशकः १, मूलं-६, [भा. १५१६]
३८७ प्रद्विष्टाः पर्यटतां या संयमादिविराधना या च सूत्रार्थयोः परिहाणिस्तनिष्पन्नमपि प्रायश्चित्तम् । तस्मान्न वक्तव्यं 'नेष्यामः' इति ।। किं पुनस्तर्हि वक्तव्यम्? उच्यते[भा.१५१७] जह अम्हे तह अन्ने, गुरु-जेट्ठमहाजनस्स अम्हे मो।
पुव्वभणिया उदोसा, परिहरिया कुड्डमाईया।। वृ-यथा वयमत्रागतास्तथाअन्येऽपिसाधवस्तिसृषुदिक्षुगताः सन्तिततोनजानीमः कीशं क्षेत्रं तैः प्रत्युपेक्षितमस्ति ? । अस्माकं तावदिदं क्षेत्रमभिरुचितम्, परं गुरवश्व-आचार्या ज्येष्ठमहाजनश्च-ज्येष्ठा धुसमुदायो गुरु-ज्येष्ठमहाजनं तस्य वयम् ‘मो' इति पादपूरणे परतन्त्रावर्तामहे इतिवाक्यशेषः । ततस्तत्रगतानां गुरूणां ज्येष्ठार्याणां वा यद् विचारे समेष्यति तद् विधास्यामः । एवंब्रुवाणैः पूर्वभणिताः' कुड्यकरणादयो दोषाः परिहृताः॥ इत्थमुक्त्वा सागारिकमापृच्छय ते किं कुर्वन्ति? इत्याह[भा.१५१८] जइपंच तिनि चत्तारिछसु सत्तसु य पंच अच्छंति।
चोयगपुच्छा सज्झायकरण वच्चंत-अच्छंते॥ वृ- यदि ते पञ्च जनास्ततस्त्रयस्तत्रैवासते द्वौ गुरुसकासं गच्छतः । अथ षड् जनास्ततश्चत्वारस्तिष्ठन्ति द्वौ गुरूणामभ्यर्णे व्रजतः । अथ सप्त जनाः ततः पञ्च तत्रैवासते द्वौ गुरूणामुपकण्ठे गच्छतः । यदिच ऋजुः पन्थाः सव्याघातस्ततोऽपरंपन्थानं प्रत्युपेक्षन्ते। नोदकः पृच्छति-ये ते गुरुसकाशं व्रजन्ति येचते उपाश्रये आसते ते उभयेऽपि किं स्वाध्यायं कुर्वते वा नवा? || उच्यते[भा.१५१९] वच्चंतकरण अचंतअकरणे लहुओ मासो गुरुओ उ ।
जावइकालं गुरुणो, न इंति सव्वं अकरणाए। वृ-येताव् व्रजन्ति ते यदि सूत्रपौरुषीं कुर्वन्ति ततो मासलघु, अर्थपौरुषीं कुर्वन्तिमासगुरु । ये तूपाश्रये तिष्ठन्ति तेषां सूत्रपौरुष्या अकरणे लघुको मासः, अर्थपौरुष्या अकरणे गरुको मासः। यावत्कालं गुरूणां समीपे 'नायान्ति' न प्राप्नुवन्ति तावत् “सव्वं अकरणाए"त्ति सर्व मपि-सूत्रमर्थं च न कुर्वन्ति ॥ इदमेव सविशेषमाह[भा.१५२०] जइ विअनंतर खेत्तं, गयाओ तह वि अगुनंतगा एंति।
निययाई मा गच्छे, इतरत्थ य सिज्जवाघाओ॥ वृ- यद्यपि 'अनन्तरम्' अव्यवहितमेव क्षेत्रं गतास्तथापि 'अगुणयन्तः' सूत्रार्थावकुर्वन्त आयान्ति । कुतः ? इत्याह-नित्यवासादयो दोषा गच्छस्यमा भूवन, 'इतरत्रच' प्रत्युपेक्षितेक्षतेर चिरकालं विलम्ब्यागच्छतां शय्यायाः-उपाश्रयस्य व्याघातो मा भूत् ।।
यत एवमतोऽगुणयन्तः समागम्य ते इदं कुर्वन्ति[भा.१५२१] तेपत्त गुरुसगासं, आलोएंती जहक्कम सव्वे ।
चिंता वीमंसा या, आयरियाणं समुप्पन्ना ॥ वृ-'ते' क्षेत्रप्रत्युपेक्षकाः प्राप्ताः सन्तोगुरुसकाशमालोचयन्ति यथाक्रमं सर्वेऽपि क्षेत्रस्वरूपम्। ततस्तेषामालोचनां श्रुत्वा चिन्ता' 'कस्यां दिशिव्रजामः?' इत्येवंलक्षणा मीमांसा च शिष्याभिप्रायविचारणा आचार्याणां समुत्पन्ना ।। अथैनामेव गाथां भावयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org