________________
३८६
बृहत्कल्प-छेदसूत्रम् -१-१/६ षड्वीथीरूपास्तानपिपूरयन्ति । [भा.१५१३] जंपि न वच्चंति दिसिं, तत्थ वि गच्छेल्लगा सिं पेहंति ।
पग्गहियएसणाए, विगई-लेवाडवजाइं॥ वृ-यामपिदिशंयथालन्दिकान व्रजन्ति तत्रापि तस्यामपिदिशिगच्छवासिनःक्षेत्रप्रत्युपेक्षकाः 'तेषां' यथालन्दिकानांयोग्यं स्वप्रत्युपेक्षितक्षेत्रस्य सक्रोशयोजनाबहि क्षेत्रप्रत्युपेक्षन्ते कथम्? इत्याह-प्रगृहीतया-साभिग्रहया तृतीयपौरुष्यामुपरितनैषणापञ्चकस्यान्यतरयषणया विकृतिलेपकृतवर्जे भक्त-पाने गृह्णन्ति, घृतादिका विकृतीस्तक-तीमनादिकंद्राक्षापानादिकंच लेपकृतं वर्जयन्तीत्यर्थः॥ [भा.१५१४] जइ तिनि सव्वगमणं, एहामु त्ति लहुओ य आणाई।
परिकम्म कुड्डुकरणं, नीहरणं कठ्ठमाईणं॥ वृ-यदि ते गच्छवासिनस्त्रयोजनास्ततः सर्वेषामपि गुरुसकाशे गमनम् । तेच गच्छन्तो यदि सागारिकेण पृच्छयन्ते 'किं यूयमागमिष्यथ न वा?' ततो यदि 'एष्यामः' आगमिष्याम इति निर्वचनमर्पयन्ति ततो लघुको मासः आज्ञादयश्च दोषाः । शय्यातरश्चिन्तयति-'यदेते एष्याम इत्युक्त्वाप्रतिगतास्तद्नूनमागमिष्यन्ति इतिपरिभाव्य परिकर्म' उपलेपनादिकंवसतेः कुर्यात्, कुड्यस्यवाजीर्णस्योपलक्षणत्वात्कपाटस्यवा करणं-संस्थापनंविदध्यात्, काष्ठानाम् आदिग्रहणात् तृणानांधान्यस्यवा'नीर्हरणं' निष्काशनं कुर्यात्।।यद्वातेषामाचार्याणामपरंकिमपि क्षेत्रमभिरुचितं ततस्तत्रः गताः, तत्र च क्षेत्रेऽपरे साधवः सामायाताः ततः किम् ? इत्याह[भा.१५१५] अद्धाणनिग्गयाई, असिवाइ गिलाणओ अजो जत्थ ।
नेहामो ति य लहुओ, तत्थ विआणाइणो दोसा॥ कृअध्वा-विप्रकृष्टोमार्गस्ततोनिर्गताः-निष्कान्ताअशिवादिभिर्वाकारणैःप्रेरिताः परिश्रान्तास्ते साधवस्तत्रायाताः। तत्र चान्या वसति स्ति, सैव प्राचीनसाधुप्रत्युपेक्षिता वसतिस्तैर्याचिता। सागारिको ब्रूते-मयेयमन्येषां साधूनां दत्ताऽस्ति, तेऽप्येष्याम इति भणित्वा गताः सन्ति, अतो नाहं दातुमुत्सहे । एवं ते वसतिमलभमानाः श्वापद-स्तेन-कण्टकैः शीतेन वा प्रारभ्यमाणाः प्रतिगमनादीनि कुर्यु, ग्लानो वा यस्तेषांसह विहारं कार्यमाणो यत्र यत् परितापनादिकंप्राप्नोति तनिष्पनं प्रायश्चित्तम् । यतश्चैवमतः 'एष्यामः' इति न वक्तव्यम् । 'न एष्यामः इत्यपि वदतां मासलघु, तत्राप्याज्ञादयो दोषाः ।।अपरे चेमे[भा.१५१६] वक्कइअविक्कएण व, फेडन धन्नाइछुभणभावासे ।
नीणिते अहिकरणं, विराधना हाणि हिंडते॥ वृ-'नागमिष्यन्तिसाधवः' इति कृत्वा 'वक्रयिता' वक्रयेण-भाटकेन दत्ता सा वसति, विक्रयेण वा दत्ता विक्रीतेत्यर्थः; स्फेटनं वा वसतेः कृतम्, धान्यस्य आदिशब्दाद् भाण्डस्यान्यस्य वा उपकरणजातस्य क्षेपणं तस्यां कृतम्, बटुक-चारणादयो वा तत्र शय्यातरेणावासिताः, तेषां चाचार्याणां तदेव क्षेत्रमभिरुचितं ततस्तत्रैव समागताः । स प्राह-युष्माकं साधुभिरिति कथितं 'वयं नेष्यामः' ततोमयेयमन्येषां दत्ताधान्यादीनांवा भृता।ततो यथाभद्रकोऽसौ सागारिकस्तान् बटुकादीन् निष्काशयति, ततस्तेषु निष्काश्यमानेषु अधिकरणं' पृथिव्याधुपमर्दशनम्।यच्चते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org