SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं -६, [भा. १४९९ ] ३८३ भाजनोपढौकना-ऽवगाहिम- सूप - नानाविधव्यञ्जनादीन्यपि दीयन्ते; एवं भवताऽपि वसतिं प्रयच्छता सर्वमपि प्रायोग्यं दत्तमेव भवति, परं तथापि वयं भवन्तं भूयोऽपि तृतीयव्रतभावनामनुवर्त्तयन्तोऽनुज्ञापयामः । एवमुक्ते स सर्वमपि प्रायोग्यमनुजानीयात् ततो यत्र यद् उच्चारादिव्युत्सर्जनमनुज्ञातं तत् तत्र विधेयम् ।। यत आह [भा. १५०० ] उच्चारे पासवणे, लाउअनिल्लेवणे य अच्छणेए । करणं तु अणुन्नाए, अणनुनाए भवे लहुओ ॥ वृ-उच्चारस्य प्रश्रवणस्य 'अलाबुनिर्लेपनस्य' पात्रप्रक्षालनस्य “अच्छणए” त्ति स्वाध्यायाद्यर्थमवस्थानस्य गाथायां षष्ठ्यर्थे सप्तमी 'करणं' समाचरणं शय्यातरेणानुज्ञाते प्रदेशे कर्त्तव्यम् । अथाननुज्ञाते अवकाशे उच्चारादिकं करोति तदा लघुको मास इति ॥ गतं भोजनद्वारम् । अथ कियच्चिरं कालमिति द्वारम् - यदि शय्यातरः प्रश्नयति 'कियन्तं कालं यूयं स्थास्यथ ? ' ततो वक्तव्यम् - [भा. १५०१] जाव गुरूण य तुम्भ य, केवइया तत्थ सागरेनुवमा । केवइ कालेनेहिह, सागार ठवंति अन्ने वि ॥ वृ- यावद् गुरूणां युष्माकं च प्रतिभाति तावदवस्थास्यामः, परं निव्यार्घाते मासमेकं व्याघाते तु हीनमधिकं वा वयमेकत्र तिष्ठामः । अथ 'मासमेव स्थास्यामः' इति निर्द्धारितं भणति ततो मासलघु । अथासौ प्रश्नयेत् 'कियन्तो यूयं तिष्ठथ ? ' ततो वक्तव्यम् - "सागरेनुवम' "त्ति सागरः समुद्रस्तेनोपमा यथा समुद्रः कदाचित प्रसरति कदाचिच्चापसरति, एवमाचार्या अपि कदाचिद् दीक्षामुपसम्पदं वा प्रतिपद्यमानैः साधुभि परिवारतः प्रसर्पन्ति कदाचित् तेष्वेवान्यत्र गतेष्वपसर्पन्ति, अत इयन्त इति सङ्ख्यानं कर्तुं न शक्यते । यस्तु 'एतावन्तो वयम्' इति निश्चितं ब्रूते तस्य मासलघु । अथासौ पृच्छति कियता कालेन 'एष्यथ' आगमिष्यथ ? ततः 'साकार' सविकल्पं वचनं 'स्थापयन्ति' ब्रुवते इत्यर्थः । यथा - अन्येऽपि क्षेत्रप्रत्युपेक्षका अपरासु दिक्षु गताः सन्ति ततस्तैर्विवेदिते यदा गुरूणां विचारे समेष्यति तदा व्याघातभावे इयत्सु दिवसेषु गतेषु व्याघाते तु हीने अधिके वा काले वयमेष्याम इति । यः पुनः 'इयता कालेनागमिष्यामः' इति ब्रवीति तस्य मासलघु ॥ [ भा. १५०२ ] पुव्वद्दिद्वेविच्छइ, अहव भणिज्जा हवंतु एवइआ । तत्थ न कप्पइ वासो, असई खेत्तस्सऽणुन्नाओ ॥ वृ- अथासौ 'पूर्वदृष्टान्' यैः प्राग् मासकल्पो वर्षावासो वा कृत आसीत् तानेवेच्छति नान्यान्, भणतिच-ये साधवो मया दृष्टपूर्वास्तेषामहं शीलसमाचारं सर्वमपि जानामि अतस्त एवेह समानेतव्या न शेषाः अथवा भणेत्ये वा ते वा साधवो भवन्तु परमेतावन्त एवात्र तिष्ठन्तु तत्र किं कर्तव्यम् ? इत्याह-‘तत्र’ एवं शय्यातरेण निर्द्धारिते सति 'न कल्पते वासः' न युज्यते तस्यां वसताववस्थातुमिति भावः । अथ नास्त्यपरं मासकल्पप्रायोग्यं क्षेत्रं तत इतरस्या वसतेरलाभे तस्यामेव वसतौ वासोऽनुज्ञातः ॥ तत्र च वसतां यदि प्राधूर्णकः समागच्छति ततः को विधि ? इत्याह [ भा. १५०३ ] सक्कारो सम्माणो, भिक्खग्गहणं च होइ पाहुणए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy