________________
३८२
बृहत्कल्प-छेदसूत्रम् -१-१/६ पृष्ठप्रदेशे च वसत सत्यां साधुभिरितस्तत आगच्छद्भिर्भरो भवति । 'पोट्टे' उदरप्रदेशे वसतौ गृह्यमाणायां 'ध्रातः' नित्यतृप्तः 'वृषभः' वृषभपरिकल्पनागृहीतवसतिनिवासी साधुजनोभवतीति। एवंपरीक्ष्याऽप्रशस्तस्थानव्युदासेन प्रशस्तेषुस्थानेषु स्त्री-पशु-पण्डकवर्जितावसतिरन्वेषणीया।। तदन्वेषणे चायं विधिः[भा.१४९६] देउलियअणुनवणा, अणुनविए तम्मि जंच पाउग्गं ।
भोयण काले किच्चिर, सागरसरिसा उ आयरिया ॥ वृ-देवकुलिका-यक्षादीनामायतनं तत्पार्श्ववर्तिनो वा मठाः । आह किमर्थं देवकुलिकाया निबन्धः? उच्यते-साप्रायेण ग्रामादीनांबहिर्भवति, साधुभिश्चोत्सर्गतोबहिस्थातव्यम्, देवकुलिका चविविक्तावकाशा भवति, अतः प्रथमतस्तस्या अनुज्ञापना कर्तव्या।अथ नास्ति देवकुलिका बहिर्वासप्रत्यपायंततोग्रामादेरन्तःप्रतिश्रयोऽन्विष्यते।यस्तत्रप्रभुः प्रभुसन्दिष्टो वासः प्रायोग्य' वक्ष्यमाणमनुज्ञाप्यते । अनुज्ञापिते सतितस्मिन्यच्च तेन प्रायोग्यमनुज्ञातं तस्य परिभोगः कार्यः। अथासौ नानुजानीते प्रायोग्य ततो भोजनद्दष्टान्तः कर्तव्यः। तथा कियच्चिरं कालं भवन्तः स्थास्यन्ति ? इति पृष्टे अभिधातव्यम्-यावद् भवतां गुरूणां च प्रतिभासते । कियन्तो भवन्ति इहावस्थास्यन्ते? इति पृष्टे वक्तव्यम्-सागरः-समुद्रस्तत्सद्दशा आचार्या भवन्तीति सङ्ग्रहगाथासमासार्थ ।। अथैनामेव व्याचिख्यासुः “अणुनविए तम्मि" इति पदं विवृणोति[भा.१४९७] जंजंतु अणुन्नायं, परिभोगं तस्स तस्स काहिंति।
अविदिन्ने परिभोगं, जइ काहिइ तत्थिमा सोही। वृ-'यद्यत्' तृण-डगलादिकंशय्यातरेणानुज्ञातंतस्यतस्यपरिभोगमभिरुचितेक्षेत्रेसमायाताः सन्तः करिष्यन्ति तत्र ‘इयं' वक्ष्यमाणा शोधि ।। तामेवाह[भा.१४९८] इक्कड-कढिमे मासो, चाउम्मासो अपीढ-फलएसु ।
कट्ठ-कलिंचे पनगं, छारे तह मल्लगाईसु॥ वृ. इक्कडमये कठिनमये च संस्तारकेऽदत्ते गृह्यमाणे लघुमासः । चत्वारो मासा लघवः पीठफलकेषु । तथा काष्ठा-कलिञ्चियोः क्षारे मल्लक-तृण-डगलादिषु च पञ्चकम् । अतः प्रायोग्यमनुज्ञापनीयम् ।। अथास ब्रूयात् 'किं तत् प्रायोग्यम् ?' ततो वक्तव्यम्[भा.१४९९] दव्वे तण-डगलाई, अच्छण-भाणाइधोवणा खित्ते ।
काले उच्चाराई, भावि गिलाणाइ कूरुवमा॥ वृ-प्रायोग्यं चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र 'द्रव्ये' द्रव्यतस्तृण-डगलानि, आदिशब्दात् क्षार-मल्लकादीनि च । क्षेत्रतः “अच्छणं"ति स्वाध्यायादिहेतोः प्राङ्गणादिप्रदेशेऽवस्थानम्, तथा भाजनानाम् आदिग्रहणादाचार्यादिसत्कमलिनवस्त्राणां धावनं-प्रक्षालनं च प्रतिश्रयाबहिर्विधीयते।कालतो रात्रौ दिवावा अवेलायामुच्चारस्य प्रश्रवणस्यवाव्युत्सर्जनम्। भावतो ग्लानस्यापरस्य वा प्रधूर्णकादेर्निवात-प्रवाताधवकाशस्थापनेन समाधिसम्पादनम् इत्युक्ते यद्यनुजानाति ततः सुन्दरम् । अथ ब्रूयात-'मया युष्मभ्यं वसतिरेव दत्ता, अहमन्यद् युष्मदीयं प्रायोग्यं न जानामि' ततो यः प्राग भोजनदृष्टान्त उद्दिष्टः स उपदर्श्यते-“कूरुवमे"ति कूरः-भक्तं तस्योपमा। यथा केनचित् कस्यापिपार्वे कूरःप्रार्थितः, तेन च दत्तः, ततस्तस्य स्नाना-ऽऽसन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org