SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३८१ उद्देशकः १, मूलं-६, [भा. १४८९] गृहमुपागतेषु येषां तान्यप्रीतिकानि, एतानि कुलानि गीतार्था पर्यटन्तः सम्यग्जानन्ति ॥ उपाश्रयाँश्च जानन्ति । कथम्? इत्याह[भा.१४९०] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ।। वृ-इह मनाः पञ्चधा-तापसाः शाक्याः परिव्राजका आजीवका निर्ग्रन्थाश्च । तेषां पञ्चानां निर्ग्रन्थामेव वा 'कारणात' कारणमुद्दिस्येत्यर्थः, कारणमेव व्यनक्ति-वसति-अवस्थानंतद्धेतोःतन्निमित्तम्, पैहिभिः कृता उपाश्रयास्तेषां समीपे भिक्षामटद्भिः परिपृच्छय' उपाश्रयमूलोत्पत्तिं पर्यनुयुज्य 'सदोषाः' सावद्यदोषदुष्टास्ते उपाश्रयाः प्रयलेन परिहर्तव्याः ।। तथा[भा.१४९१] जेहि कया उ उवस्सय, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुंजे सुहं होइ (होति)। वृ-यैः कृता उपाश्रयाः ‘श्रमणानां' निर्ग्रन्थवर्जानां शाक्यादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय 'निर्दोषाः' निरवद्यास्ते उपाश्रयाः परिभोक्तुं “जे" इति निपातः पादपूरणे 'सुखं भवन्ति' सुखेनैव संयमबाधामन्तरेण ते परिभुज्यन्त इत्यर्थः ।।। [भा.१४९८] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिया सदोसा, परिहरियव्वा पयत्तेणं ॥ वृ-यैः कृता 'प्राभृतिका' उपाश्रयेषुउपलेपन-धवलनादिका श्रमणानां पञ्चानामपिसाधूनामेव वा कारणाद् वसतिहेतोः तान् परिपृच्छय ‘सदोषाः' उत्तरगुणैरशुद्धत्वात् सावधास्ते उपाश्रयाः प्रयत्नेन परिहर्तव्याः॥ [भा.१४९३] जेहि कया पाहुडिया, समणाणं कारणा वसहिहेउं । परिपुच्छिय निद्दोसा, परिभोत्तुंजे सुहं होइ (होति)॥ वृ-यैः कृता प्राभृतिका 'श्रमणानां' साधुवर्जितानां तापसादीनां कारणाद् वसतिहेतोस्तान् परिपृच्छय निर्दोषा इतिमत्वा परिभोक्तुं “जे" इति प्राग्वत् ‘सुखं भवन्ति' सुखेनैव परिभुज्यन्त इत्यर्थः ।। अथ कीशे स्थाने वसतिरन्वेषणीया? उच्यते-यावन्मानं क्षेत्रं वसिमाक्रान्तं भवति तावन्मात्रं पूर्वाभिमुखवामपाोपविष्टवृषभाकारंबुध्धा परिकल्प्य प्रशस्तेषुस्थानेषुवसतिर्गृह्यते। अथ कुत्रावयवस्थाने गृह्यमाणा वसति किंफला भवति? इत्युच्यते[भा.१४९४] सिंगक्खोडे कलहो, ठाणं पुण नत्थि होइ चलणेसु । अहिठाणे पुट्टरोगो, पुच्छम्मि य फेडणंजाणे ॥ वृ-'शृङ्गखोडे' शृङ्गप्रदेशे यदि वसतिं करोति तदा निरन्तरंसाधूनां कलहो भवति । 'स्थानम्' अवस्थिति पुनर्नास्ति 'चरणेषु' पादप्रदेशेषु । 'अधिष्ठाने' अषानप्रदेशेषु “पुटुं" ति उदरं तस्य रोगो भवति । 'पुच्छे' पुच्छप्रदेशे 'स्फेटनम्' अपनयनं वसतेर्जानीहि । [भा.१४९५] मुहमूलम्मि उ चारी, सिरे अकउहे अपूअ सक्कारो। खंधे पट्ठीइ भरो, पुट्ठम्मि उधायओ वसहो॥ वृ-मुखमूले यदि वसति तदा 'चारी' भोजनसम्पत्ति प्रशस्ता । शिरसि' शृङ्गयोर्मध्ये ककुदि च वसतिकरणे पूजा च वस्त्र-पात्रादिभि सत्कारश्चाभ्युत्थानादिना साधूनां भवति । स्कन्धप्रदेशे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy