________________
३८०
बृहत्कल्प-छेदसूत्रम् -१-१/६
क्षेत्रम् । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवृत्त्य समुद्दिश्य संज्ञाभूमीं गत्वा वैकालिकी पात्रादिप्रत्युपेक्षणां कृत्वा सायाह्ने तृतीये विभागे भिक्षामटन्ति ।। कथम् ? इत्याह[भा.१४८५] चरिमे परिताविय पेज खीर आएस-अतरणट्ठाए।
एक्वेक्कगसंजुत्तं, भत्तहँ एक्कमेक्कस्स ॥ वृ-चरिमे भइक्षाकाले परितापितं पेया क्षीरंच येषु प्राप्यते तानि कुलानि सम्यगवधारयन्ति। किमर्थम्? इत्याह-आदेशाः-प्राधूर्णकास्तदासमागच्छेयुः, अतरणः-ग्लानस्तदानीं पथ्यमुपयुञ्जीत तदर्थम्, उपलक्षणत्वाद् बालाद्यर्थं च । अत्राप्येकस्य पर्याप्तं गृहीत्वा प्रतिनिवर्तन्ते । यत आह“एक्केक्कग" इत्यादि । एकैकः साधुरन्यसाधुना संयुक्तो यस्मिन्नानयने तदेकैकसंयुक्तं भक्तार्थम्' उदरपूरमाहारमेकैकस्य साधोरायानयन्ति। इदमुक्तं भवति-प्रातौं साधूसङ्घाटकेन पर्यटतः, तृतीयोरक्षपाल आस्ते; द्वितीयस्यां वेलायांतयोर्मध्यादेक आस्ते, अपरः प्रथमव्यवस्थितं गृहीत्वा प्रयाति; तृतीयस्यांतु द्वितीयवेलारक्षपालःप्रथमव्यवस्थितरक्षपालेन सह पर्यटति, यस्तु वारद्वयं पर्यटितः स तिष्ठति; एवं त्रयाणां जनानां द्वौ द्वौ वारौ पर्यटनं योजनीयम् । किञ्च[भा.१४८६] ओसह भेसज्जाणिय, काले च कुले अदानसड्ढाई।
सग्गामे पेहित्ता, पेहंति तओ परग्गामे ।। 'औषधानि' हरीतक्यादीनि 'भैषजानि' पेयादीनि तरिफलादीनि वा चशब्दात् पिष्पलकसूच्यादीनि च “काले य"त्ति येषु कुलेषु यत्र काले वेला यानि वा दानश्राद्धादीनि कुलानि एतानि स्वग्रामे प्रत्युपेक्ष्य ततः परग्रामे प्रत्युपेक्षन्ते । अत्र च चालनां कारयति[भा.१४८७] चोयगवयणं दीहं, पनीयगहणे य ननु भवे दोसा।
जुञ्जइ तं गुरु-पाहुण-गिलाणगट्ठा न दप्पट्ठा ।। वृ-नोदकः-प्रेरकस्तस्य वचनं-चालनारूपम्-ननुतेषामिथ्थं दीर्घाभिक्षाचर्यां कुर्वतांप्रणीतस्य च-दधि-दुग्धादेहणे ‘दोषाः' सूत्रार्थपरिमन्थ-मोहोद्भवादयो भवेयुः । सूरिराह-भद्र ! युज्यते 'तत् प्रणीतग्रहणंदीर्घभिक्षाटनंच गुरु-प्राधूर्णक-ग्लानार्थम्, न दार्थं नात्मनोबलवर्णादिहेतोः।। [भा.१४८८] जइ पुण खद्ध-पणीए, अकारणे एक्कसि पि गिहिज्जा ।
तहियं दोसा तेन उ, अकारमे खद्ध-निद्धाइं॥ वृ-यदि पुनः खद्धं-प्रचुरं प्रणीतं-स्निग्ध-मधुरंते 'अकारणे' गुर्वादिकारणाभावे एकशोऽपि गृह्णीयुः ततः तस्मिन् खद्ध-प्रणीतग्रहणेभवेयुर्दोषाः । कुतः? इत्याह-अकारणेआत्मार्थंयस्मात् तेन “खद्ध-निद्धाई" ति प्रचुर-स्निग्धानि भक्ष्यन्त इति वाक्यशेषः । अतो गुरु-ग्लानादिहेतोः क्षेत्रप्रत्युपेक्षणाकालेप्रणीतं गृह्णतां चिरंच पर्यटतां न कश्चिद्दोष इति॥अथ “कुलाइँतहुवस्सयं चेव" त्ति पदं व्याख्यायते-भिक्षामटन्तः कुलानि जानन्ति । कथम् ? इत्याह[भा.१४८९] दाने अभिगम सड्ढे, सम्मत्ते खलु तहेव मिच्छत्ते ।
मामाए अचित्ते, कुलाइँजाणंति गीयत्था॥ वृ-'दानश्राद्धानि' प्रकृत्यैव दानरुचीनि, 'अभिगमश्राद्धानि' प्रतिपन्नाणुव्रतानि श्रावककुलानि, 'सम्यक्त्वश्राद्धानि' अविरतसम्यग्दृष्टीनि, तथैव 'मिथ्यात्वे' मिथ्याष्टिकुलानि, 'मामाकानि' ‘मा मदीयं गृहं श्रमणाः प्रविशन्तु' इति प्रतिषेधकारीणि, “अचियत्ते'' त्ति नास्ति प्रीति साधुषु Jain Education International
National
For Private & Personal Use Only
www.jainelibrary.org