________________
३८४
बृहत्कल्प-छेदसूत्रम् - १-१/६
जवस जाणओतहि, आवज्जइ मासियं लहुगं ॥
वृ-‘सत्कारः' वन्दना-ऽभ्युत्थानादि 'सम्मानः' विश्रामणादि 'भिक्षाग्रहणम्' उपविष्टस्य भिक्षाया आनयनम्, एतत् सर्वमपि प्राधूर्णके आगते सति कर्त्तव्यम् । यदि वसतिर्येषां तेषां वा परिमितानां साधूनां दत्ता तदा यावन्तः प्राघुणकाः समायातास्तावतो वास्तव्यानन्यत्र विसर्ज्यप्राधुणकाः स्थाप्यन्ते । अथ नामग्राहं गृहीत्वा नियमितानामेव साधूनां सा दत्ता ततः प्राघुणकस्य वसतिस्वरूपं निवेद्यते । निवेदिते च यदि 'ज्ञोऽपि वसतिस्वरूपं जानानोऽपि तत्र वसति तदा आपद्यते मासिकं लघुकम् ॥ ततः
[भा. १५०४] किइकम्म भिक्खगहणे, कयम्मि जाणाविओ बहि वसइ । हिय-नट्ठेसुं संका, सुहा उब्भाम वोच्छेदो ॥
वृ- 'कृतिकर्मणि' विश्रामणादौ भिक्षाग्रहणे च कृते सति वसतिस्वरूपं ज्ञापितः सन् रात्रौ बहिर्वसति । यदि ज्ञापितोऽपि सन् बहिर्न व्रजति तदा सागारिक्सय केनचिच्चौरादिना हृते नष्टे न एवमेवाश्यमाने कस्मिश्चिद् वस्तुनि शङ्का भवेत् नूनं यदद्यामुकं वस्तु न दृश्यते तदेतेषां यः प्राधुणको रात्रावुषित्वा प्रतिगतः तेन हृतं भविष्यति । 'स्नुषा वा' वधू रात्रावुद्भ्रामकेण सह गता भवेत् तत्रापि यदि प्राधुणकस्य शङ्का सागारिकः करोति तदा तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदो भवेत् ।। एवं वसतौ लब्धायां किं विधियम् ? इत्याह
[भा. १५०५ ]
पडिलेहियं च खेत्तं, थंडिलपडिलेहऽ मंगले पुच्छा । गामस्स व नगरस्स व, सियाणकरणं पढम वत्युं ॥
वृ- यदा क्षेत्रं सम्यक् प्रत्युपेक्षितं भवति तदा 'महास्थण्डिलं' शबपरिष्ठापनभूमिलक्षणं प्रत्युपेक्षणीयम् । “अमंगले च्छ"त्ति नोदकः पृच्छति-भगवन् ! यूयं तिष्ठन्त एव किमेवममङ्गलं कुरुथ ? । सूरिराह-ग्रामस्य वा नगरस्य वा “सियाणकरणं' स्मशानस्थापनायोग्यं 'प्रथमम्' आद्यं वास्तु प्रत्युप्रेक्ष्यत इति वाक्यशेषः । इयमत्र भावना - ग्राम - नगरादीनां तत्प्रथमतया निवेश्यमानानां वास्तुविद्यानुसारेण प्रथमं स्मशानवास्तु निरूप्य ततः शेषाणि देवकुलसभासौधादिवास्तूनि निरूप्यन्ते, लोके तथाध्ष्टत्वात् न च तदमाङ्गलिकम्, एवमत्रापि महास्थण्डिलं प्रथमं प्रत्युपेक्ष्यमाणमस्माकं नामाङ्गलिकं भवतीति । तच्च कस्यां दिशि प्रत्युपेक्षणीयम् ? उच्यते[भा. १५०६]दिस अवरदक्खिणा दक्खिणा य अवरा य दक्खिणापुव्वा ।
अवरुत्तरा य पुव्वा, उत्तर पुव्वुत्तरा चेव ॥
वृ- प्रथमतो महास्थण्डिलप्रत्युपेक्षणविषया अपरदक्षिणा दिक् । अथ तस्यां नदी - क्षेत्राऽऽरामादिव्यार्घातः ततो दक्षिणा । तस्या अभावे अपरा । तदलाभे दक्षिणपूर्वा । तदसत्त्वे अपरोत्तरा । तस्या अप्यप्राप्तौ पूर्वा । तस्या असम्भवे उत्तरा । उत्तरस्या अभावे पूर्वोत्तरा दिग् मन्तव्या ॥ अथासामेव गुण-दोषविचारणामाह
[भा. १५०७ ]
पउरन्न-पान पढमा, बीयाए भत्त-पान न लहंति । तइयाइ उवहिमाई, चउत्थी सज्झाय न करिंति ।
वृ- ‘प्रथमा’ अपरदक्षिणा दिक् प्रचुरान्न-पाना भवति, तस्यां प्रत्युपेक्ष्यमाणायां प्रचुरमन्न-पानं प्राप्यत इत्यर्थः । यदि तस्यां सत्यां 'द्वितीयां' दक्षिणां प्रत्युपेक्षन्ते ततो भक्त-पानं न लभन्ते । अथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org