________________
उद्देश : १, मूलं - ६, [भा. १४६९ ]
३७७
विगइं पडिसेहेई, तम्हा जोगिं न पेसिज्जा ।।
वृ-योगवाही 'श्रुतं मम पठितव्यं वर्त्तते' इति त्वरमाणः सन्नपान्तराले पन्थानं न प्रत्युपेक्षते । गुणना- परावर्त्तना तस्या लोभेन चिरमसौ भिक्षांन हिण्डते । लभ्यमानामपि 'विकृतिं' घृतादिकामसी प्रतिषेधयति । तस्माद् योगिनं न प्रेषयेत् ॥ अगीतार्थद्वारमाहपंथं च मास वासं उवस्सयं एच्चिरेण कालेण । हामो त्ति न याणइ, अगीतो पडिलोम असतीए ।
[भा. १४७० ]
वृ- अगीतार्थ ' पन्थानं' मार्गं 'मासं' मासकल्पविधिं 'वासं' वर्षावासविधिं 'उपाश्रयं' वसतिमेतानि परीक्षितुं न जानाति । तथा शय्यातरेण पृष्टः 'कदा यूयमागमिष्यथ ?' ततोऽसौ ब्रवीति- 'इयता कालेन' अर्द्धमासादिना वयमेष्याम इत्येवं वदतो यः स्वल्वविधिभाषणजनितो दोषस्तमगीतार्थो न जानाति । यत एवमतः प्रथमतो गणावच्छेदकेन गन्तव्यम्। तस्याभावेऽपरोऽपि योगीतार्थः सव्यापारणीयः। तस्यापि 'असति' अभावे 'प्रतिलोमं' पश्चानुपूर्व्या एतानेवागीतार्थमादिं कृत्वा प्रेषयेत् ॥ केन विधिना ? इति चेद उच्यते
[भा. १४७१]
सामायारिमगीए, जोगिमनागाढ खमग पारावे । वेयावच्चे दायण, जुयल समत्थं व सहियं वा ॥
वृ- अगीतार्थः ओधनिर्युक्तिसामाचारी कथयित्वा प्रेषणीयः । तदभावे 'अनागाढयोगी' बाह्ययोगवाही योगं निक्षिप्य प्रेष्यते । तस्याप्यभावे क्षपकः, तं च प्रथमं 'पारयेत्' पारणं कारयेत्, ततो ‘मा क्षपणं कार्षीः' इति शिक्षां दत्त्वा प्रहिणुयात् । तस्याप्यभावे वैयावृत्त्यकरः प्रेष्यते । “दायण"त्ति स वैयावृत्त्यकरो वास्तव्यसाधूनां स्थापनाकुलानि दर्शयति । ततो बालृवृद्धयुगलम्, कथम्भूतम् ? ‘समर्थं’ दृढशरीरम्, वा शब्दो विकल्पार्थः, 'सहितं वा' वृषभसाधुसमन्वितम् । इत्थमादिष्टेस्तैः शेषसाधूनां स्वमुपधिं समर्प्य परस्परं क्षामणां कृत्वा गमनकाले भूयोऽपि गुरूनापृच्छय गन्तव्यम् । यदि नापृच्छन्ति तदा मासलघु । ते चावश्यिकीं कृत्वा निर्गच्छन्ति ।। कियन्तः ? कथं च ? इत्याह
[भा. १४७२] तिन्नेव गच्छवासी, हवंतऽ हालंदियाण दोन्नि जना । गमने चोदगपुच्छा, थंडिलपडिलेहऽहालंदे ॥
वृ- जघन्यतस्त्रयो गच्चवासिनो जना एकैकस्यां दिशि व्रजन्ति । यथालन्दिकानां तु गच्छप्रतिबद्धानां द्वौ जनावेकस्यां दिशि क्षेत्रप्रत्युपेक्षकौ गच्छतः । शेषासु तिसृषु दिक्षु गच्छ्वासिनामाचार्या आदिशन्ति, यथा-यथालन्दिकानामपि योग्यं क्षेत्रं प्रत्युपेक्षणीयम् । तेषां च गमने प्ररूपिते नोदकपृच्छा वक्तव्या । स्थण्डिलप्रत्युपेक्षणं यथालन्दिकानां वाच्यम् । तत्र गमनद्वारं विवृणोति
[भा. १४७३]
पंथुच्चारे उदए, ठाणे भिक्खंतरा य वसहीओ ।
तेना सावय वाला, पच्चावाया य जाणविही ॥
वृ- 'पन्थानं' मार्गं " उच्चारे "त्ति उच्चार - प्रश्रवणभूमिके, “उदए "त्ति पानकस्थानानि येषु बालादियोग्यं प्राशुकैषणीयं पानकं लभ्यते, “ठाणे "त्ति विश्रामस्थानानि, “भिक्ख' "त्ति येषु येषु प्रदेशेषु भिक्षा प्राप्यते न वा, अन्तरा - अन्तराले वसतयः प्रतिश्रयाः सुलभा दुर्लभा वा, स्तेनाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org