________________
३७८
बृहत्कल्प-छेदसूत्रम् -१-१/६ श्वापदा व्यालाश्च यत्र सन्ति न वा, प्रत्यपायाश्च यत्र दिवा रात्रौ वा भवन्ति, तदेतत् सर्वं सम्यग् निरूपयद्भिर्गन्तव्यम् । यानं-गमनं तस्य विधिरयं द्रष्टव्य इति ।। इदमेव व्याचिख्यासुराह[भा.१४७४] वावारिय सच्छंदाण वा वि तेसिं इमो विही गमने।
दव्वे खेते काले, भावे पंथं तु पडिलेहे ॥ वृ-'व्यापारिताः' आचार्येण नियुक्ताः 'स्वच्छन्दाः' नामयेआभिग्रहिकाः, तेषामुभयेषामप्ययं गमने विधिः । तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च पन्थानं प्रत्युपेक्षन्ते ।। कथम् ? इत्याह[भा.१४७५] कंटग तेना वाला, पडिनीया सावया यदव्वम्मि।
सम विसम उदय थंडिल, भिक्खायरियंतरा खेत्ते॥ वृ-द्रव्यतः कण्टकाः स्तेनाव्यालाः प्रत्यनीकाश्वापदाश्च पथिप्रत्युपेक्षणीयाः ।क्षेत्रतः समः' गिरिकन्दरा-प्रपात-निम्नोन्नतरहितः पन्थाः, विषमः' तद्विपरीतः, “उदग"त्ति पानीयबहुलोमार्गः, स्थण्डिलानि भिक्षाचर्या तथा अन्तरा' अपान्तराले वसतयः॥ [भा.१४७६] दिय राओ पच्चवाए, य जाणई सुगम-दुग्गमे काले।
भावे सपक्ख-परपक्खपेल्लणा निण्हगाईया । वृ-कालतो दिवा रात्रौ वा प्रत्यपायान् जानाति, यथा-अत्र दिवा प्रत्यापाया न रात्रौ, अत्र तु रात्रौ न दिवेति; यद्वा दिवा रात्रौ वाऽयं पन्थाः सुगमो दुर्गमो वा । भावतः स्वपक्षेण परपक्षेण वा प्रेरितः-आक्रान्तोऽयं ग्रामः पन्था वा न वेति । अथ कः पुनः स्वपक्षः को वा परपक्षः ? इत्याह“निण्हगाईय" त्ति निह्नव-पार्श्वस्थादयः साधुलिङ्गधारिणः स्वपक्षः, आदिग्रहणात् चरकपरिव्राजकादयः परपक्षः । एवं प्रत्युपेक्षमाणास्तावद् व्रजन्ति यावद् विवक्षितक्षेत्रं प्राप्ताः॥
उक्तं गमनद्वारम् । अथ नोदकपृच्छाद्वारमाह[भा.१४७७] सुत्तत्थाणि करिते, न वत्ति वत्तंतगाउचोएइ।
न करिति माहु चोयग!, गुरूण निइआइआ दोसा॥ वृ-परो नोदयति-क्षेत्रप्रत्युपेक्षका व्रजन्तः किं सूत्रार्थी कुर्वते न वा? ।गुरुराह-न कुर्वन्ति, मा भूवन गुरूणां नित्यवासादयो दोषाः । अतो यदि सूत्रपौरुषीं कुर्वन्ति तदा मासलघु, अर्थपौरुष्यां मासगुरु ॥ "थंडिलपडिलेहऽहालंदे" त्ति पदं व्याख्यानयति[भा.१४७८] सुत्तत्थपोरिसीओ, अपरिहवंता वयंतऽहालंदी।
थंडिल्ले उवओगं, करिति रत्तिं वसंति जहिं ।। वृ-यथालन्दिकाः सूत्रार्थपौरुष्यावपरिपयन्तो विहारंभिक्षाचर्यांचतृतीयस्यां पौरुष्यां कुर्वाणा व्रजन्ति । यत्र च रात्रौ वसन्ति तत्र ‘स्थण्डिले' कालग्रहणादियोग्ये उपयोगं कुर्वन्ति ॥
केन विधिना गच्चवासिनस्तत्र क्षेत्रे प्रविशन्ति? इत्याह[भा.१४७९] सुत्तत्थे अकरिता, भिक्खं काउं अइंति अवरहे ।
बीयदिणे सज्झाओ, पोरिसि अद्धाए संघाडो॥ वृ-सूत्रार्थावकुर्वन्तः प्रस्तुतक्षेत्रासन्ने ग्रामेभिक्षांकृत्वा समुद्दिश्य अपराह्ने विचारूमिस्थण्डिलानि प्रत्युपेक्षमाणा विवक्षितं क्षेत्रं “अइंति"त्ति प्रविशन्ति । ततो वसतिं गृहीत्वा तत्रावश्यकं कृत्वा कालं प्रत्युपेक्ष्य प्रादोषिकं स्वाध्यायं कृत्वा प्रहरद्वयं शेरते । ये तु न शेरते तेऽर्द्धरात्रिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org