________________
३७६
बृहत्कल्प-छेदसूत्रम् - १-१/६
भिग्रहास्ते स्वयमेव गुरुनापृच्छ्य गच्छन्ति । अथ न सन्त्याभिग्रहिकास्ततः को विधिः? इत्याहवेयावच्चरं बाल वुड्ढ खमयं वहंतऽ गीयत्थं । गणवच्छे अगमनं, तस्स व असती य पडिलोमं ।।
[भा. १४६४ ]
वृ- वैयावृत्त्यकरं १ बालं २ वृद्धं ३ क्षपकं ४ 'वहन्तं' योगवाहिनं ५ अगीतार्थं ६ एतान् न क्षेत्रप्रत्युपेक्षणाय व्यापारयेत्, किन्तु गणावच्छेदकस्य गमनं भवति । तस्य वाशब्दादपरस्य वा गीतार्थस्य 'असति' अभावे 'प्रतिलोमं' प्रतीपक्रमेण पश्चानुपूर्वेत्यर्थः, एतानेवागीतार्थमादिं कृत्वा व्यापारयेदिति सङ्ग्रहगाथासमासार्थ ॥ अथैनामेव विवरीषुः प्रथमतः प्रायश्चित्तमाह[भा. १४६५] आइतिए चउगुरुगा, लहुओ मासो उ होइ चरिमतिए । विराधन, आयरियाई मुनेयव्वा ॥
वृ- 'आदित्रिके' वैयावृत्त्यकर- बाल-वृद्धलक्षणे व्यापार्यमाणे चत्वारो गुरुकाः । 'चरमत्रिके तु' क्षपक- योगवाहि-अगीतार्लक्षणे लघुको मासः । आज्ञादयश्च दोषाः, विराधना चाऽऽचार्यादीनां ज्ञातव्या ॥ तामेव भावयति
[भा. १४६६] ठवणकुले व न साहइ, सिट्ठा व न दिंति जा विरादानया । परितावनमनुकंपन, तिण्हऽ समत्यो भवे खमओ ।।
कृ- वैयावृत्त्यकरः प्रेष्यमाणो रुष्यति । रुषितश्च यान्याचार्यादिप्रायोग्यदायकानि स्थापनाकुलानि तानि न कथयति । 'शिष्टानि वा' कथितानि परं तानि तस्यैव ददति नान्यस्य, तेन भावितत्वात् तेषाम् । ततोऽलभ्यमाने प्रायोग्ये या काचिदात्मनो ग्लानादीनां वा विराधना तन्निष्पन्नमाचार्यस्य प्रायश्चित्तम् । अथ क्षपकं प्रेषयति ततो यदसौ शीता-ऽऽतपादिना परिताप्यते तन्निष्पन्नम्, देवता वा काचित् क्षपकमनुकम्पमाना खलु क्षेत्रेऽपि भक्त-पानमुत्पादयति, लोको वा क्षपक इति कृत्वा तस्यानुकम्पया सवर्मपि ददाति नान्यस्य, तपःक्षामकुक्षिश्वासौ तिसृणां गोचरचर्याणामसमर्थः इति ॥ बालद्वारमाह[भा. १४६७ ]
हीरेज व खेलेज्ज व, कज्जा - Sकज्जं न याणई बालो । सो व अनुकंपणिज्जो, न दिंति वा किंचि बालस्स ।।
वृ-हियेत वा म्लेच्छादिना, खेलयेद् वा चेटरूपैः सार्द्धम्, 'कार्या - Sकार्यं च' कर्त्तव्या कर्त्तव्यं न जानाति बालः । ‘स वा' बालः स्वभावत एवानुकम्पनीयो भवति ततः सर्वोऽपि लोकस्तस्य भक्त - पानं प्रयच्छति । स चागत्याचार्याय कथयति-यथा सर्वमपि प्रायोग्यं तत्र प्राप्यते । ततस्तद्वचनादागतस्तत्र गच्छः, यावन्न किञ्चिद् लभ्यते । न ददति वा किञ्चिद् बालाय लोकाः, पराभवनीयतया दर्शनात् ॥ वृद्धद्वारमाह
[भा. १४६८ ] वुड्डोऽनुकंपणिज्जो, चिरेण न य मग्ग थंडिले पेहे । अहवा वि बाल-वुड्डा, असमत्था गोयरतियस्स ॥
वृ- 'वृद्धः' परिनतवया अनुकम्पनीयो लोकस्य भवति, ततश्चायं सर्वत्रापि लभते नापरः । तथा स मन्दं मन्दं गच्छन् चिरकालेनोपैति, न च 'मार्गं' पन्थानं स्थण्डिलानि च प्रत्युपेक्षते । अथवा बाल-वृद्धावसमर्थौ ‘गोचरत्रिकस्य' त्रिकालभिक्षाटनस्येति । योगवाहिद्वारमाह
[भा. १४६९ ] तूरंतो व न पेहे, गुणणालोभन न य चिरं हिंडे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org