________________
उद्देशक : १, मूलं -६, [भा. १४५९ ]
३७५
महासमूहात्मकं तद् यूथं "तरुण "त्ति भावप्रधानत्वाद् निर्देशस्य तारुण्येन-यौवनवशेन यो रभसःचापलं गौरिगीतश्रवणादिविषयं तेन "पोतितं" ति देशीवचनत्वादितस्ततः स्पन्दितं 'मदगुल्मितं मदेन घूर्णितचेतनं सत् सुखं 'हन्तुं' विनाशयितुम्, सुखेन तद् व्यापाद्यत इति भावः । उक्तञ्चअतिरागप्रणीतान्यतिरभसकृतानि च ।
तापयन्ति नरं पश्चात् क्रोधाध्यवसितानि च ॥
यतश्चैवमतः सर्व एव मिलिताः सन्तः प्रष्टव्याः । अत्रैव प्रायश्चित्तमाह[भा. १४६० ] आयरियअवाहरणे, मासो वाहित्तऽनागमे लहुओ । वाहित्ताण य पुच्छा, जाणगसिट्टे तओ गमनं ॥
वृ- आचार्या गणं न व्याहरन्ति-नामन्त्रयन्ते मासलघु । शिष्य-प्रतीच्छक-तरुण-स्थविराणामन्यतमान् विशेष्यामन्त्रयन्ते तदाऽपि मासलघु । तेऽपि च व्याहृताः सन्तो यदि नागच्छन्ति तदाऽपि मासलघु । व्याहृत्य च सर्वमपि गणं पृच्छा कर्त्तव्या, यथा-तरत् क्षेत्रं प्रत्युपेक्षणीयम् ? । ततो ज्ञायकेन-क्षेत्रस्वरूपेज्ञेन शिष्टे -कथिते सति गमनं क्षेत्रप्रत्युपेक्षक कर्त्तव्यम् ॥
आमन्त्रणस्यैव विधिमाह
[ भा. १४६१] थुइमंगलमामंतण, नागच्छइ जो व पुच्छिओ न कहे । तस्सुवरिं ते दोसा, तम्हा मिलिएसु पुच्छिज्जा ।।
वृ- आवश्यके समापिते 'स्तुतिमङ्गलं कृत्वा' तिः स्तुतीर्दत्त्वेति भावः । सर्वेषामपि साधूनामामन्त्रणं कर्त्तव्यम् । कृते चामन्त्रणे यः कश्चिद् नाऽऽगच्छति आगतो वा क्षेत्रस्वरूपं पृष्टः सन् न कथयति तदा मासलघु, तथा तस्योपरि 'ते दोषाः' स्तेन श्वापदादयो भवन्ति ये तत्र गतानां भविष्यन्ति । तस्माद् मिलितेषु सर्वेष्वपि पृच्छेत्, उपलक्षणत्वात् सर्वेऽपि च कथयेयुः ।।
अत्रैव मतान्तरमुपन्यस्य दूषयन्नाह
[भा. १४६२]
केई भांति पुव्वि, पडिलेहिय एवमेव गंतव्वं ।
तं तु न जुज्इ वसही फेडण आगंतु पडिनीए ।
वृ- केचिद् भणन्ति - 'पूर्वं ' प्राक् प्रत्युपेक्षिते क्षेत्रे एवमेव गन्तव्यम् न पुनस्तत्र क्षेत्रप्रत्युपेक्षकाः प्रेषणीया इति, तत तु 'न युज्यते' न घटते । कुतः ? इत्याह-वसतेः कदाचित् स्फेटनं कृतं भवेत्, आगन्तुको वा प्रत्यनीकस्तत्र सम्भवेत्, अः पूर्वदृष्टमपि क्षेत्रं प्रत्युपेक्षणीयम् ॥
अथ कथं प्रष्टव्यम् ? इत्याह
[भा. १४६३] कयरी दिसा पसत्था, अमुगी सव्वेसि अनुमए गमनं । चउदिसि ति दु एक्कं वा, सत्तग पनगे तिग जहन्ने ।
वृ-यदा सर्वेऽपि साधवो मिलिता भवन्ति तदा गुरवो ब्रुवते - आर्या ! पूर्णोऽयमस्माकं मासकल्पः, क्षेत्रान्तरं सम्प्रति प्रत्युपेक्षणीयम्, अतः कतरा दिक् साम्प्रतं प्रशस्ता ? । ते ब्रुवते- 'अमुका' पूर्वादीनामन्यतमा । एवं सर्वेषां यद्यसौ 'अनुमता' अभिरुचिता तदा गमनं कर्त्तव्यम् । प्रथमं चतसृष्वपि दिक्षु, अथ चतुर्थ्या कोऽप्यशिवाद्युपद्रवस्ततस्तिसृषु दिक्षु, तदभावे द्वयोर्दिशोः, तदसत्येकस्यां दिशि गच्छन्ति । ते चैकैकस्यां दिश्युत्कर्षतः सप्त व्रजन्ति, सप्तानामभावे पञ्च, जघन्येन तु त्रयः साधवो नियमाद् गच्छन्ति ।। तत्र च ये आभिग्रहिकाः- क्षेत्रप्रत्युपेक्षणार्थं प्रतिपन्ना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International