________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
३७४
भवन्ति ॥ तत्र स्थाने प्राप्तानां पुनरिमे दोषाः
[ भा. १४५६ ] पञ्च्चंत तावसीओ, सावय दुब्भिक्ख तेनपउराइं । नियग पउडुट्ठाणे, फेणया हरियपत्ती य ॥
वृ- सग्रामः 'प्रत्यन्तः ' म्लेच्छाद्युपद्रवोपेतः, तापस्यो वा तत्रप्रचुरमोहाः संयमात् परिभ्रंशयन्ति, श्वापदभयं दुर्भिक्षभयं स्तेनप्रचुराणि च तानि क्षेत्राणि, शैक्षस्यान्यस्य वा कस्यापि साधोस्तत्र 'निजकाः' स्वजनास्ते तमुव्यव्राजयन्ति, 'प्रद्विष्टो वा' प्रत्यनीकस्तत्र साधूनुपद्रवति, उत्थितो वा स ग्रामः, स्फेटिता वा सा वसति, 'स्फेटितानि वा' विपरिणामितानि तानि कुलानि येषां निश्रया तत्र गम्यते । आह च चूर्णिकृत् - फेडियाणि वा ताणि कुलाणि जेसिं निस्साए गम्मइ त्ति । “हरियपत्ती य'त्ति हरितपत्रशाकं बाहुल्येन तत्र भक्ष्यते । अथवा तत्र देशे केषुचिद् गृहेषु राज्ञो दण्डं दत्त्वा देवतोपहारार्थमागन्तुकः पुरुषो मार्यते, गृहस्य चोपरिष्टादार्द्रा वृक्षशाखा चिह्नं क्रियते,
एतेन चिह्नेनास्माभिराख्यातमेव भवति, अतो मारणेऽप्यस्माकं न दोष इति । यत एते दोषा अतः सर्वमपि गणमामन्त्रय क्षेत्रप्रत्युपेक्षकाः प्रेषणीयाः ॥ यदि पुनर्न सर्वमपि गणमामन्त्रयते तत एते दोषा:
[भा. १४५७]
सीसे जइ आमंते, पडिच्छगा तेन बाहिरं भावं । इ इअरे तो सीसा, ते वि समत्तम्मि गच्छंति ॥
वृ-यद्याचार्य शिष्यान् केवलानामन्त्रयति 'कस्यां दिशि क्षेत्रप्रत्युपेक्षकाः प्रेषयितुमुचिताः ?' इति ततो मासलघु, आज्ञादयश्च दोषाः । प्रतीच्छकाश्च 'तेन' कारणेन बाह्यं भावं गच्छेयुः - अहो! स्वशिष्या एवामीषां सर्वकार्येषु प्रमाणंन वयमिति, अतो राग-द्वेषदूषितत्वात् को नामामीषामुपकण्ठे स्थास्यति ? इति । यदि 'इतरान्' प्रतीच्छकानामन्त्रयते ततः शिष्या बहिर्भावं गच्छेयुः-प्रतीच्छका एव तावदमीषां प्रसादपात्रम्, अतः किमर्थं वयमेव वैयावृत्त्यादिप्रयासं कुर्मः ? इति । 'तेऽपि ' प्रतीच्छकाः समाप्ते सूत्रार्थग्रहणे स्वगच्छं गच्छन्ति । ततश्चाचार्य उभयैरपि प्रतीच्छक-शिष्यैः परित्यक्तः सन्नेकाकी सञ्जायेत ॥
[भा. १४५८ ] तरुणा बाहिरभावं, न य पडिलेहोवहिं न किइकम्मं । मूलगपत्तसरिसगा, परिभूया वच्चिमो थेरा ॥
वृ-अथ वृद्धानामन्त्रयते ततस्तरुणा बहिर्भावं मन्यन्ते, 'न च' नैव गुरूणां क्षेत्रप्रत्युपेक्षकाणां वा उपकरणं प्रत्युपेक्षन्ते, न वा स्थविरादीनामुपधिं वहन्ति, न च कृतिकर्म-भक्तपानानयनविश्रामणादिकं कुर्वते, 'वृद्धा एव सर्वमपि विधास्यन्ति, केऽत्र वयमस्थापितमहत्तराः ? ' इति । अथैतद्दोषभयात् तरुणानेव पृच्छति ततः स्थविराश्चिन्तयेयुः - 'मौलकपत्रसध्शाः' मौलम् - आद्यं यत् पर्णं परिपक्वप्रायं यदि वा मूलकः कन्दविशेषस्तस्य त् पत्रं निस्सारं तत्सध्शा वयम् अत एव च 'परिभूताः ' परिभवपदमायाता इत्यतो व्रजामो वयं गणान्तरमिति । अथाकिञ्चित्करत्वात् स्थविराणामनामन्त्रणेऽपि का नाम हानि सम्पद्यते ? उच्यते
[भा. १४५९]
जुनहि विहूणं, जं जूहं होइ सुटु वि महल्लं । तं तरुणरहसपोइअ, मयगुम्मइअं सुहं हंतुं ॥
वृ- जीर्णा परिणतवयसो ये मृगास्तैर्विहीनं यद् यूथं भवति 'सुष्ठवपि' अतिशयेन 'महत्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org