SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १, मूलं-६, [भा. १४५०] ३७३ उताप्राप्ते? आहोश्चिदतिक्रान्ते ? उच्यते-यदि कोऽपि व्याघातस्तदा अप्राप्ते वा अतिक्रान्ते वा निर्गच्छन्ति। 'तस्य' व्याघातस्य 'असति' अभावे प्राप्ते चातुर्मासिकदिने मार्गशीर्षप्रतिपदि निर्गत्य बहिर्गत्वा पारयन्ति ।। कः पुनव्यार्घातः ? इत्याह[भा.१४५१] पत्तमपत्ते रिखं, असाहगंपुन्नमासिणिमहो वा। पडिकूल त्ति य लोगो, मा वोच्छिइ तो अईयम्मि॥ वृ-प्राप्ते चातुर्मासिकदिवसेअप्राप्ते वा यद्याचार्याणाम् 'ऋक्षं नक्षत्रम् ‘असाधकम्अननुकूलं पौर्णमासीमहो वा तदा भवेत् कार्तिकीमहोत्सव इत्यर्थः, तत्र चलोको निर्गच्छतः साधून् दृष्टवा अमङ्गलं मन्यमानः प्रतिकूलाः' अस्मन्महोत्सवप्रतिपन्थिनोऽमी मुण्डायेऽस्मिन्नेवंविधेमहोत्सवे स्वमुखमस्माकं दर्शयन्ति' इत्येवं 'या वक्ष्यति' मा भणिष्यति, ततोऽतीते निर्गन्तव्यम् ।। [भा.१४५२] पत्ते अइच्छिए वा, असाहगं तेन निति अप्पत्ते । नाउं निग्गमकालं, पडिचरए पेसविंति तहा। वृ-अथ प्राप्तेअतिक्रान्ते वा निर्गमनकाले नक्षत्रमसाधकम्, उपलक्षणत्वाद् मेघो वा वर्षणाद् नोपरंस्यतेपन्थानः कर्दमदुर्गमाश्च भविष्यन्तीत्यतिशयज्ञानवशेन परिज्ञाय 'तेन’ कारणेन 'अप्राप्ते' चातुर्मासिके निर्गच्छन्ति। निर्गमनकालं च ज्ञात्वा प्रतिचरकान्' क्षेत्रप्रत्युपेक्षकान् तथा प्रेषयन्ति यथा तेष्वायातेषु सत्सुनिर्गमनकाल उपढौकते॥ तच्च क्षेत्रंद्विधा-६ष्टपूर्वमध्टपूर्वंच, उभयमपि नियमात् प्रत्युपेक्षणीयम्, कुतः? इति चेद् उच्यते[भा.१४५३] अप्पडिलेहियदोसा, वसही भिक्खं व दुल्लहं होना । बालाइ-गिलाणाण व, पाउग्गं अहव सज्झाओ। वृ-अप्रत्युपेक्षिते क्षेत्रे गच्छतामेते दोषाः-सा पूर्वष्टा वसति स्फेटिता तिता वा भवेत्, अन्ये वा साधवस्तस्यां स्थिता भवेयुः, भैक्षं वा दुर्लभं भवेत्, दुर्भिक्षादिभावाद्बालादीनां ग्लानानांवा प्रयोग्यं दुर्लभं भवेत्, स्वाध्यायो वा दुर्लभः स्यात्, मांस-शोणितादिभिरस्वाध्यायिकैराकीर्णत्वात्।। यतश्चैवमतः किं विधेयम् ? इत्याह[भा.१४५४] तम्हा पुट्विं पडिलेहिऊण पच्छा विहीए संकमणं । - पेसेइ जइअनापुच्छिउं गणंतत्थिमे दोसा॥ वृ-तस्मात् पूर्वं प्रत्युपेक्ष्य क्षेत्रं पश्चाद् विधिना सङ्क्रमणं तत्र कर्त्तव्यम् । अथाप्रत्युपेक्षिते व्रजन्ति ततश्चतुर्लघु, आज्ञाभङ्गे चतुर्गुरु, अनवस्थायां चतुर्लघु, मिथ्यात्वे चतुर्लघु, यद् वा संयमविराधनादिकं प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । यदि पुनराचार्य 'गणं' गच्छमनापृच्छय क्षेत्रप्रत्युपेक्षकान् प्रेषयति तदा मासलघु । 'तत्र' गणमनापृच्छय प्रेषणे इमे दोषाः ॥ [भा.१४५५] तेना सावय मसगा, ओमऽसिवे सेहइत्थि पडिनीए। थंडिल्ल वसहि उट्ठाण एवमाई भवे दोसा ॥ वृ-स्तेना द्विविधाः-शरीरस्तेना उपधिस्तेनाश्च, 'श्वापदाः' सिंह-व्याघ्रादयः “मशकाः' प्रतीताः 'अवमं दुर्भिक्षं 'अशिव' व्यन्तरकृत उपद्रवः, शैक्षस्य वातत्र सागारिकः स्त्रियोवामहोद्रेकबहुलाः साधूनुपसर्गयन्ति, प्रत्यनीको वा कोऽप्युपद्रवति, स्थण्डिलानि वा तत्र न विद्यन्ते, वसतिर्वा नास्ति, “उहाणे"त्ति उत्थितः-उद्वसितः स देशः, एवमादयस्तत्रापान्तराले पथि गच्छतां दोषा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy