SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७२ बृहत्कल्प-छेदसूत्रम् - १-१/६ sia जहन्ना एए, सयग्गसो चेव उक्कोसा ॥ वृ- प्रतिपद्यमानका एते जघन्या एकादयो वा भवेयुर्न्यूनप्रक्षेपे सति यदा ग्लानत्वादिवशतो गच्छस्य स्वसाधुसमर्पणादिना तेषां न्यूनता भवति तदैकादयः साधवस्तत्र प्रवेश्यन्ते येन पञ्चको गच्छः पूर्यत इत्यर्थः । तथा ‘शताग्रशः' शतसङ्ख्याः पुरुषा न्यूनप्रक्षेपे उत्कर्षतः प्रतिपद्यमानका भवन्ति । पूर्वप्रतिपन्नानां मानमाह [ भा. १४४५ ] पुव्वपडिवन्नगाण वि, उक्कोस जहन्नसो परीमाणं । कोडिपुहुत्तं भणियं, होइ अहालंदियाणं तु ॥ वृ- पूर्वप्रतिपन्नानामप्युत्कर्षतो जघन्यतश्च परिमाणं कोटिपृथक्त्वं यथालन्दिकानां भवति, महाविदेहपञ्चके जघन्यपदवर्त्तिनः कर्मभूमिपञ्चदशके चोत्कर्षपदवर्त्तिनः कोटिपृथक्त्वस्यामीषां प्राप्यमाणत्वात् । भणितमेतद् भगवद्भिरिति । गतो यथालन्दकल्पविहारः । अथ गच्छ्वासिनां मासकल्पविधिमभिधित्सुः प्रस्तावनार्थं प्राक्तनीमेव मूलद्वारगाथामाह [ भा. १४४६ ] पव्वज्जा सिक्खापय, अत्थग्गहणं च अनियओ वासो । निष्पत्ती य विहारो, सामायारी ठिई चेव ॥ वृ- अत्र प्रव्रज्यादीनि पञ्च द्वाराणि यथा जिनकल्पद्वारे तथाऽत्रापि मन्तव्यानि ॥ अथ विहारद्वारविषयं विधिमभिधित्सुराह[भा. १४४७] निप्फत्तिं कुणमाणा, थेरा विहरंति तेसिमा मेरा । आयरिय उवज्झाया, भिक्खू थेरा य खुड्डा य ॥ वृ-शिष्याणां निष्पत्तिं कुर्वन्तः 'स्थविरा:' गच्छवासिनः साधवः 'विहरन्ति' अप्रतिबद्धं विहारं विदधति । तेषां चेत्थं विहरतामियं 'मर्यादा' सामाचारी । तत्र गच्छ्वासिनस्तावत् पञ्चविधाः, तद्यथा - आचार्या उपाध्याया भिक्षवः स्थविरा: क्षुल्लकाश्चेति ॥ [भा. १४४८ ] धीरपुरिसपन्नत्तो, सप्पुरिसनिसेविओ अ मासविही । तस्स पडिलेहगा पुण, सुत्तत्थविसारगा भणिया ।। वृ- धीरपुरुषैः - तीर्थकर - गणधरैः प्रज्ञप्तः, सत्पुरुषैश्च - ज्बू- प्रभवादिभिर्निषेवितः अनुष्ठितो मासकल्पविधिः । ‘तस्य पुनः' मासकल्पविधेः प्रत्युपेक्षकाः सूत्रार्तविशारदाः साधवो भणिता भगवद्भिः । स पुनर्विहारः शरदादिर्भवति ।। कथम् ? इति चेद् उच्यते [भा. १४४९ ] वासावासातीए, अट्ठसु चारो अतो उ सरदाई। पडिलेह - संकमविही, ठिए अ मेरं परिकहेहं ॥ वृ-वर्षावासेऽतीते अतिक्रान्ते 'अष्टसु' ऋतुबद्धमासेषु 'चारः ' मासे मासे क्षेत्रान्तरगमनलक्षणो विहारो भवति, अतः शरदादिरयं मन्तव्यः । तत्र च क्षेत्रप्रत्युपेक्षणविधिं क्षेत्रान्तरसङ्क्रमणविधिं प्रत्युपेक्षिते च क्षेत्रे "ठिए "त्ति स्थिताना सतां या काचिद् मर्यादा तामहं परिकथयिष्यामि || प्रतिज्ञातमेव यथाक्रमं व्याचिख्यासुराह [भा. १४५० ] निग्गमणम्मि उ पुच्छा, पत्तमपत्ते अइच्छिए वा वि । वाघायम्मि अपत्ते, अइच्छिए तस्स असतीए । वृ-यत्र वर्षावासः कृतस्ततः क्षेत्राद् निर्गमने 'पृच्छा' किं कार्त्तिकचतुर्मासे प्राप्ते निर्गन्तव्यम्? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy