________________
उद्देश : १, मूलं - ६, [भा. १४३९ ]
नानात्वं पुनः सूत्रे भिक्षाचर्यायां मासकल्पे चशब्दात् प्रमाणे चेति । तत्र सूत्रे तावद् नानात्वमभिधातुमाह
[ भा. १४४० ]
पडिबद्धा इअरे वि य, इक्किक्का ते जिना य थेराय । अत्थस्स उ देसम्मी, असमत्ते तेसि पडिबंधो ॥
[भा. १४४२ ]
वृ- यथालन्दिका द्विधा-गच्छप्रतिबद्धा इतरे च । पुनरेकैके द्विविधाः -जिनाश्च स्थविराश्च । ये प्रस्तुतकल्पपरिसमाप्तौ जिनकल्पं प्रतिपत्स्यन्ते ते जिनाः, ये तु स्थविरकल्पं भूयः समाश्रयिष्यन्ते ते स्थविराः। अथ कुतोऽमीषां गच्छविषयः प्रतिबन्धः ? इत्याह- 'अर्थस्य तु' तुशब्दस्यावधारणार्थत्वादर्थस्यैव न सूत्रस्य देशः एकदेशोऽद्याप्यसमाप्तः न गुरुसमीपे गृहीत इति तस्मिन् ग्रहीतव्ये सति तेषां गच्छे प्रतिबन्धः । आह तमर्थदेशं समाप्यामी विवक्षितकल्पं किं न प्रतिपद्यन्ते ? उच्यते तदानीं हि लग्न-योग- चन्द्रबलादीनि प्रशस्तानि वर्त्तन्ते, अन्यानि च प्रशस्तलग्नादीनि दूरकालवर्तीनि न वा तथाभव्यानि ततोऽमी अगृहीतेऽप्यर्थदेशे तं कल्पं प्रतिपद्य गुर्वधिष्ठितक्षेत्राद् बहिर्व्यवस्थिता विशिष्टतरानुष्ठाननिरता अगृहीतमर्थशेषं गृह्णन्ति । अथ भिक्षाचर्यायां नानात्वम्-ग्रामं षड्वीथीः परिकल्प्यैकैस्यां वीथ्यां पञ्चरात्रिन्दिवानि पर्यटन्ति, एवं षड्भिर्वीथीभिः पर्यटिताभिर्मासकल्पः समाप्यते । मासकल्पविषयं तु नानात्वमेषामुत्तरत्र भणिष्यते ॥ अत स्थविराणां जिनानां च यथालन्दिकानां परस्परं कः प्रतिविशेषः ? उच्यतेथेराणं नाणत्तं, अतरंतं अप्पिणंति गच्छस्स ।
"
[भा. १४४१]
ते विय से फासुएणं, करितिसव्वं तु पडिकम्मं ।। एक्क्क पडिग्गहगा, सप्पाउरणा हवंति थेराओ । जे पुन सिं जिनकप्पे, भय तेसिं वत्थ-पायाणि ।।
वृ-स्थविरकलपयथालन्दिकानां 'नानात्वं' विशेषोऽयम्- 'अतरन्तं' ग्लान्या अशक्नुवन्तं निजं साधुं गच्छस्यार्पयन्ति। 'तेऽपिच' गच्छ्वासिनः "से" तस्य यथालन्दिकग्लानस्य प्राशुकेनान्नादिना सर्वमेव प्रतिकर्म कुर्वन्ति । जिनकल्पयथालन्दिकास्तु निष्प्रतिकर्माणः, ततो ग्लानीभूता अपि न चिकित्सादि कारयन्ति । तथा ये स्थविरा यथालन्दिकास्ते 'एकैकप्रतिग्रहकाः' प्रत्येकमेकप्रतिग्रहोपेताः 'सप्रावरणाः' सवाश्च भवन्ति । ये पुनरमीषां मध्ये जिनकल्पे भविष्यन्ति तेषां 'भाज्ये ' विकल्पनीये वस्त्र-पात्रे, यदि पाणिपात्रभोजिनः प्रावरणरहिताश्च जिनकल्पिका भविष्यन्ति तदा वस्त्र -पात्रे न गृह्णन्ति, शेषास्तु यथोचितं गृह्णन्ति ॥
अथ प्रमाणनानात्वं भावयति
३७१
[ भा. १४४३] गणमाणओ जहन्ना, तिन्नि गण सयग्गसो य उक्कोसा । पुरिसपमाणे पनरस, सहस्ससो चेव उक्कोसा ।।
वृ-‘गणमानतः’ गणमानमाश्रित्य जघन्यतस्त्रयो गणाः, उत्कर्षतस्तु 'शताग्रशः' शतपृथक्त्वं । गणा अमुंकलपंप्रतिपद्यन्ते । पुरुषप्रमाणे तु जघन्यतः पञ्चदश पुरुषा अस्य कल्पस्य प्रतिपद्यमानकाः, त्रिषु पञ्चकगणेषु जघन्यतः प्रतिपद्यमानेषु पञ्चदशजनानां भावात् । उत्कर्षतः पुरुषप्रमाणं ‘सहशः' सहपृथक्त्वम् ।। अत्रैव विशेषमाह -
[ भा. १४४४ ]
Jain Education International
पडिवजमाणगा वा, एक्कादि हवेज ऊनपक्खेवे ।
For Private & Personal Use Only
www.jainelibrary.org