________________
३७०
बृहत्कल्प-छेदसूत्रम् -१-१/६ प्राप्यते तदा 'गणतः' गणप्रमाणमाश्रित्य त्रय एव गणा जघन्यतः प्रतिपत्तिमङ्गीकृत्य ज्ञातव्याः । उत्कर्षतः 'शतशः'शतप्रथक्त्वसङ्ख्याका गणा अमुंकल्पंयुगपत्प्रतिपद्यन्ते।येतुपूर्वप्रतिपन्नास्ते उत्कर्षतो जघन्यतश्च 'शतश एव' शतपृथक्त्वसङ्ख्याका एव । नवरं जघन्यपदादुत्कृष्टपदमधिकतरम्।। [भा.१४३६] सत्तावीस जहन्ना, सहस्स उक्कोसतो उ पडिवत्ती।
सयसो सहस्ससो वा, पडिवन्ना जहन्न उक्कोसा। कृ-विंशतिपुरुषाजघन्यतोऽस्य कल्पस्य प्रतिपत्तिं कुर्वन्ति, त्रिषुनवकगणेषु, सप्ताविंशतेर्जनानां भावात् । उत्कर्षतः सहपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः 'शतशः' शतपृथक्त्वम्, उत्कर्षतः 'सहशः' सहपृथक्त्वम् ।।पुरुषप्रमाणत एव विशेषमाह[भा.१४३७] पडिवजमाण भइया, इक्को विउ होज्ज ऊनपक्खेवे।
पुवपडिवन्नया वि उ, भइया इक्को पुहुत्तं वा ।। वृ-प्रतिपद्यमानकाःपुरुषाः 'भक्ताः' विकल्पिताः। कथम्? इत्याह-एकोऽपि भवेदूनप्रक्षेपे, अपिशब्दाद् यादयोऽपि । इदमुक्तं भवति-पूर्णायामष्टादशमास्यां यदि केचित् परिहारिकाः कालगता जिनकल्पं वा प्रतिपन्ना गच्छं वा प्रत्यागताः, ये शेषास्ते तमेव परिहारकल्पमनुपालयितुकामाः, ततो यावद्भि प्रविष्टैर्नवको गणः पूर्यते तावन्तोऽपेर प्रवेशनीया इति कृत्वा प्रतिपद्यमानका एक-व्यादिसङ्कयाका अपि भवेयुः । पूर्वप्रतिपन्नका अपि भाज्याः । कथम् ? इत्याह-एकोवाभवेत्पृथक्त्वंवा।इयमत्र भावना-यदि पूर्णेष्वष्टादशसुमासेष्वष्टौपरिहारविशुद्धिकाः कल्पान्तरं प्रतिपद्यन्ते तत एकः पूर्वप्रतिपन्नः; यदा तु केचित् कल्पान्तरं प्रतिपद्यन्ते केचितु
द्व्यादिसङ्ख्याकास्तमेव कल्पमनुपालन्यित तदा पृथक्त्वं पूर्वप्रतिपन्नकानां भवतीति ।। गतं गणनाद्वारम्।शेषद्वाराणितुसण्यपि जिनकल्पतुल्यवक्तव्यान्येवेत्युक्तंशुद्धपरिहारनानात्वम्। सम्प्रति यथालन्दकल्पनानात्वमाह[भा.१४३८] लंदो उ होइ कालो, उक्कोसगलंदचारिणो जम्हा ।
तंचिय मज्झ पमाणं, गणाण उक्कोस पुरिसाणं॥ वृ-लन्दस्तु भवति कालः, लन्दशब्देन काल उच्यते इत्यर्थः । स पुनस्त्रिधा-जघन्य उत्कृष्टो मध्यमश्च । यावता कालेनोदकाः करः शुष्यति तावान् जघन्यः, उत्कृष्टः पञ्च रात्रिन्दिवानि, जघन्यादूर्द्धवमुत्कृष्टादर्वाक् सर्वोऽपि मध्यमः । इह चोत्कृष्टलन्देनाधिकारः । तथा चाह'उत्कृष्टलन्दचारिणः' उत्कृष्ट लन्दं-पञ्चरात्ररूपमेकसयां वीथ्यां चरणशीला यस्मात्, ततोऽमी 'उत्कृष्टलन्दानतिक्रमो यथालन्दम्, तदस्त्येषाम्' इति व्युत्पत्त्या यथालन्दिका उच्यन्ते । तदेव च' लन्दमानं 'मध्यमं त्रिकलक्षणममीषां गणप्रमाणम्, त्रयो गणा अमुंकल्पं प्रतिपद्यन्त इत्यर्थः। 'तदेव च' लन्दमानमुत्कृष्टं पञ्चकात्मकमेकैकस्य गणस्य पुरुषाणां प्रमाणं द्रष्टव्यम्, एकैकस्मिन् गणे पञ्च पञ्च पुरुषा भवन्तीति भावः॥ [भा.१४३९] जच्चेव य जिनकप्पे, मेरा सा चेव लंदियाणं पि।
नाणत्तं पुण सुत्ते, भिक्खायरिमासकप्पे य ।। वृ-यैवच जिनकल्पे मर्यादा' सामाचारी भणितातुलनादिकासैव यथालन्दिकानामपिमन्तव्या। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org