________________
३६९
उद्देशक : १, मूलं-६, [भा. १४३१]
ठियकप्पम्मि उ नियमा, एमेव य दुविह लिंगे वि॥ वृ-क्षेत्रद्वारे पारिहारिका भरतैरावतयोरेव भवन्ति, न विदेहेषु । तत्रापि 'संहरणवर्जिताः' अमीन केनापि देवादिनाऽन्यत्र संहियन्ते । एतेन कालद्वारनानात्वमप्युक्तं मन्तव्यम् । तच्चेदम्काले उत्सर्पिण्यामवसर्पिण्यावा भवेयुः, ननोअवसर्पिण्युत्सर्पिण्यांसुषमसुष्षमादिषुवा प्रतिभागेषु। कल्पद्वारे-नियमादमी स्थितकल्पे भवन्ति, प्रथम-चरमतीर्थकरतीर्थव्यतिरेकेणामीषामभावात्। लिङ्गद्वारे-एवमेव 'द्विविधेऽपि' द्रव्य-भावरूपे लिङ्गे नियमादमी भवन्ति ।
चारित्रद्वारनानात्वमाह[भा.१४३२] तुल्ल जहन्ना ठाणा संजमठाणाण पढम-बितियाणं ।
___ तत्तो असंख लोए, गंतुं परिहारियट्ठाणा ॥ [भा.१४३३] ते असंखा लोगा, अविरुद्धा ते वि पढम-बिइयाणं ।
उवरिं पिततो असंखा, संजमठाणा उ दोण्हं पि॥ वृ-'प्रथम-द्वितीययोः' सामायिक-च्छेदोपस्थापनीयरूपयोः संयमस्थानयोः सम्बन्धीनि यानि जघन्यस्थानानि तानि परस्परं तुल्यानि, विशुद्धिसाम्यात् । ततः' जघन्यसंयमस्थानेभ्यः परतः 'असङ्ख्येयान् लोकान् गत्वा' असङ्खयेयलोकाकाशप्रदेशप्रमाणेषुसंयमस्थानेषु व्यतीतेष्वित्यर्थः परिहारिकस्य-परिहारविशुद्धिकस्य संयमस्थानानि भवन्ति, तान्यपि 'असङ्खयेया लोकाः' असङ्ग्येयलोकाकाशप्रदेशप्रमाणानि । एतानि च 'प्रथम-द्वितीययोरपि' सामायिकछेदोपस्थापनीययोर्विशुद्धिविशेषसाम्यादविरुद्धानि, तयोरपि सम्बन्धीनि भवन्तीत्यर्थः । ततः' परिहारिकसंयमस्थानेभ्य उपर्यपि असङ्ख्येयानि संयमस्थानानि 'द्वयोरपि' सामायिकच्छेदोपस्तापनीययोर्भवन्ति, ततः सामायिक-छेदोपस्थापनीये व्यवच्छिद्यते । ततः परं सूक्ष्मसम्परायस्यान्तर्मुहूर्तसमयप्रमाणान्यसङ्ख्येयानि संयमस्थानानि भवन्ति।ततऊर्ध्वमनन्तगुणमेकं यथाख्यातचारित्रस्य संयमस्थानमिति ॥
अथ प्रकृतयोजनामाह[भा.१४३४] सट्ठाणे पडिवत्ती, अनेसु वि होज पुव्वपडिवनो।
अन्नेसु वि वर्सेतो, तीयनयं वुच्चई पप्प ॥ वृ-'स्वस्थाने' स्वेषु-परिहारविशुद्धिकचारित्रसत्केषु संयमस्थानेषु वर्तमानः परिहारकल्पस्य प्रतिपत्तिं करोति । पूर्वप्रतिपन्नः ‘अन्येष्वपि' सामायिकादिसंयमस्थानेषु स्वसंयमस्थानापेक्षया विशुद्धतरेष्वध्यवसायविशेषाद्भवेत्।तेषुचान्येष्वपिसंयमस्थानेषुव मानोऽसावनुभूतपूर्वपरिहारविशुद्धिकसंयमस्थानत्वाद् अतीतनयम्' अतीतार्थाभ्युपगमपरं व्यवहारनयं प्राप्य' अङ्गीकृत्य परिहारविशुद्धिक इतिप्रोच्यते, निश्चयन्यमङ्गीकृत्य पुनर्नोच्यते, संयमस्थानान्तराध्यासनादिति।। गणनाद्वारे नानात्वमाह[भा.१४३५] गणओ तिनेव गणा, जहन्न पडिवत्ति सयसो उक्कोसा।
उक्कोस-जहन्नेणं, सतसो च्चिय पुव्वपडिवन्ना ।। वृ-इहगणना द्विधा-गणप्रमाणतः पुरुषप्रमाणतश्च। तत्र यदा किलप्रस्तुतकल्पस्य प्रतिपत्तिः [18|24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org