SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३६८ बृहत्कल्प-छेदसूत्रम् -१-१/६ वृषएव “पव्वजा सिक्खावय" इत्यादिकः क्रमः शुद्धपरिहारिके यथालन्दिके चमन्तव्यः। नवरं परिहारकल्पविषयंनानात्वं जिनेभ्यः' जिनकल्पिकेभ्यः सकाशात्, किम्? इत्याह-प्रतिपद्यते "गच्छ गच्छो य" त्ति गच्छद्वयं चशब्दात् तृतीयश्च गच्छ:, त्रयो गच्छा जघन्यतोऽप्यमुं कल्पं प्रतिपद्यन्त इत्यर्थः॥ [भा.१४२६] तवभावननाणत्तं, करंति आयंबिलेण परिकम्मं । इत्तिरिय थेरकप्पे, जिनकप्पे आवकहियाओ। वृ-तपोभावनायां नानात्वं-विशेषः, किम्? इत्याह-कुर्वन्त्यायामाम्लेन ते भगवन्तः परिकर्म' अभ्यासम् ।तेच द्विविधाः-इत्वरा यावत्कथिकाश्च । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते इत्वराः, येतु जिनकल्पं ते यावत्कथिकाः॥ [भा.१४२७] पुने जिनकप्पं वा, अइंति तं चेव वा पुनो कप्पं । गच्छं वा इंति पुनो, तिन्नि विहाणा सिं अविरुद्धा । वृ-'पूर्णे' शुद्धपरिहारकल्पेजिनकल्पंवाआयान्ति, तमेव वापरिहारविशुद्धिकंकल्पंपालयन्ति, गच्छं वा आगच्छन्ति पुनः । एवं त्रीण्यपि 'विधानानि प्रकाराः “सिं" तेषां परिहारविशुद्धिकानामविरुद्धानि ॥ [भा.१४२८] इत्तरियानुवसग्गा, आतंका वेदना य न भवंति । आवकहियाण भइया, तहेव च ग्गामभागाउ॥ वृ- इत्वराणां शुद्धपरिहारकाणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावादेव जीतमेतत् । यावत्कथिकानां तु भाज्या उपसर्गादयः, जिनकल्पस्थितानां तेषां तत्सम्भवात् । यथाच जिनकल्पिकानांषड्ग्रामभागा भिक्षाटनविषया उक्तास्तथैवामीषामपि । एवं सर्वाऽपि सामाचारी तथैव द्रष्टव्या। विशेषः पुनरयम्-नवपुरुषप्रमाणो गणस्तावदमुंकल्पं प्रतिपद्यते, तत्र चत्वारः परिहारिकाः, चत्वारः पुनरनुपरिहारिकाः, एकस्तुतेषांकल्पस्थितः, अनुपरिहारिकाणां कल्पस्थितस्य चैकः सम्भोगः, परिहारिकाणां पृथक् पृथगित्यादिका प्रक्रिया तावन्नेया यावत् षण्मासाः। ततः परिहारिकाअनुपरिहारिकीभवन्ति, अनुपरिहारिकाः परिहारिकत्वंप्रतिपद्यन्ते, कल्पस्थितस्तुप्राक्तन एवेत्येवमपि षण्मासाः। ततः कल्पस्थितोऽपिषण्मासान्यावत्परिहारिकत्वं प्रतिपद्यते, शेषास्तुयथायोगमनुपारिहारिकत्वं कल्पस्थितत्वंचेत्यष्टादशभिर्मासैरयंकल्पः समाप्यत इत्यलं प्रसङ्गेन । एतेषां हि स्वरूपमिहैव षष्ठोद्देशके भाष्यकृतैव न्यक्षेण वक्ष्यते ॥ अमीषामेव स्थितिनानात्वमभिधित्सुः प्राक्तनमेव द्वारगाथाद्वयमाह[भा.१४२९] खेते काल चरित्ते, तित्थे परियाय आगमे वेए। कप्पे लिंगे लेसा, झाणे गणना अभिगहा य॥ [भा.१४३०] पव्वावण मुंडावण, मनसाऽऽवन्ने वि से अनुग्घाया। कारण निप्पडिकम्मा, भत्तं पंथो य तइयाए॥ वृ-अस्य समासार्थो व्यासार्थश्च जिनकल्पिकद्वार इवावगन्तव्यः ।। - यस्तु यत्र विशेषस्तत्र तमुपदर्शयति[भा.१४३१] खेते भरहेरवएसु होति साहरणवजिया नियमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy