________________
३६७
उद्देशक ः १, मूलं-६, [भा. १४२२]
पडिवत्ति सयपुहुत्तं, सहसपुहुत्तं च पडिवन्ने ॥ वृ-धम्येणध्यानेन तुशब्दस्य विशेषणार्थत्वात्प्रवर्द्धमानेनसताकल्पंप्रतिपद्यते।पूर्वप्रतिपन्नस्तु 'इतरेष्वपि' आदिषु ध्यानेषु कर्मवैचित्र्यबलाद् भवेदपि, केलं कुशलपरिणामस्योद्दामत्वात् तीर्वकर्मपरिणतिजनितः सोऽपि रौद्रा-ऽऽर्तभावोऽस्य प्रायो निरनुबन्धो भवति । तदुक्तम्
एवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा।
__ रुद्द-ऽट्टेसु वि भावो, इमस्स पायं निरनुबंधो । गणनाद्वारे-'प्रतिपत्ति'प्रतिपद्यमानतामङ्गीकृत्योत्कर्षतः शतपृथक्त्वमेकस्मिन् समयेऽमीषां भगवतां प्राप्यते । पूर्वप्रतिपन्नकानां पुनरुत्कर्षतः सहपृथक्त्वम्, कर्मभूमिपञ्चदशकेऽप्येतावतामेवोत्कर्षतःप्राप्यमाणत्वात् । जघन्यतस्तुप्रतिपद्यमानकाएको द्वौत्रयो वेत्यादि । पूर्वप्रतिपन्नास्तु जघन्यतोऽपि सहपृथक्त्वमेव, महाविदेहपञ्चके सर्वदैवैतावतामवाप्यमानत्वात् । नवरमुत्कृष्टपदाजघन्यपदं लघुतरमिति १२॥अभिग्रह-प्रव्राजना-मुण्डापनाद्वाराणि व्याचष्टे[भा.१४२३] भिक्खायरियाईया, अभिग्गहा नेव सो उपव्वावे ।
उवदेसं पुण कुणती, धुवपव्वाविं वियाणित्ता ।। वृ-भिक्षाचर्या-ऋज्वी-गत्वाप्रत्यागतिकादये गोचरचर्याविशेषास्तदादयोऽभिग्रहाइत्वरत्वादस्य न भवन्ति, जिनकल्प एव हि यावत्कथिकस्तस्याभिग्रहः, तत्र च प्रतिनियता निरपवादाश्च गोचरादयः, अतस्तपालनमेवास्य परमं विशुद्धिस्थानम् । यदाह
एयम्मि गोयराई, नियया नियमेन निरववादा य।
तप्पालनं चिय परं, एयस्स विसुद्धिठाणंतु॥ तथा नैवासावन्यं प्रव्राजयति, उपलक्षणत्वाद्नच मुण्डापयति, कल्पस्थितिरियमितिकृत्वा उपदेशंपुनः 'करोति' प्रयच्छति 'ध्रुवप्रवाजिनम्' अवश्यप्रव्रजनशीलं विज्ञाय कञ्चन सत्त्वम् । तंचसंविग्नगीतार्थसाधूनांसमीपेप्रहिणोति १४-१५॥अथ "मनसाऽऽवन्ने विसेअनुग्घाय"त्ति द्वारम्-मनसाऽपिसूक्ष्ममतीचारमापन्नस्यास्य सर्वजघन्यं चतुर्गुरुकंप्रायश्चित्तम् १६।अथ कारणनिष्प्रतिकर्मद्वारे आह[भा.१४२४] निप्पडिकम्मसरीरा, न कारणं अस्थि किंचि नाणाई।
जंघाबलम्मि खीणे, अविहरमाणो वि नाऽऽवजे ॥ वृ-निष्प्रतिकर्मशरीरा अमी भगवन्तो नाक्षिमलादिकमप्यपनयन्ति, न वा चिकित्सादिकं कारयन्ति १७।नचतेषां ‘कारणम्' आलम्बनंज्ञानादिकं किञ्चिविद्यतेयबलात्तेद्वितीयपदासेवनं विदध्यु १८ । भक्तं पन्थाश्च तृतीयस्याम्' इति द्वारम्-तृतीयस्यां पौरुष्यां भिक्षकालो विहारकालश्चास्य भवति, शेषासु तु पौरुषीषु प्रायः कायोत्सर्गेणाऽऽस्ते । जङ्घाबले परिक्षीणे पुनः ‘अविहरन्नपि' विहारमकुर्वन्नपि नापद्यते कमपि दोषम्, किन्त्वेकत्रैव क्षेत्रे स्वकल्पस्थितिमनुपालयतीति १९॥व्याख्यातं स्थितिद्वारम् । तद्व्याख्याने चाभिहितो जिनकल्पविहारः । अथ शुद्धपरिहारिक-यथाकलन्दिकविहारविषयविधिमतिदिशन् विशेषं च बिभणिषुराह[भा.१४२५] एसेव कमो नियमा, सुद्धे परिहारिए अहालंदे ।
नाणत्ती य जिनेहिं, पडिवज्जइ गच्छ गच्छो य॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org