________________
३६६
बृहत्कल्प - छेदसूत्रम् - १-१/६
वृ- 'प्रथमेवा' सामायिकाख्ये 'द्वितीये वा' छेदोपस्थापनीयनाम्नि संयमे वर्त्तमानो जिनकल्पं प्रतिपद्यते । तत्र मध्यमतीर्थकर - विदेहतीर्थकृत्तीर्थवर्त्ती प्रथमे संयमे, पूर्व-पश्चिमतीर्थकरतीर्थवर्ती द्वितीये इति मन्तव्यम् । पूर्वप्रतिपन्नः पुनरसौ जिनकल्पिकः 'अन्यतरस्मिन्' सूक्ष्मसम्परायादावपि संयमे उपशमश्रेण्यां वर्त्तमानो भवेत् ३ || तीर्थ-पर्यायद्वारद्वयमाह
[भा. १४१९] नियमा होइ सतित्थे, गिहिपरियाए जहन्न गुणतीसा । जइपरिया वीसा, दोसु वि उक्कोस देसूना ।।
वृ- स जिनकल्पिको नियमात् तीर्थे भवति, न पुनर्व्यवच्छिन्नेऽनुत्पन्ने वा तीर्थे ४ । पर्यायो द्विधा-गृहिपर्यायो यतिपर्यायश्च । तत्र गृहिपर्यायो जन्मपर्याय इत्येकोऽर्थ, तत्र जघन्यत एकोनत्रिंशद् वर्षाणि । यतिपर्याये तु जघन्यतो विंशतिवर्षाणि । उत्कर्षतस्तु 'द्वयोरपि' गृहिपर्याययतिपर्याययोर्देशोनां पूर्वकोटीं यदा प्राप्तो भवति तदा जिनकल्पं प्रतिपद्यते ५ ॥
REISSTH-वेदद्वारे आह
[भा. १४२०] न करिति आगमं ते, इत्थीवज्जो उ वेदो इक्कतरो । पुव्वपडिवन्नओ पुण, होज्ज सवेओ अवेओ वा ।।
वृ- न कुर्वन्ति 'ते' जिनकल्पिकाः 'आगमम्' अपूर्वश्रुताध्ययनम्, पूर्वाधीतं तु श्रुतं विश्रोतसिकाक्षयहेतोरेकाग्रमनाः सम्यगनुस्मरति ६ । वेदमङ्गीकृत्य-प्रतिपत्तिकाले 'स्त्रीवर्ज एकतरः ' पुरुषवेदो नपुंसकवेदो वा असंक्लिष्टस्तस्य भवेत । पूर्वप्रतिपन्नः पुनः सवेदोऽवेदो वा भवेत् । तत्र जिनकल्पिकल्पिकस्य तद्भवे केवलोत्पत्तिप्रतिषेधादुपशमश्रेण्यां वेदे उपशमिते सत्यवेदत्वम्। तदुक्तम्
उवसमसेढीए खलु, वेदे उवसामियम्मि उ अवेदो । नखविए तजम्मे, केवलपडिसेहभावाओ ।।
शेषकालं तु सवेद इति ७ ।। अथ कल्प-लिङ्ग-लेश्याद्वाराण्याह[भा. १४२१] ठियमट्ठियम्मि कप्पे, लिंगे भयणा उ दव्वलिंगेणं । तिहि सुद्धाहि पढमया, अपढमया होज सव्वासु ॥
वृ- स्थितकल्पे - प्रथमा -ऽन्तिमजिनसत्के अस्थितकल्पे च-मध्यमजिन-महाविदेहजिनसत्के अमी भवेयुः ८ । लिङ्गे चिन्त्यमाने भजना तु द्रव्यलिङ्गेन कार्या । तुशब्दो विशेषणे । किं विशिनष्टि ? प्रथमतः प्रतिपद्यमानो द्रव्य-भावलिङ्गयुक्त एव भवति । ऊर्द्धवमपि भावलिङ्गं नियमाद् भवति, द्रव्यलिङ्गं तु जीर्णत्वात् चौरादिभिरपहृतत्वाद्वा कदाचिन्न भवत्यपि । उक्तञ्च
इयरंतु जिन्नभावाइएहि सययं न होइ वि कयाइ ।
न य तेन विना वि तहा, जायइ से भावपरिहाणी ॥
'इतरद्' इति द्रव्यलिङ्गम् ९ । लेश्या अङ्गीकृत्य 'तिसृषु प्रशस्तलेश्यासु' तैजस्यादिकासु ‘प्रथमकाः’ प्रतिपद्यमानका भवन्ति । 'अप्रथमकास्तु' पूर्वप्रतिपन्नाः 'सर्वास्वपि' शुद्धा ऽशुद्धासु लेश्यासु भवेयुः, केवलमशुद्धासु वर्त्तमानो नात्यन्तसंक्लिष्टासु वर्त्तते न च भूयांसं कालमिति
१० ॥ ध्यान- गणनाद्वारद्वयमाह
[भा. १४२२] धम्मेण उ पडिवज्जइ, इअरेसु वि होज इत्थ झाणेसु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org