SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १४१४] ३६५ वृ- कस्मिन् क्षेत्रेऽमी भगवन्तो भवन्ति ? १ एवं काले २ चारित्रे ३ तीर्थे ४ पर्याये ५ आगमे ६ वेदे ७ कल्पे ८ लिङ्गे ९ लेश्यायां १० ध्याने ११ गणनायां १२ अभिग्रहाश्चामीषां भवन्ति न वा ? १३ प्रव्राजनायां १४ मुण्डापनायां च कीध्शी स्थिति १५ मनसा आपन्ने अपराधे “से” तस्य ‘अनुद्धाताः’चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति चतुर्गुरवः प्रायश्चित्तं १६ कारणं १७ निष्प्रतिकर्म १८ भक्तं पन्थाश्च तृतीयस्यां पौरुष्याम् १९ इति द्वारगाथाद्वयसमासार्थः ॥ व्यासार्थं प्रतिद्वारमभिधित्सुः प्रथमतः क्षेत्रद्वारमङ्गीकृत्याह[भा. १४१५ ] जम्मण-संतीभावेसु होज्ज सव्वासु कम्मभूमीसु । साहरणे पुन भइयं, कम्मे व अकम्मभूमे वा ।। । वृ- क्षेत्रविषया द्विधा मार्गणा-जन्मतः सद्भावतश्च । जन्मतो यत्र क्षेत्रेऽयं प्रथमत उत्पद्यते, सद्भावतस्तु यत्र जिनकल्पं प्रतिपद्यते प्रतिपन्नो वाऽस्ति, तत्र जन्म- सद्भावयोरुभयोरप्ययं 'सर्वासु कर्मभूमीषु' भरतपञ्चकैरावतपञ्चक-विदेहपञ्चकलक्षणासु भवेत् । 'संहरणे' देवादिना अन्यत्र नयने पुनः 'भाज्यं' भजनीयम्, कर्मभूमौ वा भवेद् अकर्मभूमौ वा । एतच्च सद्भावमाश्रित्योक्तम् । जन्मतस्तु कर्मभूमावेवायं भवतीति १ ।। उक्तं क्षेत्रद्वारम् । अथ कालद्वारमाह [ भा. १४१६] ओसप्पिणीइ दोसुं, जम्मणतो तीसु संतिभावेणं । उस्सप्पिणिविवरीया, जम्मणतो संतिभावे य ॥ वृ- अवसर्पिण्यां जन्मतः 'द्वयोः' सुषमदुःषमा दुःषमसुषमयोस्तृतीयचतुर्थारकयोर्भवेत्; सद्भावस्तु 'त्रिषु' तृतीय- चतुर्थ- पञ्चमारकेषु, दुःषमसुषमाया अन्ते जातो दुःषमायां जिनकल्पं प्रतिपद्यते इति कृत्वा । उत्सर्पिणी विरीता जन्मतः सद्भावतश्च । इदमुक्तं भवति- उत्सर्पिण्यां दुःषमा-दुःषमसुषमा-सुषमदुःषमासु तिसृषु समासु जन्माऽश्नुते, दुःषमसुषमा- सुषमदुःषमयोस्तु द्वयोरमुं कल्पं प्रतिपद्यते, दुःषमायां तीर्थं नास्तीति कृत्वा तस्यां जातस्यापि दुःषसुषमायामेव कल्पप्रतिपत्तिरिति ॥ [ भा. १४१७] नोसप्पिणिउस्सप्पे, भवंति पलिभागतो चउत्थम्मि । काले पलिभागेसु य, साहरणे होंति सव्वेसु ।। वृ- नोअवसर्पिण्युत्सर्पिणीरूपे अवस्थितकाले चत्वारः प्रतिभागाः, तद्यथा- सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुः षमाप्रतिभागः दुषमसुषमाप्रतिभागश्चेति । तत्राद्यो देवकुरुत्रकुरुषु, द्वितीयो हरिवर्ष रम्यकवर्यो, तृतीयौ हैमवतैरण्यवतयोः, चतुर्थस्तु महाविदेहेषु । तत्र चतुर्थे प्रतिभागे जन्मत सद्भावतश्चामी भवन्ति, नाद्येषु त्रिषु प्रतिभागेषु । “काले” त्ति यो महाविदेहजो जिनकल्पिकः स सुषमसुषमादिषु षट्स्वपि कालेषु संहरणतो भवेत् । "पलिभागेसु अ"त्ति भरतैरावत-महाविदेहेषु सम्भूताः संहरणतः सर्वेष्वपि प्रतिभागेषु देवकुर्वादिसम्बन्धिषु सम्भवन्तीति २ ॥ चारित्रद्वारमाह [ भा. १४१८ ] पढम वा बीये वा, पडिवज्जइ संजमम्मि जिनकप्पं । पुव्वपडिवन्नओ पुन, अन्नयरे संजमे होज्जा ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy