SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३५२ मुहुत्तेहि पोरिसीओ, जाणेइ निसा य दिवसा य ॥ वृ- श्रुतपरावर्त्तनानुसारेणैव सम्यगुच्छ्वासमानं कलयति, तत उच्छ्वासात् 'प्राणः ' उच्छ्वासनिश्वासात्मकः, ततस्च प्राणात् 'स्तोकः' सप्तप्राणमानः, ततोऽपि च स्तोकाद् 'मुहूर्त' घटिकाद्वयमानः, मुहूर्तैश्च पौरुष्यस्तेन भगवता ज्ञायन्ते, ताभिश्च पौरुषीभिर्निशाश्च दिवसांश्च जानाति ॥ तथा [भा. १३४२ ] मेहाईछन्ने सुवि, उभओकालमहवा उवसग्गे । हाइ भिक्ख पंथे, नाहिइ कालं विना छायं ॥ वृ-मेघादिना च्छन्नेष्वपि - अनुपलक्ष्येषु विभागेषु 'उभयकालं क्रियाणां प्रारम्भ-परिसमाप्तिरूपम्, अथवा 'उपसर्गे' दिव्यादी दिवस - रजन्यादिव्यत्ययकरणलक्षणे प्रेक्षादेः- उपकरणप्रत्युपेक्षाया आदिशब्दादावश्यकरणादेः “भिक्ख"त्ति भिक्षायाः “पंथि” त्ति मार्गस्य विहारस्येत्यर्थः, एतेषां सर्वेषामपि यः कालस्तं छायां विना स्वयमेव ज्ञास्यति ।। अथ सूत्रभावनाया एव गुणानाह[भा. १३४३ ] एगग्गया सुमह निज्जरा य नेव भिननम्मि पलिमंथो । न पराहीणं नाणं, काले जह मंसचक्खणं ॥ वृ- श्रुतपरावर्त्तनया चित्तस्येकाग्रता भवति, सुमहती च निर्जरा भवति स्वाध्यायविधानप्रत्यया, नैवच्छायामापने ‘पलिमन्थः’ सूत्रार्थव्याघातलक्षणः, नच 'काले' पौरुष्यादिकालविषयं 'पराधीनं' सूर्यच्छायायत्तं ज्ञानम् यथा अन्येषां 'मांसचक्षुषां' छद्मस्थानां साधूनाम् ।। उपसंहरन्नाह[भा. १३४४ ] सुयभावनाए नाणं, दंसण तवसंजमं च परिणमइ । तो उवओगपरिनो, सुयमव्वहितो समाणेइ ॥ वृ- श्रुतभावनया आत्मानं भावयन् ज्ञानं दर्शनं तपः प्रधानं च संयमं सम्यक् परिणमयति । ततः 'उपयोगपरिज्ञः श्रुतोपयोगमात्रेणैव कालपरिज्ञाता “सुतं" ति श्रुतभावनामव्यथितः सन् समापयतीति ।। गता सूत्रभावना । अथैकत्वभावनामाह बृहत्कल्प-छेदसूत्रम् - १-१/६ " [भा. १३४७] [भा. १३४५ ] जइ वि य पुव्वममत्तं, छिन्नं साहूहि दारमाईसु । आयरियाइममत्तं, तहा वि संजायए पच्छा ।। वृ-यद्यपि च पूर्वं-गृहवासकालभावि ममत्वं साधुभि दाराः कलत्रं तेषु आदिग्रहणांत् पुत्रादिषु च्छिन्नमेव तथाप्याचार्यादिविषयं ममत्वं 'पश्चात् ' प्रव्रज्यापर्यायकाले सञ्जायते ॥ तच्च कथं परिहापयितव्यम् ? उच्यते [ भा. १३४६] दिट्ठिनिवायाऽऽलावे, अवरोप्परकारियं सपडिपुच्छं ॥ परिहास मिहो य कहा, पुव्वपवत्ता परिहवेइ ॥ वृ- गुर्वादिषु ये पूर्वं दृष्टिनिपाताः सन्निग्धावलोकनानि ये च तैः सहाऽऽलापास्तान्, तथा 'परस्परोपकारितां' मिथो भक्त - पानदान ग्रहणाद्युपकारम्, 'सप्रतिपृच्छं' सूत्रार्थादिप्रतिपृच्छया सहितं ‘परिहासं’ हास्यं ‘मिथः कथाश्च' परस्परवार्त्ताः पूर्वप्रवृत्ताः सर्वा अपि परिहापयति । ततश्च Jain Education International तनुईकयम्मि पुव्वं, बाहिरपेम्मे सहायमाईसु । आहारे उवहिम्मिय, देहे य न सज्जए पच्छा ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy