________________
उद्देशक : १, मूलं-६, [भा. १३३४]
३५१
प्रहरेषु 'सुप्तव्यं' शयनम्, कारणाभावे तु यत् तृतीयप्रहरे सुप्तव्यं तत् सर्वमपि स्तोकं स्तोकं जयति शनैः शनैरित्यर्थः, ‘भयं च ' मूषिकादिजनितं यद् 'यत्र' उपाश्रयादिषु सम्भवति तत् तत्र जयति । अत्र च सत्त्वभावनायां पञ्च प्रतिमा भवन्ति । ता एवाह
[भा. १३३५ ] पढमा उवस्सयम्मी, विइया बाहि तइया चउक्क म्मि । सुन्नधरम्मि चउत्थी, तह पंचमिया सुसाणम्मि ॥
वृ- प्रथमा प्रतिमा उपाश्रये १ द्वितीया उपाश्रयाद् बहि २ तृतीया 'चतुष्के' चत्वरे ३ चतुर्थी शून्यगृहे ४ पञ्चमी श्मशाने ५ ।। तत्र प्रथमां तावदाह
[भा. १३३६ ]
भोगजढे गंभीरे, उव्वरए कोट्ठए अलिंद वा ।
तनुसाइ जागरो वा, झाणट्ठाए भयं जिणइ ॥
वृ-"
-"भोगजढे" अपरिभोग्ये 'गम्भीरे' सान्धकारे उपाश्रयसत्केऽपवरके वा कोष्ठके वा अलिन्दके वा 'तनुशायी' स्तोकनिद्रावान् 'जाग्रद् वा' निद्रामकुर्वन् 'ध्यानार्थं' शुभाध्यवसायस्थैर्यहेतोः प्रसुप्तेषु शेषसाधुषु कायोत्सर्गस्थितो भयं जयति ॥ कथम् ? इत्याह
[भा. १३३७] छिक्कस्स व खइयस्स व, मूसिगमाईहि वा निसिचरेहिं । जह सहसा न वि जायइ, रोमंचुब्भेय चाडो वा ॥
वृ- स्पृष्टस्य वा खादितस्य वा मूषकैः आदिग्रहणाद् मार्जारादिभिः 'निशाचरैः' रात्रिपरिभ्रमणशीलैः यथा सहसा नापि जायते 'रोमाञ्च भेदः ' भयोद्रेकजिनितो रोमोद्धर्ष 'चाडो' वा पलायनं तथा सत्त्वभावनयाऽऽत्मा भावयितव्यः ॥
उक्ता प्रथमा प्रतिमा । अथ द्वितीयादिकाश्चतोऽप्यतिदिशन्नाह
[भा. १३३८] सविसेसतरा बाहिं, तक्कर - आरक्खि- सावयाईया । सुन्नघर-सुसाणेसु य, सविसेसतरा भवे तिविहा ।।
वृ- यान्युपाश्रयप्रतिमायां भयान्युक्तानि तान्युपाश्रयाद् बहि प्रतिमायां सविशेषतराणि तस्कराऽऽरक्षिक-श्वापदादिभयसहितानि मन्तव्यानि । शून्यगृह- श्मशानयोः चशब्दात् चतुष्के च सविशेषतराणि 'त्रिविधानि दिव्य - मानुष्य-तैरश्चोपसर्गरूपाणि भयानि भवन्ति, तान्यपि सम्यग् जयतीति प्रक्रमः ॥ अस्या एव भावनायाः फलमाह
[भा. १३३९] देवेहि भेसिओ वि य, दिया व रातो व भीमरूवेहिं । तो सत्तभावना, वहइ भरं निब्भओ सयलं ॥
वृ- तत एवं सत्त्वभावनया स्वभ्यस्तया दिवा वा रात्रौ वा भीमरूपैर्देर्भेषितोऽपि 'भरं ' जिनकल्पभारं सकलमपि निर्भयः सन् वहतीति । गता सत्त्वभावना । अथ सूत्रभावनामाह[भा. १३४०] जइ वि य सनाममिव परिचियं सुअं अणहिय- अहीणवन्नाई । कालपरिमाणहेउं, तहा वि खलु तज्जयं कुणइ ।।
वृ-यद्यपि स्वनामेव तस्य श्रुतं परिचितम् 'अनधिकाऽहीनवर्णादि' अनत्यक्षरं अहीनाक्षरम् आदिशब्दाद् अवायविद्धाक्षरादिगुणोपेतं च तथापि कालपरिमाणहेतोः 'तज्जयं' श्रुताभ्यासं करोति ।। कथम् ? इति चेद् उच्यते
[भा. १३४१] उस्सासाओ पाणू, तओ य थोवो तओ वि य मुहुत्तो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org