________________
३५०
बृहत्कल्प-छेदसूत्रम् - १-१/६
वृ- यद् येन पौरुष्यादिकं तपः 'अनभ्यस्तं' सात्मीभावमनानीतं तत् 'त्रिगुणं' त्रीन् वारान् करोति । यथा-प्रथमं पौरुषीं वारत्रयासेवनेन सात्मी भावमानीय ततः पूर्वार्द्ध तथैवासेव्य सात्मीभावमानयति; एवं निर्विकृतिकादिष्वपि द्रष्टव्यम् । किमर्थम् ? इत्याह- क्षुद्विजयार्थम्, यथा क्षुत्परीषहसहने सात्म्यं भवतीत्यर्थः । अत्र च गिरिनदीसिंहेन दृष्टान्तः यथाऽसौ पूर्णां गिरिनदीं तरन् परतटे चिह्नं करोति, यथा-अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति, स च तरन् तीक्ष्मेनोदकवेगेनापह्रियते ततो व्यावृत्य भूयः प्रगुणमेवोत्तरति, यदि हियते ततो भूयस्तथैवोत्तरति, एवं यावत् सकलामपि गिरिनदीं प्रगुणमेवोत्तरीतुं न शक्नोति तावत् तदुत्तरणाभ्यासं न मुञ्चति । एवमयमपि यावद् विवक्षितं तपः सात्मीभावं न याति तावत् तदभ्यासं न मुञ्चति । एतदेवाह[भा. १३३०] एक्क्कं ताव तवं, करेइ जह तेन कीरमाणेणं । हानी न होइ जइआ, वि होज्ज छम्मासुवस्सग्गो ॥
वृ- एकैकं तपस्तावत् करोति यथा 'तेन' तपसा क्रियमाणेनापि विहितानुष्ठानस्य हानिर्न भवति । यदाऽपि कथञ्चिद् भवेत् षण्मासान् यावद् 'उपसर्गः' देवादिकृतोऽनेषणीयकरणादिरूपस्तदाऽपि षण्मासान् यावदुषित आस्ते न पुनरनेषणीयमाहारं गृह्णाति ।। तपस एव गुणान्तरमाह
[भा. १३३१]
अप्पाहारस्स न इंदियाइँ विसएसु संपवत्तंति । नेव किलम्मइ तवसा, रसिएसु न सज्जए यावि ।।
वृ-तपसा क्रियमाणेनाल्पाहारस्य सतो नेन्द्रियाणि 'विषयेषु' स्पर्शादिषु सम्प्रवर्तन्ते, न च 'क्लाम्यति' बाधामनुभवति तपसा, नैवच 'रसिकेषु' स्निग्ध-मधरेष्वशनादिषु 'सजति' सङ्गंकरोति, तेषु परिभोगाभावेनादराभावात् ।। अपि च
[ भा. १३३२] तवभावणाइ पंचिंदियाणि दंताणि जस्स वसमिति । इंदियजोग्गा (गा) यरिओ, समाहिकरणाइँ कारयए ।।
वृ-तपोभावनया हेतुभूतया 'पञ्च' इति पञ्चसङ्ख्याकानीन्द्रियाणि दान्तानि सन्ति यस्य 'वशम्' आयत्ततामागच्छन्ति सः 'इन्द्रिययोग्या (गा) चार्य' इन्द्रियप्रगुणनक्रियागुरु 'समाधिकरणानि ' समाधिव्यापारान् काश्यति इन्द्रियाणि यथा यथा ज्ञानादिषु समाधिरुत्पद्यते तथा तथा तानि कारयतीत्यर्थः । उक्ता तपोभावना । अथ सत्त्वभावनामाह
[भा. १३३३] जे वि य पुव्विं निसि निग्गमेसु विसहिंसु विसहिंसु साहस भयाई । अहि-तक्कर- गोवाई, विसिंसु घोरे य संगामे ॥
वृ-येऽपि च राजप्रव्रजितादयः पूर्वं गृहवासे 'निशि' रात्रौ वीरचर्यादिना निर्गमेषु साध्वसम्अहतुकभयरूपं भयं सहेतुकं ते अहि-तस्कर - गोपादिसम्बन्धिनी 'व्यषहन्' विषोढवन्तः, घोरे च सङ्ग्रामे सात्त्विकतया “विसिंसु"त्ति प्राविशन् तेऽपि जिनकल्पं प्रतिपित्सवः सत्त्वभावनामवश्यं भावयन्ति ।। कथम् ? इति चेद् उच्यते
[भा. १३३४]
पासुत्ताण तुयट्टं, सोयव्वं जं च तीसु जामेसु । थोवं थोवं जिणइ उ, भयं च जं संभवइ जत्थ ॥
वृ- यत् स्थविरकल्पिकानां पार्श्वत उत्तानकं वा तुवग्वर्त्तनम्, यच्च कारणे त्रिषु 'यामेषु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org