________________
उद्देश : १, मूलं- ६, [भा. १३२३]
३४९
दुर्विदग्धः, ‘समुत्थितः’उद्यतः 'तस्य' पारमार्थिकमार्गस्य 'घाताय ' निर्लोठनायेति, एषा मार्गदूषणा ।। मार्गविप्रतिपत्तिमाह
[भा. १३२४] जो न तमेव मग्गं, दूसेउमपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ, अकोविअप्पा जमालीव ॥
कृ-यः पुनः 'तमेव' परमार्थिकं मार्गमसद्भिर्दूषयित्वा 'अपण्डितः' सद्बुद्धिरहितः सन् ‘'स्वतर्कया' स्वकीयमिथ्याविकल्पेन देशत उन्मार्गं प्रतिपद्यते 'अकोविदात्मा' सम्यक् शास्त्रार्थपरिज्ञानविकलो जमालिवत्, यथाऽसौ भगवद्वचनं क्रियमाणं कृतम्” इति दूषयित्वा “कृतमेव कृतम्” इति प्रतिपन्नवान् । एषा मार्गविप्रतिपत्तिः ॥ अथ मोहद्वारमाह
[भा. १३२५]
भावोवहयमईओ, मुज्झइ नाण-चरणंतराईसु । इडीओ अ बहुविहा, दहूं परतित्थियाणं तु ।।
वृ-भावेन शङ्कादिपरिणामेनोपहता- दूषिता मतिर्यस्य स भावोपहतमतिकः एवंविधः 'मुह्यति' वैचित्यमुपयाति ज्ञान- चरणान्तरादिषु । ज्ञानान्तराणि नाम ज्ञानविशेषाः, तद्विषयो व्यामोहो यथा-यदि नाम परमाण्वादिसकलरूपिद्रव्यावसानविषयग्राहकत्वेन सङ्ख्यातीतरूपाण्यवधिज्ञानानि सन्ति त्त किमपरेण मनः पर्यवज्ञानेन ? इति । चरणान्तरव्यामोहो यथा-यदि सामायिकं सर्वसावद्यविरतिरूपं छेदोपस्थापनीयमप्येवंविधमेव तत् क नामानयोर्विशेषः ? आदिशब्दाद् दर्शनान्तर-मतान्तर-वाचनान्तरादिपरिग्रहः । 'ऋद्धीश्च बहुविधाः' अनेकप्रकाराः समृद्धीः परतीर्थिकानां दृष्ट्वा यद् मुह्यति स मोह उच्यते ॥ अथ परं मोहयित्वेति व्याचष्टे -
भ. (१३२६ ] जो पुन मोहेइ परं, सब्भावेणं व कइअवेणं वा । सम्मोहभावणं सो, पकरेइ अबोहिलाभाय ॥
वृ- पुनः शब्दो विशेषणे, यः पुः सन्मार्गात् 'परम्' अन्यं प्राणिन 'मोहयति' चित्तविभ्रमं नयति 'सद्भावेन वा' सत्येनैव 'कैतवेन वा' परिकल्पनयास सम्भोहभावनां प्रकरोति, 'अबोधिलाभाय ' अबोधिफलादायिनीमित्यर्थः । उक्ता साम्मोही भावन । अताऽऽसां भावनानां सामान्यतः
फलमाह
एआओ भावनाओ, भावित्ता देवदुग्गइं जंति । तत्तो वि चुया संता, परिंति भवसागरमनंतं ।।
वृ- एता भावनाः 'भावयित्वा' अभ्यस्य 'देवदुर्गतिं' कान्दर्पिकादिदेवगतिरूपां यान्ति संयता अपि । 'ततोऽपि' देवदुर्गतेश्व्युताः सन्तः पर्यटन्ति 'भसागरं' संसारसमुद्रमनन्तमिति ॥ उक्ता अप्रशस्ता भावनाः । सम्प्रति प्रशस्तभावना अभिधित्सुराह
[भा. १३२८]
[भा. १३२७]
वेण सत्तेण सुत्ते, गत्तेण बलेण य ।
तुलना पंचहा वुत्ता, जिनकप्पं पडिवज्जओ ॥
तपसा सत्त्वेन सूत्रेण एकत्वेन बलेन च एवं 'तुलना' भावना पञ्चधा प्रोक्ता जिनकल्पं प्रतिपद्यमानस्येति निर्युक्तिगाथासमासार्थः ॥ अथ विस्तरार्थमभिधित्सुराहजो जे अणब्भत्थो, पोरिसिमाई तवो उतं तिगुणं । कुणइ छुहाविजयट्ठा, गिरिनइसीहेण दिट्टंतो ॥
[भा. १३२९]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org