SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ बृहत्कल्प-छेदसूत्रम् -१-१/६ अभिमानाभिनिवेसा, वागरियं आसुरं कुणइ ॥ वृ- 'त्रिविधम्' अतीतादिकालत्रयविषयं यत् पूर्वमिहैवाभियोगिकभावनायां वर्णितं तद् एकैकं 'षड्विधं' लाभा-ऽलाभ - सुख-दुःख- जीवित-मरणविषयभेदात् षटप्रकारम् । आह आभियोगिकभवनानिबन्धनतया पूर्वमिदमुक्तम् अतः कथमिदमिहाभिधीयते ? इत्याह- 'अभिमानाभिनिवेशाद्' अहङ्कारतीव्रतया ‘व्याकृतं' प्रकटितमेतद् निमित्तमासुरीं भावनां करोति, अन्यथा त्वाभियोगिकीमिति ॥ निष्कृपमाह [भा. १३१९] चंकमणाई सत्तोस सुनिक्किवो थावराइसत्तेसु । काउं च नाणुतप्पइ, एरिसओ निक्कि वो होइ ॥ वृ-स्थावरादिसत्त्वेषु चङ्कमणं - गमनं आदिशब्दात् स्थान शयना-ऽऽसनादिकं 'सक्तः ' क्वचित् कार्यान्तरे व्यासक्तः सन् 'सुनिष्कृपः ' सुष्ठुगतघृणो निशूकः करोतिती शेषः । कृत्वा च तेषु चङ्क्रमणादिकं नानुतप्यते, केनचिद् नोदितः सन् पश्चात्तपपुरस्सरं मिथ्यादुष्कृतं न ददातीत्यर्थः । ईशो निष्कृपो भवति, इदं निष्कृपस्य लक्षणमिति भावः ।। निरनुकम्पमाह[भा. १३२० ] जो उपरं कंपतं, दद्दूण न कंपए कढिनभावो । सोउ निरनुकंप, अणु पच्छाभावजोएणं ॥ वृ- यस्तु 'परं' कृपास्पदं कुतश्चिद् भयात् कम्पमानमपिदृष्ट्वा कठिनभावः सन् न कम्पते एष निरनुकम्पः । कुतः ? इत्याह- अनुशब्देन पश्चाद्भाववाचकेन यो योगः समबन्धस्तेन, किमुक्तं भवति ? -अनु-पश्चाद् दुःखितसत्त्वकम्पनादनन्तरं यत् कम्पनं सा अनुकम्पा, निर्गता अनुकम्पा अस्मादिति निरनुकम्प उच्यते ॥ उक्ता आसुरी भावना । सम्प्रति साम्मोहीमाह [भा. १३२१] उम्मग्गदेसणा १ मग्गदूसणा २ मग्गविप्पडीवत्ती ३ । मोहेण य ४ मोहित्ता ५, सम्मोहं भावनं कुणइ ॥ वृ- उन्मार्गदेशना १ मार्गदूषणा २ मार्गविप्रतिपत्तिश्च ३ यस्य भवतीति वाक्यशेषः, मोहेन च यः स्वयं मुह्यति ४, एवं कृत्वा परं च मोहयित्वा ५ साम्मोहीं भावनां करोतीति निर्युक्तिगाथासमासार्थः ॥ अथैनामेव विवरीषुराह [ भा. १३२२ ] नाणाइ अदूसिंतो, तव्विवरीयं तु उवदिसइ मग्गं । उम्मग्गदेसओ एस आय अहिओ परेसिं च ।। - 'ज्ञानादीनि' पारमार्थिकमार्गरूपाण्यदूषयन् 'तद्विपरीतं' ज्ञानादिविपरीतमेवोपदिशति 'मार्गं' धर्मसम्बन्धिनम्, एष उन्मार्गदेशकः । अयं चात्मनः परेषां च बोधिबीजोपघातादिना ‘अहितः' प्रतिकूल इत्येषा उन्मार्गदशना ।। अथ मार्गदूषणामाह [भा. १३२३] नाणादि तिहा मग्गं, दूसयए जे य मग्गपडिवन्ना । अबुहो पंडियमाणी, समुट्ठितो तस्स घायाए ॥ वृ- ज्ञानादिकं ‘त्रिधा’ त्रिविधं पारमार्थिकं मार्गं स्वमनीषिकाकल्पितैर्जातिदूषणैर्दूषयति, ये च तस्मिन् मार्गेप्रतिपन्नाः साध्वादयस्तानपि दूषयति, 'अबुधः' तत्त्वपरिज्ञानविकलः, 'पण्डितमानी' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy