________________
३४७
उद्देशक ः १, मूलं-६, [भा. १३१२]
वृ-यत्स्वप्नेऽवतीर्णया विद्यया-विद्याधिष्ठात्र्या देवतया शिष्टं-कथितंसद् 'अन्यस्मै पृच्छकाय कथयति; अथवा “आइंखिणिया" डोम्बी तस्याः कुलदैवतं घण्टिकयक्षो नाम स पृष्टः सन् कर्णे कथयति, सा च तेन शिष्टं-कथितं सदन्यस्मै पृच्छकाय शुभा-ऽशुभादि यत् परिकथयति एष प्रश्नप्रश्नः ॥ निमित्तमाह[भा.१३१३] तिविहं होइ निमित्तं,तीय-पडुप्पन्न-ऽनागयं चेव ।
- तेन न विना उ नेयं, नज्जइ तेनं निमित्तं तु॥ कृत्रिविधंभवतिनिमित्तम्।तद्यथा-अतीतंप्रत्युत्पन्नमनागतंच। कालत्रयवर्तिलाभाऽलाभादिपरिज्ञानहेतुश्चूडामणिप्रभृतिकःशास्त्रविशेष इत्यर्थः । कुतः? इत्याह-'तेन' विवक्षितशास्त्रविशेषेण विना ‘ज्ञेयं लाभा-ऽलाभादिकंन ज्ञायत इति लाभा-ऽलाभादिज्ञाननिमित्तत्वाद् निमित्तमुच्यते। एतानि कौतुकादीनि यआजीवति स तत्तदाजीवको मन्तव्य इति॥अथ ऋद्धि-रस-सातगुरुकः' इतिपदव्याख्यानार्थमाह[भा.१३१४] एयाणि गारवट्ठा, गुणमाणो आभिओगियं बंधे ।
बीयं गारवरहिओ, कुव्वं आराहगुच्चं च ॥ ‘एतानि' कौतुकादीनि ऋद्धि-रससातगौरवार्थं 'कुर्वाणः' प्रयुञ्जानः सन् ‘आभियोगिकं' देवादिप्रेष्यकर्मव्यापारफलं कर्म बध्नाति । 'द्वितीयम्' अपवादपदमत्र भवति-गौरवरहितः सन्नतिशयज्ञाने सति निस्पृहवृत्त्या प्रवचनप्रभावनार्थमेतानि कौतुकादीनि कुर्वन्नाराधको भवति उच्चैर्गोत्रंच कर्मबघ्नाति, तीर्थोन्नतिकरणादिति ॥गता आभियोगिकी भावना ।अथाऽऽसुरीमाह[भा.१३१५] अनुबद्धविग्गहो चिय, संसत्ततवो निमित्तमाएसी।
निक्किव निरानुकंपो, आसुरियं भावनं कुणइ॥ वृ-अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपोनिरनुकम्पः सन्आसुरीं भावनांकरोतीति नियुक्तिगाथासमासार्थः ।। विस्तरार्थमाह[भा.१३१६] निच्चं वुग्गहसीलो, काऊण य नाणुतप्पए पच्छा।
नय खामिओ पसीयइ, सपक्ख-परपक्खओ आवि ।। वृ-'नित्यं सततं 'विग्रहशीलः' कलहकरणस्वभावः । कृत्वा च कलहं नानुतप्यते पश्चात्, यथा-हा ! किं कृतं मया पापेन ? इति । तथा क्षामितोऽपि' 'क्षम्यता ममायमपराधः' इति भणितोऽपिस्वपक्ष-परपक्षयोरपि 'न च' नैव 'प्रसीदति' प्रसन्नतां भजतेतीव्रकषायोदयत्वात्। अत्रच स्वपक्षः साधु-साध्वीवर्ग, परपक्षोगृहस्थवर्गः। एषोऽनुबद्धविग्रह उच्यते॥अथसंसक्ततपसमाह[भा.१३१७] आहार-उवहि-पूयासु जस्स भावो उ निच्चसंसत्तो ।
भावोवहतो कुणइअ, तवोवहाणं तदट्ठाए। वृ-आहारोपधि-पूजासु यस्य ‘भावः' परिणामः 'नित्यसंसक्तः' सदाप्रतिबद्धः स एवं रसगौरवादिना भावेनोपहतः करोति 'तपउपधानम्' अनशनादिकं तदर्थम्' आहाराद्यर्थं यः संसक्ततपा इति ॥ निमित्तादेशिनमाह[भा.१३१८] तिविह निमित्तं एक्कक्क छव्विहं जं तु वन्नियं पुचि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org