________________
३४६
बृहत्कल्प - छेदसूत्रम् - १-१/६
वृ- 'गूहति' संवृणोति 'आत्मस्वभावम्' आत्मनः सम्बन्धिनं दुष्टपरिणामं बहिर्बकवृत्या, तथा परस्य सम्बन्धिनः 'गुणान्' ज्ञानादीन् सतोऽप्यभिनिवेशादिना घातयति, चौर इव 'सर्वशङ्की' प्रच्छन्नपापकारितया 'अमुकोऽमुकश्च मत्समक्षमित्थं भणिष्यति' इति सर्वस्यापि शङ्कां करोति, गूढः -मायाग्रन्थिगुपिल आचारः प्रवृत्तिर्यस्य स गूढाचारः, 'वितथभाषी' मृषाभाषणशीलः, एष मायी द्रष्टव्य इति । उक्ता कैल्विषी भावना । अथाभियोगीमाह
[ भा. १३०८] कोउअ भूई पसिणे, पसिणापसिणे निमित्तमाजीवी । इड्डि-रस- सायगुरुतो, अभिओगं भावनं कुणइ ।।
वृ-ऋद्धि-रस- सातगुरुकः सन् यः कौतुकाजीवी भूतिकर्माजीवी प्रश्नाजीवी प्रश्नप्रश्नाजीवी निमित्ताजीवी च भवति स एवंविध आभियोगीं भावनां करोतीति ॥
कौतुकादिपदव्याख्यानार्थमाह
[भा. १३०९] विण्हवण- होम - सिरपरिरयाइ खारदहणाइँ धूवे य । असरिसवेसग्गहणं, अवयासण- उत्थुभण-बंधा ।।
वृ- बालादीनां रक्षादिनिमित्तं स्त्रिया वा सौभाग्यादिसम्पादनाय विशेषेण स्नपनं तद् विस्नपनम्, होम ः- शान्तिकादिहेतोरग्निहवनम्, सिरः परिरयः करभ्रमणाभिमन्त्रणम्, आदिशब्दः स्वगतानेकभेदसूचकः, 'क्षारदहनानि तथाविधव्याधिशमनायाग्नौ लवणप्रक्षेपरूपाणि, “धूवे अ "त्ति तथाविधद्रव्ययोगगर्भस्य धूपस्य सप्तर्पणम्, 'असद्दशवेषग्रहणं' नाम स्वयमार्य सन्ननार्यवेषं करोति पुरुषो वा स्वं रूपमन्तर्हित्य स्त्रीवेषं विदधातीत्यादि, “अवयासणं" वृक्षादीनामालिङ्गापनम्, अवस्तोभनम् - अनिष्टोपशान्तये निष्ठीवनेन थुथुकरणम्, बन्धः कण्डकादिबन्धनम् एतत् सर्वमपि कौतुकमुच्यते ॥ अथ भूतिकर्म व्याचष्टे
[भा. १३१०]
भूई मट्टियाएव, सुत्ते व होइ भूइकम्मं तु । वसही-सरीर-भंडगरक्खाअभियोगमाईया ||
वृ- 'भूत्या' भस्मरूपया विद्याभिमन्त्रितया 'मृदा वा', आर्द्रपांशुलक्षणया 'सूत्रेण वा' तन्तुना यत् परिरयवेष्टनं तद् भूतिकर्मोच्यते । किमर्थमेवं करोति ? इत्याह- वसति शरीर- भाण्डकानां या स्तेनाद्युपद्रवेभ्यो रक्षा तन्निमित्तमभियोगः- वशीकरणम्, आदिशब्दाद् ज्वरादिस्तम्भनपरिग्रहः ।।
अथ प्रश्नमाह
[ भा. १३११] पण्हो उ होइ पसिणं, जं पासइ वा सयं तु तं पसिणं । अंगुचि-पडे, दप्पण- असि-तोय- कुड्डाई ॥
वृ- 'प्रश्नस्तु' देवतादिपृच्छारूपः पसिणं भण्यते; यद्वा यत् 'स्वयम्' आत्मना तुशब्दादन्येऽपि तत्रस्थाः पश्यन्ति तत् पसिणं प्राकृतशैल्याऽभिधीयते । किं तत् ? इत्याह-अङ्गुष्ठे “उच्चिट्ठ” त्ति कंसारादिभक्षणेनोच्छिष्टे पटे-प्रतीते दर्पणे-आदर्शे असौ खङ्गे तोये उदके कुड्ये भित्ती आदिशब्दाद् बाह्वादौ वा यद् देवतादिकमवतीर्णं पृच्छति पश्यति वा स प्रश्नः । यदि वा “कुद्धाइ "त्ति पाठः, तत्र च क्रुद्धः प्रशान्तो वा यत् तथाविधकल्पविशेषात् पश्यति स प्रश्न इति ॥ प्रश्नप्रश्नमाह[भा. १३१२] पसिणापसिणं सुमिणे, विज्जासिद्धं कहेइ अन्नस्स । अहवा आइंखिणिया, घंटियसिहं परिकहेइ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org