SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ३४३ उद्देशक ः १, मूलं-६, [भा. १२९४] वृ- यः ‘संयतोऽपि' व्यवहारतः साधुरप्येताभिरप्रशस्ताभिर्भावनाभिः, गाथायां तृतीयार्थे सप्तमी, 'भावनम्' आत्मनो वासनं करोतिसः ‘तद्विधेषु तादृशेषुकान्दर्पिकादिषु सुरेषु गच्छति। यस्तु ‘चरणरहितः' सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा सः ‘भाज्यः' तद्विधेषु वा देवेषूत्पद्यते नरक-तिर्यङ्-मनुष्येषु वा ।। अथासामेव प्ररूपणां चिकीर्षु प्रथमतः कन्दर्पभावनां प्ररूपयति- [भा.१२९५] कंदप्पे कुक्कुइए,दवसीले यावि हासणकरे य । विम्हावितोय परं, कंदप्पंभावनं कुणइ॥ कृ-इह कन्दर्पशब्देन कन्दर्पवानुच्यते, एवं कौत्कुच्यवान्द्रवशीलश्चापिहासनकरश्चविस्मापर्यंश्च परं कान्दी भावनां करोतीति सङ्ग्रहगाथासमासार्थः ॥अथ विस्तरार्थमाह[भा.१२९६] कहकहकहस्स हसणं, कंदप्पो अनिहुया य संलावा। कंदप्पकहाकहणं, कंदप्पुवएस संसा य॥ वृ- “कहकहकहस्स"त्ति तृतीयार्थे षष्ठी, 'कहकहकहेन' उच्चैःस्वरेण विवृतवदनस्य यद् हसनम्-अट्टहास इत्यर्थः, यश्च 'कन्दर्प' स्वानुरूपेण सह परिहासः,येच ‘अनिभृताः' निष्ठुरवक्रोक्त्यादिरूपागुर्वादिनाऽपि समंसंलापाः, यच्च कन्दर्पकथायाः-कामसम्बद्धायाः कथायाः कथनम्, यश्च कन्दर्पस्योपदेशः-'इत्थमित्तं कुरु' इति विधानद्वारेण कामोपदेशः, या च 'शंसा' प्रशंसा कामविषया, एष सर्वोऽपि कन्दर्प उच्यते ।। गतं कन्दर्पद्वारम् । अथ कौत्कुच्यद्वारमाह[भा.१२९७] भुम-नयण-वयण-दसणच्छदेहि कर-पाद-कन्नमाईहिं । तंतं करेइजह हस्सए परो अत्तणा अहसं॥ वृ-कुत्कुचः-भण्डचेष्टः तस्य भावः कौत्कुच्यं तद् विद्यते यस्य स कौत्कुच्यवान् । स च द्वेधाकायेन वाचा च । तत्र भ्रू-नयन-वदन-दशनच्छदैः कर-चरण-कर्णादिभिश्च देहावयवैस्तां तां चेष्टामात्मना अहसन्नेव करोति यथा परो हसति एष कायकौत्कुच्यवानुच्यते ॥ [भा.१२९८] वायाकोक्कुइओपुण, तंजंपइजेण हस्सए अन्नो । नाणाविहजीवरुए, कुव्वइ मुहतूरए चेव ॥ वृ-वाचा कौत्कुच्यवान् पुनस्तत् किमपि परिहासप्रधानं वचनं जल्पति येनाऽन्यो हसति, नानाविधानां वा मयूर-माजरि-कोकिलादीनां जीवानां रुतानि-कूजितानि 'मुखतूर्याणि वा' मुखेनातोद्यवादनलक्षणानि तथा करोति यथा परस्य हास्यमायाति ॥अथ द्रवशीलमाह[भा.१२९९] भासइ दुयं दुयं गच्छए अदरिउ व्व गोविसो सरए। सव्वद्दुयदुयकारी, फुट्टइ व ठिओ वि दप्पेणं॥ वृ-'द्रुतं द्रुतम्' असमीक्ष्य सम्भ्रमावेशवशायोभाषते । यश्च द्रुतं गच्छति, क इव? इत्याहशरदि दर्पित इव' दर्पोछर इव 'गोवृषः' बलीवर्दविशेषः ।शरदिहिप्रचुरचारिध्राणतयामक्षिकाद्युपद्रवरहिततयाच गोवृषो मदोद्रेकादुच्छृङ्खलः पर्यटतीति, एवमसावपि निरङ्कुशस्त्वरितं त्वरितं गच्छति। यश्च ‘सर्वद्रुतद्रुतकारी' प्रत्युपेक्षणादीनां सर्वासामपि क्रियाणामतित्वरितकारी । यश्च दर्पण तीव्रोद्रेकवशात् स्फुटतीव स्थितोऽपि' स्वभावस्थोऽपि सन्, गमनादिक्रियामकुर्वन्नपीत्यर्थः । एष द्रवशील उच्यते।। अथ हासकरमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy