SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४२ बृहत्कल्प-छेदसूत्रम् - १-१/६ अस भावन त्तिय, एगठ्ठे तत्थिमा भावे ॥ वृ-इह धानुष्को यद् अभ्यासविशेषात् प्रथमं स्थूलद्रव्यं ततो वालबद्धां कपर्दिकां ततः सुनिर्मातः स्वरेणापि लक्ष्यस्य वेधं करोति, यच्चाऽश्वः शीघ्रं शीघ्रतरं धावमानः शिक्षाविशेषाद् महदपि गर्त्तादिकं लङ्घयति, हस्ती वा शिष्यमाणः प्रथमं काष्ठानि ततः क्षुल्लकान् पाषाणान् ततो गोलिका तदनु बदराणि तदनन्तरं सिद्धार्थानप्यभ्यासातिशयाद् गृह्णाति, प्लवको वा प्रथमं वंशे विलग्नः सन् प्लवते ततः पश्चादभ्यस्यन् आकाशेऽपि तानि तानि करणानि करोति, आदिशब्दाच्चित्रकरादिपरिग्रहः । एताः सर्वा अपि द्रव्यभावनाः । अभ्यास इति वा भावनेति वा एकार्थम् । तत्रैता वक्ष्यमाणलक्षणाः ‘भावे' भावतो भावना मन्तव्याः ॥ ता एवाह [ भा. १२९१] दुविहाओ भावनाओ, असंकिलिट्ठा य संकिलिट्ठा य । मुत्तूण संकिलिट्ठा, असंकिलिट्ठाहि भावंति ॥ वृ- द्विविधाश्च भावतो भावनाः । 'असंक्लिष्टाः शुभाः 'संक्लिष्टाश्च' अशुभाः । तत्र मुक्त्वा संक्लिष्टभावना असंक्लिष्टाभिर्भावनाभिर्भावयन्ति जिनकल्पं प्रतिपित्सव इति ॥ अथ कास्ताः संक्लिष्टभावनाः ? इत्याशङ्कापनोदाय तत्स्वरूपमभिधित्सुराह[भा. १२९२] संखाय परूवणया, होइ विवेगो य अप्पसत्थासु । एमेव पसत्थासु वि, जत्थ विवेगो गुणा तत्थ ।। वृ- अप्रशस्तभावनानां सङ्ख्या पञ्चेति लक्षणा निरूपणीया । प्ररूपणा च तासां कर्त्तव्या । तासां चाप्रशस्तानां ‘विवेकः' परिहारो भवति । एवमेव 'प्रशस्तास्वपि' तपःप्रभृतिभावनासु सङ्ख्या प्ररूपणा च वक्तव्या । नवरं “जत्थ विवेगो "त्ति यत्र विवेक इति पदं तत्राप्रशस्ता एव भावना द्रष्टव्याः; ता विवेक्तव्याः- परित्याज्या इति भावः । “गुणा तत्थ" त्ति यास्तु प्रशस्ता भावनाः तासु भाव्यमानासु गुणाः खेद- विनोदादयः प्रागुक्ता भवन्तीति चूर्ण्यभिप्रायेण व्याख्यानम् । विशेषचूर्ण्यभिप्रायः पुनरयम्-यत्र च प्रशस्तेऽपि वस्तुनि विवेकः परित्यागोऽस्य घटते तत्र गुणा एव भवन्ति। यथा-आचार्यादीनामवर्णभाषण-श्रवणे औदासीन्यमवलम्बमानस्याप्यस्य गुण एव भवति, न पुनः स्थविरकल्पिकस्येव यथाशक्ति तन्निवारणमकुर्वतो दोष इति ॥ अथाप्रशस्तभावनानां नामग्राहं गृहीत्वा सङ्ख्यामाह [भा. १२९३] कंदप्प देवकिव्विस, अभिओगा आसुरा य सम्मोहा । एसा य संकिलिट्ठा, पंचविहा भावना भणिया || वृ- कन्दर्पः कामस्तत्प्रधानाः षिङ्गप्राया देवविशेषाः कन्दर्पा उचयन्ते तेषामियं कान्दर्पी । एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्माणश्चण्डालप्रायास्तेषामियं दैवकिल्बिषी । आ- समन्ताद् आभिमुख्येन (वा) युज्यन्ते - प्रेष्यकर्मणि व्यापार्यन्त इत्याभियोग्याः किङ्करस्थानीया देवविशेषास्तेषामियमाभियोगी। असुराः भवनपतिदेवविशेषास्तेषामियमासुरी । सम्मुह्यन्तीति सम्मोहाः-मूढात्मानो देवविशेषास्तेषामियं साम्मोही । गाथायां प्राकृतत्वाद् आपप्रत्ययः । एषा अप्रशस्ता पञ्चविधा भावना तत्तत्स्वभावाभ्यासरूपा भणिता ।। अथासामेव फलमाह[भा. १२९४] जो संजओ वि एआसु अप्पसत्थासु भावनं कुणइ । सो तव्विसु गच्छइ, सुरेसु भइओ चरणहीनो ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy