________________
उद्देशक ः १, मूलं-६, [भा. १२८६]
३४१ प्रतिपत्तुकामेन पुनरेतेषां जयः कर्त्तव्यः । तत्रैहिका-ऽऽमुष्मिकापायपरिभावनादिना इन्द्रियाणां जयस्तथा कर्तव्यो यथेष्टा-ऽनिष्टविषयेषु गोचरमुपागतेषु राग-द्वेषयोरुत्पत्तिरेव न भवति । कषायाणामपि जये तथा य्न आस्थेयो यथा दुर्वचनश्रवणादि बाह्यं कारणमवाप्यापि तेषामुदय एव नाविर्भवति । योगानामपि मनःप्रभृतीनां जये तथा यतितव्यं यथा तेषामार्तध्यानदिकं दुष्प्रणिधानमेवनोदयमासादयति । अथ किमर्थमित्थमिन्द्रिय-कषाय-योगानां जयः कर्त्तव्यः ? इत्याह-तेषाम्-इन्द्रियादीनां जयस्तज्जयः तज्जयेन सिद्धि-जिनकल्पपारप्राप्तिस्तां 'गणयता' मन्यमानेनेन्द्रियादीनां जयः करणीयः ।। अत्रैव विशेषमाह[भा.१२८७] जोगिदिएहिं न तहा, अहिगारो निज्जिएहिं न हु ताई।
कलुसेहि विरहियाई, दुक्खसईबीयभूयाई॥ वृ-योगैरिन्द्रियैश्च निर्जितैर्न तथा 'अधिकारः' प्रयोजनम्, यतो नैव 'तानि' योगेन्द्रियाणि 'कलुषैः' कषायैर्विरहितानि दुःखसस्यबीजभूतानि भवन्ति किन्तु कषाया एव दुःखपरम्पराया मूलबीजमिति भावः ।। आह यद्येवं योगा इन्द्रियाणि च न जेतव्यानि, तेषां कषायविरहितानां दुःखहेतुत्वायोगात्, उच्यते[भा.१२८८] जेन उ आयाणेहिं, न विना कलुसाण होइ उप्पत्ती।
तो तज्जयं ववसिमो, कलुसजयं चेव इच्छंता॥ वृ-आदीयन्ते-गृह्यन्ते शब्दादयोऽर्था एभिरित्यादानानि-इन्द्रियाण्युच्यन्तेतैः, उपलक्षणत्वाद् योगैश्च विना येन हेतुना ‘कलुषाणां' कषायाणामुत्पत्तिर्न भवति । कथम् ? इति चेद् उच्यते-इह माया-लोभौ रागः क्रोध-मानौ तु द्वेष इत्यभिधीयते, तौ च राग-द्वेषाविष्टा-ऽनिष्टविषयान्प्राप्य सायेते, ते च विषया इन्द्रियगोचरा इति कृत्वा इन्द्रियैर्विना न कषायाणामुत्पत्तिराविरस्ति । योगानपि मनोवाक्कायरूपानन्तरेण न कापि कषाया उदीयमाना दृश्यन्त इति तैरपि सह कषायाणामविनाभावो द्रष्टव्यः । यतश्चैवमतः 'तज्जयम्' इन्द्रिय-योगजयं 'व्यव्यामः' इच्छामः 'कलुषजयं' कषायजयमेव इच्छन्त इति ।
आह के पुनर्गुणा भावनाभावितान्तरात्मनो भवन्ति? इति उच्यते[भा.१२८९] खेयविणोओ साहसजओ य लहुया तवो असंगो अ।
सद्धाजननं च परे, कालन्नाणंच नऽन्नत्तो॥ कृतपोभावनाभावितस्य 'खेदविनोदः परिश्रमजयो भवति, चतुर्धादिपसा नपरिश्राम्यतीत्यर्थः। सत्त्वभावनाभावितस्य साध्वसं-भयं तस्य जयोभवति। एकत्वभावनाभावितस्य 'लघुता' 'एक एवाहम्' इतिबुध्या लघुभावो भवति । श्रुतभावनाभावितस्य तपो भवति, “न विअस्थि न विय होही, सज्झायसमं तवोकम्मं ।" इति वचनात् । धृतिभावनाभावितस्य स्वजनादिषु 'असङ्गः' निर्ममत्वं भवति।अन्यच्च श्रुतभावनां भावयन् अन्येषामपि श्रद्धाजननं करोति, यथा-वयमप्येवं कदा विधास्यामः? इति । कालज्ञानं च पौरुष्यादिषु नान्यतः सकाशादवगन्तव्यं भवति किन्तु श्रुतपरावर्तनानुसारेण स्वयमेवोच्छ्वासादिकालकलाकलनतः पौरुष्यादिमानं जानाति । यत एते गुणास्ततो भावनीय आत्मा भावनया ।। साचद्विधा-द्रव्यतोभावतश्च । तत्र द्रव्यतस्तावदाह[भा.१२९०] सरवेह-आस-हत्थी-पवगाईया उभावना दव्वे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org