________________
बृहत्कल्प-छेदसूत्रम् -१-१/६ [भा.१३००] वेस-वयणेहि हासं, जनयंतो अप्पणो परेसिंच।
अह हासणो त्ति भन्नइ.घयणो व्व छले नियच्छंतो॥ वृ-"घयणो व्व" भाण्ड इव परेषां 'छिद्राणि' विरूपवेष-भाषाविपर्ययाणि "नियच्छंतो"त्ति निरन्तरमन्वेषयन् ताशेरेव वेष-वचनैर्विचित्रैरात्मनः ‘परेषां च' प्रेक्षकाणां हास्यं 'जनयन्' उत्पादयन् अथैषः ‘हासनः' हास्यकर इति भण्यते ॥ अथ परविस्मापकमाह[भा.१३०१] सुरजालमाइएहिं, तु विम्हयं कुणइ तविहजणस्स।
तेसुन विम्हयइ सयं, आहट्ट-कुहेडएहिं च ॥ वृ-सुरजालम्-इन्द्रजालम् आदिशब्दाद् अपरकौतुकपरिग्रहः तैः, तथा आहर्ताः-प्रहेलिकाः कुहेटकाः-वक्रोक्तिविशेषरूपास्तैश्च तथाविधग्राम्यलोकप्रसिद्धैर्यत् 'तद्विधजनस्य' ताशस्य बालिशप्रायलोकस्य विस्मयं' चित्तभ्रमं करोति स्वयंपुनस्तेषु न विस्मयते एष परविस्मापकः ।। उक्ता कान्दी भावना । अथ दैवकिल्विषिकी बिभावयिषुराह[भा.१३०२] नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं ।
माई अवन्नावाई, किव्विसियं भावणं कुणइ॥ वृ- ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् एतेषामवर्णवादी, तथा 'मायी' स्वभावनिगूहनादिना मायावान् एष किल्विषिकी भावनां करोतीति नियुक्तिगाथासमासार्थः॥
अथ व्यासार्थमाह[भा.१३०३] काया वया य ते चिय, ते चेवपमाय अप्पमाया य।
मोक्खाहिगारिगाणं, जोइसजोणीहि किं च पुणो॥ वृ-इह केचिद् दुर्विदग्धाः प्रवचनाशातनापातकमगणयन्त इत्थं श्रुतस्यावर्णं ब्रुवते, यथाषड्जीवनिकयामपिषट्कायाः प्ररूप्यन्ते, शस्त्रपरिज्ञायामपितएव, अन्येष्वप्यध्ययनेषुबहुशस्त एवोपवर्ण्यन्ते; एवं व्रतान्यपि पुनः पुनस्तान्येव प्रतिपाद्यन्ते; तथा त एव प्रमादा-ऽप्रमादाः पुनः पुनर्वर्ण्यन्ते, यथा-उत्तराध्ययनेषु आचाराङ्गे वा; एवं च पुनरुक्तदोषः । किञ्च यदि केवलस्यैव मोक्षस्य साधनार्थमयंप्रयासस्तर्हि 'मोक्षाधिकारिणां' साधूनां सूर्यप्रज्ञप्तयादिना ज्योतिषशास्त्रेण योनिप्राभृतेन वा किं पुनः कार्यम् ? न किञ्चिदित्यर्थः । तेषामित्यं ब्रुवाणानामिदमुत्तरम्-इह प्रवचने यत एव कायादयो भूयो भूयः प्ररूप्यन्ते तद् महता यत्नेनाऽमी परिपालनीयाः, इदमेव धर्मरहस्यमित्यादरातिशयख्यापनार्थत्वाद् न पुनरुक्तम् । यत उक्तम्
अनुवादा-ऽऽदर-वीप्सा-भृशार्थ-विनियोग-हेत्वसूयासु।
ईषत्सम्भ्रम-विस्म-गणा-स्मरणेष्वपुनरुक्तम्॥ ज्योतिशास्त्रादि च शिष्यप्रव्राजनादिशुभकार्योपयगोफलत्वात् परम्परया मुक्तिफलमेवेति न कश्चिद् दोषः । गतो ज्ञानावर्णवादः । अथ केवल्यवर्णवादमाह[भा.१३०४] एगतरमुप्पाए, अन्नोन्नावरणया दुवेण्हं पि ।
केवलदसण-नाणाणमेगकाले व एगत्तं ॥ वृ-इह केवलिनामवर्णवादो यथा-किमेषां ज्ञान-दर्शनोपयोगौ क्रमेण भवतः? उत युगपत्? यद्याधः पक्षस्ततोयंसमयंजानातितं समयं न पश्यति यं समयं पश्यति तं समयं न जानातीत्येव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org