________________
३३८
बृहत्कल्प-छेदसूत्रम् -१-१/६ साधवः सूरीन् कृताञ्जलयःप्रसादयन्ति।गुरवोब्रुवते-आर्या! अलंममदुष्टाश्वसारथित्वकल्पेनामून् प्रति आचार्यककरणेन, एवमुक्ते साधवो भणन्ति[भा.१२७५] को नाम सारहीणं, स होइ जो भद्दवाइणो दमए।
दुढे विउ जो आसे, दमेइ तं आसियं बिंति ॥ वृ-को नाम सारथीनांमध्ये सभवति यः भद्रवाजिनः विनीताश्वान् दमयेत् ? न कश्चिदसौ, असारथिरेवेत्यर्थः । 'दुष्टान्' अविनीतानपियोऽश्वान् ‘दमयति' शिक्षांग्राहयतितम् आश्विकम्' अश्वदमब्रुवते लौकिकाः॥अपिच[भा.१२७६] होति हुपमाय-खलिया, पुव्वब्भासा य दुच्चया भंते ! ।
नचिरंच जंतणेयं, हियाय अचंतियं अंते॥ वृ-'भदन्त!' परमकल्याणयोगिन् ! 'पूर्वाभ्यासाद्'अनादिभवाभ्यस्ततया दुस्त्यजानिप्रमादस्खलितानि भवन्तिप्रायोजन्तूनाम् । प्रमादाः-निद्रा-विकथादयः, स्खलितानि-अनुपयुक्तगमनभाषाणादीनि । न चेयं स्मारणादिरूपा स्त्रणा 'चिरं' चिरकालं भाविनी, सात्मीभावमुपगते ह्यमीषामप्रमादे को नाम स्मारणादिरूपा यन्त्रणा 'चिरं' चिरकालं भाविनी, सात्मीभावमुपगते ह्यमीषामप्रमादे को नाम स्मारणादिकं करिष्यति? इति भावः । न चेयमापातवत् परिणामेऽपि दुस्सहा किन्तु 'हिता च' पथ्या 'आत्यन्तिकम्' अतिशयेन ‘अन्ते' अवसाने परिणामे इत्यर्थः । यच्च परिणामसुन्दरं तदापातकटुकमप्युपादेयम् ।। अत्रान्तरे सूरयस्तेषां प्रमादिसाधूनां तीव्रतरं संवेगमवगम्य तानेव स्थिरीकर्तु राजदृष्टान्तं कुर्वन्ति[भा.१२७७] अच्छिरुयालु नरिंदो, आगंतुअविज्जगुलियसंसणया।
विसहामि त्तिय भणिए, अंजन वियणा सुहं पच्छा ।। वृ-एगो राया। तस्स अच्छिरुया जाया । वत्थव्वविजेहिं न सक्किओ तिगिच्छिउं । अन्नो अ आगंतुओ विज्जो आगंतुं भणइ-मम अस्थि गुलियाओ अच्छिसूलपसमणीओ,ताहिं अंजिएसु अच्छीसु तित्थतरादुरहियासा वेदना भवइ मुहत्तं, जइन विमे मारणाए संदिसाहि तो अंजेमिते अच्छीणि । 'न मारेमि' ति अब्भुवगए अंजिएसु अच्छीसु तिव्वतरा वेयणा जाया । ताहे रन्ना भणियं-अच्छीणिमेपडियाणि, मारेहतं वेजं । तेहिं अब्भुवगंतुंन मारिओ। मुहुत्तंतरेण उवसंता वेयणा । पोराणाणि अच्छीणि जायाणि । विजो पूइओ ॥ अथ गाथाक्षरार्थ-अक्ष्णः-चक्षुषो या रुग्-रोगस्तद्वान् कश्चिनरेन्द्रः । तस्यचागन्तुकवैद्येन गुटिकानांशंसना-स्वरूपकथना।ततो राज्ञा 'विषहाम्यहं वेदनाम्' इति भणिते वैद्येन चक्षुषोर्गुटिकाभिरञ्जनम् । ततो वेदना । पश्चात् क्रमेण सुखं सञ्जातम्, प्रगुणीभूते अक्षिणी इति । एष दृष्टान्तोऽयमर्थोपनयः-यथा तस्य राज्ञस्तत्कालदुस्सहमपि गुटिकाञ्जनंक्रमेण चक्षुषोः प्रगुणीकरणात् परिणामसुन्दरं समजनि, एवं भवतामपि स्मारणादिकं खर-पुरुषत्वाद् यद्यप्यापातकटुकं तथापिपरिणामसुन्दरमेव द्रष्टव्यम्, इह परत्रच सकलकल्याणपरम्पराकारणत्वादिति ।। उक्तानुक्तविधिसङ्ग्रहमाह[भा.१२७८] इय अविनीयविवेगो, विगिंचियाणंच संगहो भूओ।
जे उ निसग्गविनीया, सारणया केवलं तेसिं॥ वृ- "इय" एवमविनीतानां विवेकः-परित्यागः । “विगिंचियाणं च" त्ति परित्यक्तानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org