________________
उद्देशक : १, मूलं- ६, [भा. १२७८ ]
३३९
पुनरावृत्तानां भूयः सङ्घहो विधेयः । ये तु निसर्गेण स्वभावेन विनीतास्तेषां स्मारणैव केवलं कर्त्तव्या, यथा 'इदमित्थं कर्त्तव्यम्' इति ।। उपसंहरन्नाह
[भा.१२७९] एवं पडिच्छिऊणं, निप्फत्तिं कुणइ बारस समाओ । एसोचैव विहारो, सीसे निप्फाययंतस्स ॥
वृ- 'एवं' देशदर्शनं कुर्वन् शिष्य-प्रतीच्छयकान् प्रतीच्छ्य निष्पत्तिं सूत्रार्थग्राहणादिना द्वादश 'समाः ' संवत्सराणि करोति । गतं निष्पत्तिद्वारम् । अथ विहारद्वारं व्याख्यायते "एसो चेव" इत्यादि । एष एव विहारः शिष्यान् निष्पादयतो वेदितव्यः । इयमत्र भावना तस्य देशदर्शनं कृत्वा गुरुपादमूलमागतस्य गुरुभिराचार्यपदमध्यारोप्य दिग्बन्धानुज्ञायां विहितायांनवकल्पविधिना विहरतो यः शिष्यनिष्पादनविधि स एवमेव द्वादश वर्षाणि यावद् विज्ञेयः, तुल्यवक्तव्यत्वादिति ।। अथैतदेव विहारद्वारमावृत्या जिनकल्पिकमाश्रित्य व्याचिख्यासुर्द्वारगाथामाह
[भा. १२८०] अव्वोच्छित्ती मन पंचतुलण उवगरणमेव परिकम्मे । तवसुत्तसुएगत्ते उवसग्गसहे य वडरुक्खे ॥
वृ- अव्यवच्छित्तिविषयं मनः प्रयुङ्क्ते । पञ्चानाम् आचार्यादीनां तुलना-स्वयोग्यताविषया भवति, उपकरणं जिनकल्पोचितमेव गृह्णाति 'परिकर्म' इन्द्रियादिजयरूपं करोति । तपः सत्त्वश्रुतैकत्वानि उपसर्गसहश्चेति पञ्चभावना भवन्ति । 'वटवृक्षे' इति जिनकल्पं तीर्थकरादी - नामभावे वटवृक्षस्याधस्तात् प्रतिपद्यते इति द्वारगाथासमासार्थः । अथैनामेव विवरीषुराह
[भा. १२८१] अनुपालिओ य दीहो, परियाओ वायणा वि मे दिन्ना । निप्फाइया य सीसा, सेयं खु महऽ प्पणो काउं ॥
वृ- तेनाचार्येण सूत्रार्थयोरव्यवच्छित्तिं कृत्वा पर्यन्ते-पूर्वापररात्रकालसमये धर्मजागरिकां जाग्रतेत्थं चिन्तनीयम्, यथा - अनुपालितो मया दीर्घ 'पर्यायः' प्रवज्यारूपः, वाचनाऽपि मया दत्ता उचितेभ्यः प्रतीच्छकादिभ्यः, निष्पादिताश्च भूयांसः शिष्याः, तदेवं कृता तीर्थस्याव्यवच्छित्ति, तत्करणेन विहितमात्मनः ऋणमोक्षणम्, अत ऊर्द्धवं 'श्रेयः' प्रशस्यतरं ममात्मनो हितं कर्तुम् ॥ किं नाम हितम् ? इति चेद् उच्यते
[ भा. १२८२] किन्नु विहारेणऽब्भुज्जएण विहरामऽनुत्तरगुणेणं । आओ अब्भुजजयसासणेण विहिना अनुमरामि ॥
वृ- 'किन्नु' इति वितर्के, 'अभ्युद्यतविहारेण' जिनकल्पादिना 'अनुत्तरगुणेन' अनुत्तराःअनन्यसामान्या गुणाः-निरममत्वादयो यस्मिन् स तथा तेन अहं विहरामि ? “आउ” त्ति उताहो "अब्भुज्जसासणेणं" ति सूचकत्वात् सूत्रस्याऽभ्युद्यतमरणविषयेण शासनोक्तेन विधिना 'अनुम्रिये” अनु-पश्चात् संलेखनाद्युत्तरकालं मरणं प्रतिपद्येऽहम् ? इति ॥
अभ्युद्यतविहार-मरणयोः स्वरूपमाह
[भा. १२८३] जिन सुद्ध अहालंदे, तिविहो अब्भुज्जओ अह विहारो । अब्भुजयमरणं पुन, पाओवग- इंगिणि-परिन्ना ।।
वृ- जिनकल्पः शुद्धपरिहारकल्पो यथालन्दकल्पश्चेति त्रिविधोऽभ्युद्यतोऽथैष विहारो मन्तव्यः । अभ्युद्यतमरमं पुनस्त्रिविधम्-पादपोपगमनम् इङ्गिनीमरणं 'परिज्ञा' इति भक्तप्रत्याख्यानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org