________________
उद्देशक ः १, मूलं-६, [भा. १२७१]
३३७ तदिदानीं भाव्यते-अविनीता नाम ये बहुशोऽपिप्रतिनोद्यमानाःप्रमाद्यन्ति, तेच च्छन्देवर्तमाना भण्यन्ते, ताँश्च सूरय आत्मच्छन्देन वर्जयेयुः । कः पुनरात्मीयच्छन्दो येन ते परिह्रियन्ते? इति उच्यते[भा.१२७२] तेन परं निच्छुभणा, आउट्टो पुन सयं परेहिं वा ।
तंबोलपत्तनायं, नासेहिसि मज्झ अन्ने वि ।। वृ-'ततः परं' वारत्रयादूर्द्धयदिन निवर्ततेतदा निष्काशना कर्त्तव्या, निर्गच्छमदीयगच्छादिति। अथासौ स्वयं परेण वा प्रज्ञापितः सन् ‘आवृत्तः' प्रमादात् प्रतिनिवृततः प्रतिभणति ‘भगवन् ! क्षमध्वं मदीयमपराधनिकुरम्बम्, न पुनरेवं करिष्यामि' इति, ततो यद् द्वारगाथायां पत्रज्ञातं सचितं तदुपवर्ण्यते-"तंबोलपत्तनायं"ति, यथा तम्बोलपत्रं कुथितं स यदि न परित्ययते ततः शेषाण्यपिपत्राणि कोथयति । एवं त्वमपि स्वयं विनष्टोममाऽन्यानपिसाधून विनाशयिष्यसीति कृत्वा निष्काशितोऽस्माभिः । सम्प्रत्यप्रमत्तेन भवितव्यं मासगुरु च ते प्रायश्चित्तम् ।।
अथ निष्काशनस्यैव विधिमाह[भा.१२७३] सुहमेगो निच्छुब्मइ, नेगा भणिया उ जइ न वच्चंति।
अन्नावएस उवहि, जग्गावण सारिकह गमनं ।। वृ-तेपुनःप्रमाद्यन्त एको वाऽनेके वा। यद्येकस्ततःसुखेनैव 'निर्गच्छमद्गच्छात्' इत्यभिधाय निष्काश्यते । अथानेके-बहवस्ततस्ते यदि 'निर्गच्छत' इति भणिता अपि 'वयं बहवस्तिष्ठामः' इत्यवष्टम्भं कृत्वा न व्रजन्ति ततः शेषसाधून रहस्यं ज्ञापयित्वाऽन्येन केनापि अपदेशेन-मिषेण यथानतेषांशङ्का भवति तथोपधिं विहारयोग्यंकारयित्वा अन्यव्यपदेशेनैवतेरात्रौ चिरंजागरणं कारापणीया यथा न प्रातः शीघ्रमुत्तिष्ठन्ति । “सारिकह"त्ति सागारिकः-शय्यातरस्तस्याग्रतो रहसि कथनीयम्, यथा-वयं प्रभात एवामुकं ग्रामं व्रजिष्यामः, यदि कोऽपि महता निर्बन्धेन युष्मान् प्रश्नयेत्, यथा-आचार्या क्व गताः ? इति ततो भवद्भिस्तस्य यथावद् निवेदनीयम् । “गमनं" ति ततो गमनं कर्तव्यम् ।। गतेषु चाचार्येषु यदि ते ब्रूयुः[भा.१२७४] मुक्कामो दंडरुइणो, भणंति इइजे न तेसु अहिगारो।
सेजायरनिबंधे, कहियाऽऽगय न विनए हानी ॥ वृ- 'अहो! सुन्दरं समजनि यद् ‘दण्डरुचेः' उग्रदण्डव्यसनिन आचार्या मुक्ता वयम्' इति ये भणन्ति न तेष्वधिकारः। ये पुनः परित्यक्ताः सन्तो गाढं परितप्यन्ते 'आः! कष्टम्, उज्झिता वयं वराका निसम्बन्धबन्धुभिस्तैर्भगवद्भि, अतः कथमिव भविप्यामः ?' इति ते शय्यातरं महता निर्बन्धेन पृच्छन्ति-कथय कुत्रास्मान् विमुच्य गताः क्षमाश्रमणाः ? । स प्राह-अमुकं ग्रामम् ।ततस्तेन कथिते त्वरितमागतानां तेषां न विनयहानि कर्त्तव्या, किन्तुप्राग्वदेवाऽभ्युत्थानं दण्डकादिग्रहणंचकर्त्तव्यम्। ततस्तेबद्धाञ्जलपुटाः पादपतिताश्छिन्नमुक्तावलिप्रकाशान्यश्रूणि विमुञ्चन्तो विज्ञपस्ति-भगवन् ! क्षमध्वमस्मदीयमपरधम्, विलोकयताऽस्मान् प्रसादमन्थरया दृशा, प्रतिपद्यध्वं भूयः स्वप्रतीच्छकतया, कुरुतानुग्रहं स्मारणादिना, प्रणिपातपर्यवसितप्रकोपा हि भवन्ति महात्मानः, इत ऊर्ध्वं वयं प्रमादं प्रयत्नतः परिहरिष्याम इति । ततो गच्छसत्काः | 18|22
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org