________________
३३६
बृहत्कल्प-छेदसूत्रम् - १-१/६ लद्दितो हलं वा वहमानः प्रतोदेनाऽतितोदितः सन् कूर्दयित्वा भारं पातयति हलं वा भनक्ति; एवमयमपि स्फुटाक्षरं रूक्षभणित्या वा भणितः कषायितत्वाद् असङ्घडं कृत्वा गच्छान्निर्गच्छेत् । अत एवाह-गौरिव, वाशब्दस्योपमानार्थस्याऽत्र सम्बन्धाद्, असावपि 'तुदितः' स्वर- परुषभणनप्रतोदे व्यथितः सन् मा 'हुः' निश्चितं 'प्रेरयेत् संयमभारं बलादपहस्त्य पातयेत्, अत एव ' ‘सद्यः' तत्कालं यदा प्रमादः कृतस्तदैव न भण्यते । “धुव सारण "त्ति स वक्तव्यः- वत्स ! ध्रुवाअवश्यं कर्त्तव्या संयमयोगेषु सीदतां सारणा, तथा च मौनीन्द्रवचनम्
रूसउ वा परो मा वा, विसं वा परियत्तउ । भासियव्व हिया भासा, सपक्खगुणकारिया ॥
'तत्' तस्माद् जिनाज्ञाराधनायवयं भवन्तमेवं भणामः, न पुनर्मत्सर- प्रद्वेषादिना ॥ अथ "सज्जं अतो न भन्नइ' त्ति पदव्याख्यानार्थमाह
[भा. १२६९]
तद्दिवसं बिइए वा, सीयंतो वुच्चए पुणो तइयं । गोऽवराहो ते सोढो, बीयं पुण ते न विसहामो ॥
वृ- 'सीदन्' सामाचार्यां प्रमाद्यान् तस्मिन्नेव दिवसेऽन्यस्यां वेलायां द्वितीये वा दिवसे पुनर्भूयोऽप्युच्यते 'तृतीया' प्रतिस्मारणा, एक उपदेशो द्वितीया स्मारणा तृतीया प्रतिस्मारणेति कृत्वा । कथम् ? इत्याह-एकस्ते महानपराधः 'सोढः' तितिक्षितोऽस्माभि, यदि पुनर्द्वितीयं स्वल्पमप्यपराधं करिष्यसि ततो वयं ते "न विसहामो" न सहिष्यामः ॥
I
तथा चात्रार्द्रच्छगणकध्ष्टान्तः क्रियते
[भा. १२७० ] गोणाइहरणगहिओष मुक्को य पुणो सहोढ गहिओ उ । उल्लोल्लछगणहारी, न मुच्चए जायमाणो वि ॥
वृ- यथा कश्चित् चौरो गवादिहरणं कुर्वन्नारक्षकैर्गृहीतः ततः, 'मुञ्चत मामेकवारम्, नाहं भूयः स्वल्पमपि चीर्यं करिष्यामि' इत्युक्ते दयालुत्वाद् अपरोपरोधाद्वा तैर्मुक्तः पुनर्द्वितीयवेलायां पूर्वाभ्यासवशाद् यद्यार्द्वार्द्रच्छघणहारी भवति, स्वल्पचौर्यकारीति भावः, तथापि 'सहोढः' सलोम्रो गृहीतः सन् याचमानोऽपि मोक्षणं न मुच्यते । एवं भवतोऽप्येकवारं महदपि प्रमादपदं तितिक्षितमस्माभि, इत ऊर्ध्वं तु स्तोकमपि न तितिक्षामहे । इत्थमुक्तोऽपि यदि प्रमाद्यति तदा मासलघु दण्डं दत्त्वा द्वितीयं घट्टनादृष्टान्तं कुर्वन्ति ॥ तमेवाह
[भा. १२७१] घट्टितं वुच्छं, इति उदिए दंडना पुनो बिइयं । पासाणो संवृत्तो, अइरुंचिय कुंकुमं तइए ॥
वृ- यथा दुग्धमाद्रहितं सद् घट्यमानं चाल्यमानमपि “वुच्छं " ति देशीपदत्वाद् अवदग्धं विनष्टमिति यावद् एवं भवानप्यस्माभिरित्यं स्मारणादिना घट्यमानोऽपि प्रमादमेवाऽऽ सेवितवान्, 'इति' एवम् 'उदिते' कथिते सति यदि भूयः प्रमाद्यति तदा पुनरपि 'दण्डना' मासलघुप्रायश्चित्तरूपा कर्त्तव्या । “बीयं”ति एतद् द्वितीयमुदाहरणम् । इत्थं दण्डितोऽपि यदि प्रमादाद् नोपरमते तदा रुञ्चनादृष्टान्तो वक्तव्यः- “पासाणो" इत्यादि । अति - अतीव रुञ्चितं पिष्टं कुङ्कुमं किं पाषाणः संवृत्तः ? । एवं भवानपि मता प्रयासेन प्रतिनोद्यमानः किमप्रमत्तः संवृत्तः ? इति । एतत् तृतीयमुदाहरणं कृत्वा तथैव मासलघु दीयते ॥ अत यदुक्तं प्राक् " अविनीयाणं विवेगो य" त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org