________________
३३३
उद्देशक : १, मूलं-६, [भा. १२५४] तस्मात् तारणं-पारनयनम्, आदिशब्दाद् राजद्विष्टादितारणानि कर्तुमहं समर्थो न वेति ।। [भा.१२५५] कालम्मि ओममाई, भावे अतरंतमाइपाउग्गं ।
कोहाइनिग्गहं वा, जं कारण सारणा वा वि ॥ वृ-काले अवमं-दुर्भिक्षं तत्र आदिग्रहणाद् अशिव-भयादौ निर्वाहयितुं शक्नोऽस्मिन वेति । भावे "अतरंत"त्ति ग्लानीभृतानाम् आदिशब्दाद् बाल-वृद्धादीनां वा एषां प्रायोग्यमुत्पादयितुं समर्थोऽहं न वेति, अथवा शक्नोमि क्रोधनिग्रहं कर्तुं न वेति आदिग्रहणाद् मान-मायालोभनिग्रहपरिग्रहः, यद्वा यत् ‘कारणं ज्ञानादिकं निमित्तमुद्दिश्यैते उपसम्पद्यन्ते तस्याहं सारणां कर्तुमीशो न वेति ।। गतमात्मतुलनाद्वारम् । अथ परतुलनाद्वारमाह[भा.१२५६] आहाराइ अनियओ, लंभो सो विरसमाइ निज्जूढो ।
उब्भामग खुलखेत्ता, अरिउहियाओ अवसहीओ।। वृ-ते प्रतीच्छकाः प्रथममेवीच्यन्ते-द्रव्यत आहारादीनां लाभः ‘अनियतः' कदाचिद् भवति कदाचित्रेति, योऽपि भवति सोऽपि विरसः-पुराणौदनादि, आदिशब्दाद् अरसस्य हिङ्ग्वाद्यसंस्कृतस्य रूक्षस्य च वल्ल-चणकादेर्ग्रहणम्, सोऽपि 'नियूंढः' उज्झितप्रायः । क्षेत्रत उद्भ्रामकभिक्षाचर्ययागन्तव्यम्, बहिग्रामेषुभिक्षार्थयत्पर्यटनंसा उद्भ्रामकभिक्षाचर्या; तथा खुलक्षेत्राणि' नाम यत्राल्पो लोको भिक्षाप्रदाता, सोऽपिच स्तोकमेव ददाति तत्र विहर्त्तव्यम्; अऋतुहिताश्च प्रायो वसतयः प्राप्यन्ते,यो यदा ऋतुर्वर्त्तते तस्य तदाऽननुकूला इत्यर्थः ।। [भा.१२५७] ऊणाइरित्त वासो, अकाल भिक्खपुरिमड्ड ओमाई।
भावे कसायनिग्गह, चोयण न य पोरुसी नियया ॥ वृ-कालतः कदाचिद् मासकल्पस्थाने वर्षावासस्थाने वा ऊनमतिरिक्तं वा कालं कारणे वासः-अवस्थानं भवेत्, कापि क्षेत्रे 'अकाले' सूत्रपौरुष्याअर्थपौरुष्यावा वेलायांभिक्षा प्राप्येत, ततः सूत्रार्थहानिरपि भाविनी, कुत्रापि पूर्वार्द्धऽपि पूर्णे अवमं-स्वोदरपूरकाहारमात्राया न्यूनं लभ्येत, आदिग्रहणात् पानमपि सम्पद्येत । भावे' भावतः कषायनिग्रहः खरपरुषनोदनायामपि कर्तव्यः । नच 'नियता' अवश्यम्भाविनी सूत्रार्थयोः पौरुषी, कदाचिदस्माकंधर्मकथादिव्यग्रतया सूत्रार्थयोव्यार्घातोऽपि भवतां भवेदित्यर्थः । तदेतत् सर्वमपि यद्यङ्गीकर्तुमुत्सहथ ततः प्रतिपद्यध्वमुपसम्पदमिति॥ [भा.१२५८] अत्तनि य परे चेवं, तुलणा उभय थिरकारणे वुत्ता।
पडिवजंते सव्वं, करिति सुण्हाए दिलुतं ।। वृ-आत्मविषया परविषया चतुलना उभयोरपि स्थिरताकारणे' स्थिरीकरणार्थमेवमुक्ता। गतंस्थिरत्वद्वारम्, अथ प्रतीच्छनाद्वारमाह-"पडिवजंते" इत्याधुत्तरार्द्धम्। सर्वम्' अनन्तरोक्तमर्थं यदि प्रतीच्छकाः प्रतिपद्यन्ते तदा ‘स्नुषया' वध्वा दृष्टान्तमाचार्या कुर्वन्ति । तमेवाह[भा.१२५९] आस-रहाई ओलोयणाइ भीया-ऽऽउले अपेहंती ।
सकुलघरपरिचएणं, वारिजइ ससुरमाईहिं॥ वृ- यथा काचिद् वधूः स्वकुलगृहस्य-स्वकीयपितृगृहस्य सम्बन्धी यः परिचयःरमणीयवस्तुदर्शनहेवाकस्तेन अश्व-रथान् आदिग्रहणेन हस्त्यादीन्, अवलोकनं-गवाक्षस्तेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org