________________
३३४
बृहत्कल्प-छेदसूत्रम् -१-१/६ आदिशब्दाद् अपरेण वा जालकादिना भीतान्आकुलाँश्च जनान् प्रेक्षमाणा सती 'वार्यते' 'पुत्रि! माऽवलोकिष्ठाः' इति प्रतिनिषिध्यते श्वसुरादिभि, मा भूद् अस्याः प्रसङ्गतः परपुरुषविषयोऽप्यवलोकनहेवाक इति॥ [भा.१२६०] खिसिज्जइ हम्मइ वा, नीणिजइ वा घरा अठाइंती।
नीया पुन से दोसे, छायंतिन निच्छुभंते य॥ वृ-यदि वारिता सती नोपरमते ततः "खिसिज्जइ"त्ति निन्द्यते 'आः कुलपांसने ! किमेवं करोषि?' इत्यादि । तथापि यदि न निवर्तते ततः 'हन्यते' कशादिभिस्ताड्यते । एवमपि यदिन तिष्ठति ततोऽतिष्ठन्ती गृहानिष्काश्यते, मा भूदपरासामपि गृहमहेलानामस्याः प्रसङ्गजनित एवंविध एव कुहेवाकइति कृत्वा।येतुतस्याः 'निजकाः पितृगृहसम्बद्धाःस्वजनास्ते से' तस्या दोषाँश्छादयन्ति, कथञ्चिदुपालम्भप्रदानादिनाऽनाच्छादयन्तोऽपिन गृहा निष्काशयन्ति, गौरवार्हत्वात् तत्र तस्याः॥ एष स्नुषादृष्टान्तः । अथार्थोपनयमाह[भा.१२६१] मरिसिजइ अप्पो वा, सगणे दंडो न यावि निच्छुभणं ।
अम्हे पुन न सहामो, ससुरकुलं चेव सुण्हाए। वृते आचार्या भणन्ति-आर्या ! पितृगृहस्थानीयो युष्माकं स्वगच्छः, श्वसुरकुलस्थानीया वयम्, अश्व-रथाद्यवलोकनस्थानीयंप्रमादासेवनम्, गवाक्षादिस्थानीयान्यपुष्टालम्बनानि; ततो युष्माकं स्वगणे स्वगच्छे प्रमादासेवनंकृतमपि मृष्यते क्षम्यते, अल्पोवा 'दण्डः' प्रायश्चित्तलक्षणः प्रमादप्रत्ययो भवतां तत्र दीयते, नच महत्यप्यपराधेगच्छानिष्कासनं गौरवार्हतया भवतां भवति; वयंपुनः स्वल्पमप्यपराधंभवतांनसहामः श्वसुरकुलमिव ‘स्नुषायाः' वध्वाः सम्बन्धिनमपराधम् इत्युक्ते यदि ते प्रतीच्छका भणेयुः संविग्ना वा । तत्र ये पार्श्वस्थादयस्ते पार्श्वस्थादिमुण्डिता वा संविग्नमुण्डिता वा । येऽपि संविग्नास्तेऽपि समनोज्ञा वा अमनोज्ञा वा ।।
सर्वेषामपि एषां विधिमाह[भा.१२६२] पासत्थाईमुंडिए, आलोयण होइ दिक्खपभिईओ।
संविग्गपुराणे पुन, जप्पभिइंचेव ओसन्नो ।। वृ-यः पार्श्वस्थादि पार्श्वस्थादिभिरेवमुण्डितस्तस्य दीक्षाप्रभृति' दीक्षादिनादारभ्य आलोचना भवति । यस्तु संविग्नमुण्डितत्वात् पूर्वं संविग्नः पश्चाद् अवसन्नीभूतः स पुराणसंविग्न उच्यते, गाथायां प्राकृतत्वाद् व्यत्यासेन पूर्वापरनिपातः, सः 'यत्प्रभृति' यद्दिनादारभ्याऽवसन्नः सञ्जातस्तत्प्रभृत्येवालोचनां दाप्यते॥ [भा.१२६३] समणुन्नमसमणुन्ने, जप्पभिई चेव निग्गओ गच्छा।
. सोहिं पडिच्छिऊणं, सामायारिं पयंसंति॥ कृ-यस्तुसंविग्नःसद्विधा-'समनोज्ञः' सम्भोगिकः असमनोज्ञः' असाम्भोगिकः ।सद्विविधोऽपि यत्प्रभृति स्वगच्छान्निर्गतस्तत एव दिनादारभ्यालोचनां दापयितव्य । ततः 'शोधिम्' आलोचनां प्रतीच्छय यो यत् तपः छेदं मूलं वा प्रायश्चित्तमापन्नस्तस्य तद् दत्त्वा स्वकीयां सामाचारीमाचार्या प्रदर्शयन्ति ।। किं कारणम् ? इति चेदित्याह
[भा.१२६४] अवि गीय-सुयहराणं, चोइज्जंताण मा हु अचियत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org